Ṛk 4.48.1
Saṃhitā
वि॒हि होत्रा॒ अवी॑ता॒ विपो॒ न रायो॑ अ॒र्यः ।
वाय॒वा चं॒द्रेण॒ रथे॑न या॒हि सु॒तस्य॑ पी॒तये॑ ॥
विहि होत्रा अवीता विपो न रायो अर्यः |
वायव् आ चन्द्रेण रथेन याहि सुतस्य पीतये ||
vihí hótrā ávītā vípo ná rā́yo aryáḥ ǀ
vā́yavā́ candréṇa ráthena yāhí sutásya pītáye ǁ
vihi hotrā avītā vipo na rāyo aryaḥ |
vāyav ā candreṇa rathena yāhi sutasya pītaye ||
Padapāṭha
वि॒हि । होत्रा॑ । अवी॑ताः । विपः॑ । न । रायः॑ । अ॒र्यः ।
वायो॒ इति॑ । आ । च॒न्द्रेण॑ । रथे॑न । या॒हि । सु॒तस्य॑ । पी॒तये॑ ॥
विहि । होत्रा । अवीताः । विपः । न । रायः । अर्यः ।
वायो इति । आ । चन्द्रेण । रथेन । याहि । सुतस्य । पीतये ॥
vihí ǀ hótrā ǀ ávītāḥ ǀ vípaḥ ǀ ná ǀ rā́yaḥ ǀ aryáḥ ǀ
vā́yo íti ǀ ā́ ǀ candréṇa ǀ ráthena ǀ yāhí ǀ sutásya ǀ pītáye ǁ
vihi ǀ hotrā ǀ avītāḥ ǀ vipaḥ ǀ na ǀ rāyaḥ ǀ aryaḥ ǀ
vāyo iti ǀ ā ǀ candreṇa ǀ rathena ǀ yāhi ǀ sutasya ǀ pītaye ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 04.048.01
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.7.24.01
- Maṇḍala · Anuvāka · Ṛk
- 04.05.012
- Devatā देवता
- Vāyu
- Ṛṣi ऋषि
- Vāmadeva Gautama
- Chandas छन्दस्
- Anuṣṭubh
- Svara स्वरः
- गान्धारः
Text and interpretations from the Ṛgveda database of theveda.org.in.