Ṛk 4.1.14
Saṃhitā
ते म॑र्मृजत ददृ॒वांसो॒ अद्रिं॒ तदे॑षाम॒न्ये अ॒भितो॒ वि वो॑चन् ।
प॒श्वयं॑त्रासो अ॒भि का॒रम॑र्चन्वि॒दंत॒ ज्योति॑श्चकृ॒पंत॑ धी॒भिः ॥
ते मर्मृजत ददृवांसो अद्रिं तद् एषाम् अन्ये अभितो वि वोचन् |
पश्वयन्त्रासो अभि कारम् अर्चन् विदन्त ज्योतिश् चकृपन्त धीभिः ||
té marmṛjata dadṛvā́ṃso ádrim tádeṣāmanyé abhíto ví vocan ǀ
paśváyantrāso abhí kārámarcanvidánta jyótiścakṛpánta dhībhíḥ ǁ
te marmṛjata dadṛvāṃso adriṃ tad eṣām anye abhito vi vocan |
paśvayantrāso abhi kāram arcan vidanta jyotiś cakṛpanta dhībhiḥ ||
Padapāṭha
ते । म॒र्मृ॒ज॒त॒ । द॒दृ॒ऽवांसः॑ । अद्रि॑म् । तत् । ए॒षा॒म् । अ॒न्ये । अ॒भितः॑ । वि । वो॒च॒न् ।
प॒श्वऽय॑न्त्रासः । अ॒भि । का॒रम् । अ॒र्च॒न् । वि॒दन्त॑ । ज्योतिः॑ । च॒कृ॒पन्त॑ । धी॒भिः ॥
ते । मर्मृजत । ददृऽवांसः । अद्रिम् । तत् । एषाम् । अन्ये । अभितः । वि । वोचन् ।
पश्वऽयन्त्रासः । अभि । कारम् । अर्चन् । विदन्त । ज्योतिः । चकृपन्त । धीभिः ॥
té ǀ marmṛjata ǀ dadṛ-vā́ṃsaḥ ǀ ádrim ǀ tát ǀ eṣām ǀ anyé ǀ abhítaḥ ǀ ví ǀ vocan ǀ
paśvá-yantrāsaḥ ǀ abhí ǀ kārám ǀ arcan ǀ vidánta ǀ jyótiḥ ǀ cakṛpánta ǀ dhībhíḥ ǁ
te ǀ marmṛjata ǀ dadṛ-vāṃsaḥ ǀ adrim ǀ tat ǀ eṣām ǀ anye ǀ abhitaḥ ǀ vi ǀ vocan ǀ
paśva-yantrāsaḥ ǀ abhi ǀ kāram ǀ arcan ǀ vidanta ǀ jyotiḥ ǀ cakṛpanta ǀ dhībhiḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 04.001.14
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.4.14.04
- Maṇḍala · Anuvāka · Ṛk
- 04.01.014
- Devatā देवता
- 1, 6-20: Agni; 2-5: Agni Or Agni And Varuṇa
- Ṛṣi ऋषि
- Vāmadeva Gautama
- Chandas छन्दस्
- Triṣṭubh, Aṣṭi, Atijagatī, Dhṛti
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.