Ṛk 4.19.8
Saṃhitā
पू॒र्वीरु॒षसः॑ श॒रद॑श्च गू॒र्ता वृ॒त्रं ज॑घ॒न्वाँ अ॑सृज॒द्वि सिंधू॑न् ।
परि॑ष्ठिता अतृणद्बद्बधा॒नाः सी॒रा इंद्रः॒ स्रवि॑तवे पृथि॒व्या ॥
पूर्वीर् उषसः शरदश् च गूर्ता वृत्रं जघन्वां असृजद् वि सिन्धून् |
परिष्ठिता अतृणद् बद्बधानाः सीरा इन्द्रः स्रवितवे पृथिव्या ||
pūrvī́ruṣásaḥ śarádaśca gūrtā́ vṛtrám jaghanvā́m̐ asṛjadví síndhūn ǀ
páriṣṭhitā atṛṇadbadbadhānā́ḥ sīrā́ índraḥ srávitave pṛthivyā́ ǁ
pūrvīr uṣasaḥ śaradaś ca gūrtā vṛtraṃ jaghanvāṃ asṛjad vi sindhūn |
pariṣṭhitā atṛṇad badbadhānāḥ sīrā indraḥ sravitave pṛthivyā ||
Padapāṭha
पू॒र्वीः । उ॒षसः॑ । श॒रदः॑ । च॒ । गू॒र्ताः । वृ॒त्रम् । ज॒घ॒न्वान् । अ॒सृ॒ज॒त् । वि । सिन्धू॑न् ।
परि॑ऽस्थिताः । अ॒तृ॒ण॒त् । ब॒द्ब॒धा॒नाः । सी॒राः । इन्द्रः॑ । स्रवि॑तवे । पृ॒थि॒व्या ॥
पूर्वीः । उषसः । शरदः । च । गूर्ताः । वृत्रम् । जघन्वान् । असृजत् । वि । सिन्धून् ।
परिऽस्थिताः । अतृणत् । बद्बधानाः । सीराः । इन्द्रः । स्रवितवे । पृथिव्या ॥
pūrvī́ḥ ǀ uṣásaḥ ǀ śarádaḥ ǀ ca ǀ gūrtā́ḥ ǀ vṛtrám ǀ jaghanvā́n ǀ asṛjat ǀ ví ǀ síndhūn ǀ
pári-sthitāḥ ǀ atṛṇat ǀ badbadhānā́ḥ ǀ sīrā́ḥ ǀ índraḥ ǀ srávitave ǀ pṛthivyā́ ǁ
pūrvīḥ ǀ uṣasaḥ ǀ śaradaḥ ǀ ca ǀ gūrtāḥ ǀ vṛtram ǀ jaghanvān ǀ asṛjat ǀ vi ǀ sindhūn ǀ
pari-sthitāḥ ǀ atṛṇat ǀ badbadhānāḥ ǀ sīrāḥ ǀ indraḥ ǀ sravitave ǀ pṛthivyā ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 04.019.08
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.6.02.03
- Maṇḍala · Anuvāka · Ṛk
- 04.02.095
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Vāmadeva Gautama
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.