Ṛgveda · Maṇḍala 4 · Sūkta 48

Ṛk 4.48.5

Vāyu · Vāmadeva Gautama

The whole sūkta Link

Saṃhitā

वायो॑ श॒तं हरी॑णां यु॒वस्व॒ पोष्या॑णां ।
उ॒त वा॑ ते सह॒स्रिणो॒ रथ॒ आ या॑तु॒ पाज॑सा ॥

वायो शतं हरीणां युवस्व पोष्याणाम् |
उत वा ते सहस्रिणो रथ आ यातु पाजसा ||

vā́yo śatám hárīṇām yuvásva póṣyāṇām ǀ
utá vā te sahasríṇo rátha ā́ yātu pā́jasā ǁ

vāyo śataṃ harīṇāṃ yuvasva poṣyāṇām |
uta vā te sahasriṇo ratha ā yātu pājasā ||

Padapāṭha

वायो॒ इति॑ । श॒तम् । हरी॑णाम् । यु॒वस्व॑ । पोष्या॑णाम् ।
उ॒त । वा॒ । ते॒ । स॒ह॒स्रिणः॑ । रथः॑ । आ । या॒तु॒ । पाज॑सा ॥

वायो इति । शतम् । हरीणाम् । युवस्व । पोष्याणाम् ।
उत । वा । ते । सहस्रिणः । रथः । आ । यातु । पाजसा ॥

vā́yo íti ǀ śatám ǀ hárīṇām ǀ yuvásva ǀ póṣyāṇām ǀ
utá ǀ vā ǀ te ǀ sahasríṇaḥ ǀ ráthaḥ ǀ ā́ ǀ yātu ǀ pā́jasā ǁ

vāyo iti ǀ śatam ǀ harīṇām ǀ yuvasva ǀ poṣyāṇām ǀ
uta ǀ vā ǀ te ǀ sahasriṇaḥ ǀ rathaḥ ǀ ā ǀ yātu ǀ pājasā ǁ

References

Maṇḍala · Sūkta · Ṛk
04.048.05
Aṣṭaka · Adhyāya · Varga · Ṛk
3.7.24.05
Maṇḍala · Anuvāka · Ṛk
04.05.016
Devatā देवता
Vāyu
Ṛṣi ऋषि
Vāmadeva Gautama
Chandas छन्दस्
Anuṣṭubh
Svara स्वरः
गान्धारः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 4.48.5

Interpretations

Sāyaṇa

उपोद्घातः

वायो शतमिति पञ्चमी पूर्वोक्त एव तृचे तृतीया । सूत्रं पूर्वमेवोक्तं ।

हे वायो त्वं पोष्याणां पोषणीयानां हरीणां शतं युवस्व । योजय रथे । उत वा अथवा ते सहस्रिणः सहस्रसङ्ख्यापूरका अश्वाः । तैर्युक्तो रथः पाजसा बलेना यातु । आगच्छतु ॥ ५ ॥