Ṛk 4.19.5
Saṃhitā
अ॒भि प्र द॑द्रु॒र्जन॑यो॒ न गर्भं॒ रथा॑ इव॒ प्र य॑युः सा॒कमद्र॑यः ।
अत॑र्पयो वि॒सृत॑ उ॒ब्ज ऊ॒र्मींत्वं वृ॒ताँ अ॑रिणा इंद्र॒ सिंधू॑न् ॥
अभि प्र दद्रुर् जनयो न गर्भं रथा इव प्र ययुः साकम् अद्रयः |
अतर्पयो विसृत उब्ज ऊर्मीन् त्वं वृतां अरिणा इन्द्र सिन्धून् ||
abhí prá dadrurjánayo ná gárbham ráthā iva prá yayuḥ sākámádrayaḥ ǀ
átarpayo visṛ́ta ubjá ūrmī́ntvám vṛtā́m̐ ariṇā indra síndhūn ǁ
abhi pra dadrur janayo na garbhaṃ rathā iva pra yayuḥ sākam adrayaḥ |
atarpayo visṛta ubja ūrmīn tvaṃ vṛtāṃ ariṇā indra sindhūn ||
Padapāṭha
अ॒भि । प्र । द॒द्रुः॒ । जन॑यः । न । गर्भ॑म् । रथाः॑ऽइव । प्र । य॒युः॒ । सा॒कम् । अद्र॑यः ।
अत॑र्पयः । वि॒ऽसृतः॑ । उ॒ब्जः । ऊ॒र्मीन् । त्वम् । वृ॒तान् । अ॒रि॒णाः॒ । इ॒न्द्र॒ । सिन्धू॑न् ॥
अभि । प्र । दद्रुः । जनयः । न । गर्भम् । रथाःऽइव । प्र । ययुः । साकम् । अद्रयः ।
अतर्पयः । विऽसृतः । उब्जः । ऊर्मीन् । त्वम् । वृतान् । अरिणाः । इन्द्र । सिन्धून् ॥
abhí ǀ prá ǀ dadruḥ ǀ jánayaḥ ǀ ná ǀ gárbham ǀ ráthāḥ-iva ǀ prá ǀ yayuḥ ǀ sākám ǀ ádrayaḥ ǀ
átarpayaḥ ǀ vi-sṛ́taḥ ǀ ubjáḥ ǀ ūrmī́n ǀ tvám ǀ vṛtā́n ǀ ariṇāḥ ǀ indra ǀ síndhūn ǁ
abhi ǀ pra ǀ dadruḥ ǀ janayaḥ ǀ na ǀ garbham ǀ rathāḥ-iva ǀ pra ǀ yayuḥ ǀ sākam ǀ adrayaḥ ǀ
atarpayaḥ ǀ vi-sṛtaḥ ǀ ubjaḥ ǀ ūrmīn ǀ tvam ǀ vṛtān ǀ ariṇāḥ ǀ indra ǀ sindhūn ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 04.019.05
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.6.01.05
- Maṇḍala · Anuvāka · Ṛk
- 04.02.092
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Vāmadeva Gautama
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.