Ṛk 4.1.10
Saṃhitā
स तू नो॑ अ॒ग्निर्न॑यतु प्रजा॒नन्नच्छा॒ रत्नं॑ दे॒वभ॑क्तं॒ यद॑स्य ।
धि॒या यद्विश्वे॑ अ॒मृता॒ अकृ॑ण्वं॒द्यौष्पि॒ता ज॑नि॒ता स॒त्यमु॑क्षन् ॥
स तू नो अग्निर् नयतु प्रजानन्न् अच्छा रत्नं देवभक्तं यद् अस्य |
धिया यद् विश्वे अमृता अकृण्वन् द्यौष् पिता जनिता सत्यम् उक्षन् ||
sá tū́ no agnírnayatu prajānánnácchā rátnam devábhaktam yádasya ǀ
dhiyā́ yádvíśve amṛ́tā ákṛṇvandyáuṣpitā́ janitā́ satyámukṣan ǁ
sa tū no agnir nayatu prajānann acchā ratnaṃ devabhaktaṃ yad asya |
dhiyā yad viśve amṛtā akṛṇvan dyauṣ pitā janitā satyam ukṣan ||
Padapāṭha
सः । तु । नः॒ । अ॒ग्निः । न॒य॒तु॒ । प्र॒ऽजा॒नन् । अच्छ॑ । रत्न॑म् । दे॒वऽभ॑क्तम् । यत् । अ॒स्य॒ ।
धि॒या । यत् । विश्वे॑ । अ॒मृताः॑ । अकृ॑ण्वन् । द्यौः । पि॒ता । ज॒नि॒ता । स॒त्यम् । उ॒क्ष॒न् ॥
सः । तु । नः । अग्निः । नयतु । प्रऽजानन् । अच्छ । रत्नम् । देवऽभक्तम् । यत् । अस्य ।
धिया । यत् । विश्वे । अमृताः । अकृण्वन् । द्यौः । पिता । जनिता । सत्यम् । उक्षन् ॥
sáḥ ǀ tú ǀ naḥ ǀ agníḥ ǀ nayatu ǀ pra-jānán ǀ áccha ǀ rátnam ǀ devá-bhaktam ǀ yát ǀ asya ǀ
dhiyā́ ǀ yát ǀ víśve ǀ amṛ́tāḥ ǀ ákṛṇvan ǀ dyáuḥ ǀ pitā́ ǀ janitā́ ǀ satyám ǀ ukṣan ǁ
saḥ ǀ tu ǀ naḥ ǀ agniḥ ǀ nayatu ǀ pra-jānan ǀ accha ǀ ratnam ǀ deva-bhaktam ǀ yat ǀ asya ǀ
dhiyā ǀ yat ǀ viśve ǀ amṛtāḥ ǀ akṛṇvan ǀ dyauḥ ǀ pitā ǀ janitā ǀ satyam ǀ ukṣan ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 04.001.10
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.4.13.05
- Maṇḍala · Anuvāka · Ṛk
- 04.01.010
- Devatā देवता
- 1, 6-20: Agni; 2-5: Agni Or Agni And Varuṇa
- Ṛṣi ऋषि
- Vāmadeva Gautama
- Chandas छन्दस्
- Triṣṭubh, Aṣṭi, Atijagatī, Dhṛti
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.