Ṛk 4.1.15
Saṃhitā
ते ग॑व्य॒ता मन॑सा दृ॒ध्रमु॒ब्धं गा ये॑मा॒नं परि॒ षंत॒मद्रिं॑ ।
दृ॒ळ्हं नरो॒ वच॑सा॒ दैव्ये॑न व्र॒जं गोमं॑तमु॒शिजो॒ वि व॑व्रुः ॥
ते गव्यता मनसा दृध्रम् उब्धं गा येमानम् परि षन्तम् अद्रिम् |
दृऌहं नरो वचसा दैव्येन व्रजं गोमन्तम् उशिजो वि वव्रुः ||
té gavyatā́ mánasā dṛdhrámubdhám gā́ yemānám pári ṣántamádrim ǀ
dṛḷhám náro vácasā dáivyena vrajám gómantamuśíjo ví vavruḥ ǁ
te gavyatā manasā dṛdhram ubdhaṃ gā yemānam pari ṣantam adrim |
dṛḷhaṃ naro vacasā daivyena vrajaṃ gomantam uśijo vi vavruḥ ||
Padapāṭha
ते । ग॒व्य॒ता । मन॑सा । दृ॒ध्रम् । उ॒ब्धम् । गाः । ये॒मा॒नम् । परि॑ । सन्त॑म् । अद्रि॑म् ।
दृ॒ळ्हम् । नरः॑ । वच॑सा । दैव्ये॑न । व्र॒जम् । गोऽम॑न्तम् । उ॒शिजः॑ । वि । व॒व्रुः॒ ॥
ते । गव्यता । मनसा । दृध्रम् । उब्धम् । गाः । येमानम् । परि । सन्तम् । अद्रिम् ।
दृळ्हम् । नरः । वचसा । दैव्येन । व्रजम् । गोऽमन्तम् । उशिजः । वि । वव्रुः ॥
té ǀ gavyatā́ ǀ mánasā ǀ dṛdhrám ǀ ubdhám ǀ gā́ḥ ǀ yemānám ǀ pári ǀ sántam ǀ ádrim ǀ
dṛḷhám ǀ náraḥ ǀ vácasā ǀ dáivyena ǀ vrajám ǀ gó-mantam ǀ uśíjaḥ ǀ ví ǀ vavruḥ ǁ
te ǀ gavyatā ǀ manasā ǀ dṛdhram ǀ ubdham ǀ gāḥ ǀ yemānam ǀ pari ǀ santam ǀ adrim ǀ
dṛḷham ǀ naraḥ ǀ vacasā ǀ daivyena ǀ vrajam ǀ go-mantam ǀ uśijaḥ ǀ vi ǀ vavruḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 04.001.15
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.4.14.05
- Maṇḍala · Anuvāka · Ṛk
- 04.01.015
- Devatā देवता
- 1, 6-20: Agni; 2-5: Agni Or Agni And Varuṇa
- Ṛṣi ऋषि
- Vāmadeva Gautama
- Chandas छन्दस्
- Triṣṭubh, Aṣṭi, Atijagatī, Dhṛti
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.