Ṛk 4.1.16
Saṃhitā
ते म॑न्वत प्रथ॒मं नाम॑ धे॒नोस्त्रिः स॒प्त मा॒तुः प॑र॒माणि॑ विंदन् ।
तज्जा॑न॒तीर॒भ्य॑नूषत॒ व्रा आ॒विर्भु॑वदरु॒णीर्य॒शसा॒ गोः ॥
ते मन्वत प्रथमं नाम धेनोस् त्रिः सप्त मातुः परमाणि विन्दन् |
तज् जानतीर् अभ्य् अनूषत व्रा आविर् भुवद् अरुणीर् यशसा गोः ||
té manvata prathamám nā́ma dhenóstríḥ saptá mātúḥ paramā́ṇi vindan ǀ
tájjānatī́rabhyánūṣata vrā́ āvírbhuvadaruṇī́ryaśásā góḥ ǁ
te manvata prathamaṃ nāma dhenos triḥ sapta mātuḥ paramāṇi vindan |
taj jānatīr abhy anūṣata vrā āvir bhuvad aruṇīr yaśasā goḥ ||
Padapāṭha
ते । म॒न्व॒त॒ । प्र॒थ॒मम् । नाम॑ । धे॒नोः । त्रिः । स॒प्त । मा॒तुः । प॒र॒माणि॑ । वि॒न्द॒न् ।
तत् । जा॒न॒तीः । अ॒भि । अ॒नू॒ष॒त॒ । व्राः । आ॒विः । भु॒व॒त् । अ॒रु॒णीः । य॒शसा॑ । गोः ॥
ते । मन्वत । प्रथमम् । नाम । धेनोः । त्रिः । सप्त । मातुः । परमाणि । विन्दन् ।
तत् । जानतीः । अभि । अनूषत । व्राः । आविः । भुवत् । अरुणीः । यशसा । गोः ॥
té ǀ manvata ǀ prathamám ǀ nā́ma ǀ dhenóḥ ǀ tríḥ ǀ saptá ǀ mātúḥ ǀ paramā́ṇi ǀ vindan ǀ
tát ǀ jānatī́ḥ ǀ abhí ǀ anūṣata ǀ vrā́ḥ ǀ āvíḥ ǀ bhuvat ǀ aruṇī́ḥ ǀ yaśásā ǀ góḥ ǁ
te ǀ manvata ǀ prathamam ǀ nāma ǀ dhenoḥ ǀ triḥ ǀ sapta ǀ mātuḥ ǀ paramāṇi ǀ vindan ǀ
tat ǀ jānatīḥ ǀ abhi ǀ anūṣata ǀ vrāḥ ǀ āviḥ ǀ bhuvat ǀ aruṇīḥ ǀ yaśasā ǀ goḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 04.001.16
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.4.15.01
- Maṇḍala · Anuvāka · Ṛk
- 04.01.016
- Devatā देवता
- 1, 6-20: Agni; 2-5: Agni Or Agni And Varuṇa
- Ṛṣi ऋषि
- Vāmadeva Gautama
- Chandas छन्दस्
- Triṣṭubh, Aṣṭi, Atijagatī, Dhṛti
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.