Ṛgveda · Maṇḍala 3

Sūkta 62

Indra, Varuṇa · Bṛhaspati · Pūṣan · Savitṛ · Soma · Mitra, Varuṇa · 1-15: Viśvāmitra Gāthina; 16-18: Viśvāmitra Gāthina Or Jamadagni · 18 ṛks

Link
Devatā देवता
1-3: Indra, Varuṇa; 4-6: Bṛhaspati; 7-9: Pūṣan; 10-12: Savitṛ; 13-15: Soma; 16-18: Mitra, Varuṇa
Ṛṣi ऋषि
1-15: Viśvāmitra Gāthina; 16-18: Viśvāmitra Gāthina Or Jamadagni
Chandas छन्दस्
Gāyatrī, Triṣṭubh
Metres by ṛk

1st set of styles gāyatrī (7-9, 12-15, 17, 18); nicṛdgāyatrī (4, 5, 10, 11, 16); virāṭtrisṭup (1); triṣṭup (2); nicṛttriṣṭup (3); tripādgāyatrī (6)

2nd set of styles gāyatrī (4-18); triṣṭubh (1-3)

  1. Ṛk 1

    इ॒मा उ॑ वां भृ॒मयो॒ मन्य॑माना यु॒वाव॑ते॒ न तुज्या॑ अभूवन् ।
    क्व१॒॑ त्यदिं॑द्रावरुणा॒ यशो॑ वां॒ येन॑ स्मा॒ सिनं॒ भर॑थः॒ सखि॑भ्यः ॥

    इमा उ वाम् भृमयो मन्यमाना युवावते न तुज्या अभूवन् |
    क्व त्यद् इन्द्रावरुणा यशो वां येन स्मा सिनम् भरथः सखिभ्यः ||

    imā́ u vām bhṛmáyo mányamānā yuvā́vate ná tújyā abhūvan ǀ
    kvá tyádindrāvaruṇā yáśo vām yéna smā sínam bhárathaḥ sákhibhyaḥ ǁ

    imā u vām bhṛmayo manyamānā yuvāvate na tujyā abhūvan |
    kva tyad indrāvaruṇā yaśo vāṃ yena smā sinam bharathaḥ sakhibhyaḥ ||

    इ॒माः । ऊं॒ इति॑ । वा॒म् । भृ॒मयः॑ । मन्य॑मानाः । यु॒वाऽव॑ते । न । तुज्याः॑ । अ॒भू॒व॒न् ।
    क्व॑ । त्यत् । इ॒न्द्रा॒व॒रु॒णा॒ । यशः॑ । वा॒म् । येन॑ । स्म॒ । सिन॑म् । भर॑थः । सखि॑ऽभ्यः ॥

    इमाः । ऊं इति । वाम् । भृमयः । मन्यमानाः । युवाऽवते । न । तुज्याः । अभूवन् ।
    क्व । त्यत् । इन्द्रावरुणा । यशः । वाम् । येन । स्म । सिनम् । भरथः । सखिऽभ्यः ॥

    imā́ḥ ǀ ūṃ íti ǀ vām ǀ bhṛmáyaḥ ǀ mányamānāḥ ǀ yuvā́-vate ǀ ná ǀ tújyāḥ ǀ abhūvan ǀ
    kvá ǀ tyát ǀ indrāvaruṇā ǀ yáśaḥ ǀ vām ǀ yéna ǀ sma ǀ sínam ǀ bhárathaḥ ǀ sákhi-bhyaḥ ǁ

    imāḥ ǀ ūṃ iti ǀ vām ǀ bhṛmayaḥ ǀ manyamānāḥ ǀ yuvā-vate ǀ na ǀ tujyāḥ ǀ abhūvan ǀ
    kva ǀ tyat ǀ indrāvaruṇā ǀ yaśaḥ ǀ vām ǀ yena ǀ sma ǀ sinam ǀ bharathaḥ ǀ sakhi-bhyaḥ ǁ

    3.62.1 Aṣṭaka 3.4.9.1Anuvāka 3.5.91

  2. Ṛk 2

    अ॒यमु॑ वां पुरु॒तमो॑ रयी॒यंछ॑श्वत्त॒ममव॑से जोहवीति ।
    स॒जोषा॑विंद्रावरुणा म॒रुद्भि॑र्दि॒वा पृ॑थि॒व्या शृ॑णुतं॒ हवं॑ मे ॥

    अयम् उ वाम् पुरुतमो रयीयञ् छश्वत्तमम् अवसे जोहवीति |
    सजोषाव् इन्द्रावरुणा मरुद्भिर् दिवा पृथिव्या शृणुतं हवम् मे ||

    ayámu vām purutámo rayīyáñchaśvattamámávase johavīti ǀ
    sajóṣāvindrāvaruṇā marúdbhirdivā́ pṛthivyā́ śṛṇutam hávam me ǁ

    ayam u vām purutamo rayīyañ chaśvattamam avase johavīti |
    sajoṣāv indrāvaruṇā marudbhir divā pṛthivyā śṛṇutaṃ havam me ||

    अ॒यम् । ऊं॒ इति॑ । वा॒म् । पु॒रु॒ऽतमः॑ । र॒यि॒ऽयन् । श॒श्व॒त्ऽत॒मम् । अव॑से । जो॒ह॒वी॒ति॒ ।
    स॒ऽजोषौ॑ । इ॒न्द्रा॒व॒रु॒णा॒ । म॒रुत्ऽभिः॑ । दि॒वा । पृ॒थि॒व्या । शृ॒णु॒त॒म् । हव॑म् । मे॒ ॥

    अयम् । ऊं इति । वाम् । पुरुऽतमः । रयिऽयन् । शश्वत्ऽतमम् । अवसे । जोहवीति ।
    सऽजोषौ । इन्द्रावरुणा । मरुत्ऽभिः । दिवा । पृथिव्या । शृणुतम् । हवम् । मे ॥

    ayám ǀ ūṃ íti ǀ vām ǀ puru-támaḥ ǀ rayi-yán ǀ śaśvat-tamám ǀ ávase ǀ johavīti ǀ
    sa-jóṣau ǀ indrāvaruṇā ǀ marút-bhiḥ ǀ divā́ ǀ pṛthivyā́ ǀ śṛṇutam ǀ hávam ǀ me ǁ

    ayam ǀ ūṃ iti ǀ vām ǀ puru-tamaḥ ǀ rayi-yan ǀ śaśvat-tamam ǀ avase ǀ johavīti ǀ
    sa-joṣau ǀ indrāvaruṇā ǀ marut-bhiḥ ǀ divā ǀ pṛthivyā ǀ śṛṇutam ǀ havam ǀ me ǁ

    3.62.2 Aṣṭaka 3.4.9.2Anuvāka 3.5.92

  3. Ṛk 3

    अ॒स्मे तदिं॑द्रावरुणा॒ वसु॑ ष्याद॒स्मे र॒यिर्म॑रुतः॒ सर्व॑वीरः ।
    अ॒स्मान्वरू॑त्रीः शर॒णैर॑वंत्व॒स्मान्होत्रा॒ भार॑ती॒ दक्षि॑णाभिः ॥

    अस्मे तद् इन्द्रावरुणा वसु ष्याद् अस्मे रयिर् मरुतः सर्ववीरः |
    अस्मान् वरूत्रीः शरणैर् अवन्त्व् अस्मान् होत्रा भारती दक्षिणाभिः ||

    asmé tádindrāvaruṇā vásu ṣyādasmé rayírmarutaḥ sárvavīraḥ ǀ
    asmā́nvárūtrīḥ śaraṇáiravantvasmā́nhótrā bhā́ratī dákṣiṇābhiḥ ǁ

    asme tad indrāvaruṇā vasu ṣyād asme rayir marutaḥ sarvavīraḥ |
    asmān varūtrīḥ śaraṇair avantv asmān hotrā bhāratī dakṣiṇābhiḥ ||

    अ॒स्मे इति॑ । तत् । इ॒न्द्रा॒व॒रु॒णा॒ । वसु॑ । स्या॒त् । अ॒स्मे इति॑ । र॒यिः । म॒रु॒तः॒ । सर्व॑ऽवीरः ।
    अ॒स्मान् । वरू॑त्रीः । श॒र॒णैः । अ॒व॒न्तु॒ । अ॒स्मान् । होत्रा॑ । भार॑ती । दक्षि॑णाभिः ॥

    अस्मे इति । तत् । इन्द्रावरुणा । वसु । स्यात् । अस्मे इति । रयिः । मरुतः । सर्वऽवीरः ।
    अस्मान् । वरूत्रीः । शरणैः । अवन्तु । अस्मान् । होत्रा । भारती । दक्षिणाभिः ॥

    asmé íti ǀ tát ǀ indrāvaruṇā ǀ vásu ǀ syāt ǀ asmé íti ǀ rayíḥ ǀ marutaḥ ǀ sárva-vīraḥ ǀ
    asmā́n ǀ várūtrīḥ ǀ śaraṇáiḥ ǀ avantu ǀ asmā́n ǀ hótrā ǀ bhā́ratī ǀ dákṣiṇābhiḥ ǁ

    asme iti ǀ tat ǀ indrāvaruṇā ǀ vasu ǀ syāt ǀ asme iti ǀ rayiḥ ǀ marutaḥ ǀ sarva-vīraḥ ǀ
    asmān ǀ varūtrīḥ ǀ śaraṇaiḥ ǀ avantu ǀ asmān ǀ hotrā ǀ bhāratī ǀ dakṣiṇābhiḥ ǁ

    3.62.3 Aṣṭaka 3.4.9.3Anuvāka 3.5.93

  4. Ṛk 4

    बृह॑स्पते जु॒षस्व॑ नो ह॒व्यानि॑ विश्वदेव्य ।
    रास्व॒ रत्ना॑नि दा॒शुषे॑ ॥

    बृहस्पते जुषस्व नो हव्यानि विश्वदेव्य |
    रास्व रत्नानि दाशुषे ||

    bṛ́haspate juṣásva no havyā́ni viśvadevya ǀ
    rā́sva rátnāni dāśúṣe ǁ

    bṛhaspate juṣasva no havyāni viśvadevya |
    rāsva ratnāni dāśuṣe ||

    बृह॑स्पते । जु॒षस्व॑ । नः॒ । ह॒व्यानि॑ । वि॒श्व॒ऽदे॒व्य॒ ।
    रास्व॑ । रत्ना॑नि । दा॒शुषे॑ ॥

    बृहस्पते । जुषस्व । नः । हव्यानि । विश्वऽदेव्य ।
    रास्व । रत्नानि । दाशुषे ॥

    bṛ́haspate ǀ juṣásva ǀ naḥ ǀ havyā́ni ǀ viśva-devya ǀ
    rā́sva ǀ rátnāni ǀ dāśúṣe ǁ

    bṛhaspate ǀ juṣasva ǀ naḥ ǀ havyāni ǀ viśva-devya ǀ
    rāsva ǀ ratnāni ǀ dāśuṣe ǁ

    3.62.4 Aṣṭaka 3.4.9.4Anuvāka 3.5.94

  5. Ṛk 5

    शुचि॑म॒र्कैर्बृह॒स्पति॑मध्व॒रेषु॑ नमस्यत ।
    अना॒म्योज॒ आ च॑के ॥

    शुचिम् अर्कैर् बृहस्पतिम् अध्वरेषु नमस्यत |
    अनाम्य् ओज आ चके ||

    śúcimarkáirbṛ́haspátimadhvaréṣu namasyata ǀ
    ánāmyója ā́ cake ǁ

    śucim arkair bṛhaspatim adhvareṣu namasyata |
    anāmy oja ā cake ||

    शुचि॑म् । अ॒र्कैः । बृह॒स्पति॑म् । अ॒ध्व॒रेषु॑ । न॒म॒स्य॒त॒ ।
    अना॑मि । ओजः॑ । आ । च॒के॒ ॥

    शुचिम् । अर्कैः । बृहस्पतिम् । अध्वरेषु । नमस्यत ।
    अनामि । ओजः । आ । चके ॥

    śúcim ǀ arkáiḥ ǀ bṛ́haspátim ǀ adhvaréṣu ǀ namasyata ǀ
    ánāmi ǀ ójaḥ ǀ ā́ ǀ cake ǁ

    śucim ǀ arkaiḥ ǀ bṛhaspatim ǀ adhvareṣu ǀ namasyata ǀ
    anāmi ǀ ojaḥ ǀ ā ǀ cake ǁ

    3.62.5 Aṣṭaka 3.4.9.5Anuvāka 3.5.95

  6. Ṛk 6

    वृ॒ष॒भं च॑र्षणी॒नां वि॒श्वरू॑प॒मदा॑भ्यं ।
    बृह॒स्पतिं॒ वरे॑ण्यं ॥

    वृषभं चर्षणीनां विश्वरूपम् अदाभ्यम् |
    बृहस्पतिं वरेण्यम् ||

    vṛṣabhám carṣaṇīnā́m viśvárūpamádābhyam ǀ
    bṛ́haspátim váreṇyam ǁ

    vṛṣabhaṃ carṣaṇīnāṃ viśvarūpam adābhyam |
    bṛhaspatiṃ vareṇyam ||

    वृ॒ष॒भम् । च॒र्ष॒णी॒नाम् । वि॒श्वऽरू॑पम् । अदा॑भ्यम् ।
    बृह॒स्पति॑म् । वरे॑ण्यम् ॥

    वृषभम् । चर्षणीनाम् । विश्वऽरूपम् । अदाभ्यम् ।
    बृहस्पतिम् । वरेण्यम् ॥

    vṛṣabhám ǀ carṣaṇīnā́m ǀ viśvá-rūpam ǀ ádābhyam ǀ
    bṛ́haspátim ǀ váreṇyam ǁ

    vṛṣabham ǀ carṣaṇīnām ǀ viśva-rūpam ǀ adābhyam ǀ
    bṛhaspatim ǀ vareṇyam ǁ

    3.62.6 Aṣṭaka 3.4.10.1Anuvāka 3.5.96

  7. Ṛk 7

    इ॒यं ते॑ पूषन्नाघृणे सुष्टु॒तिर्दे॑व॒ नव्य॑सी ।
    अ॒स्माभि॒स्तुभ्यं॑ शस्यते ॥

    इयं ते पूषन्न् आघृणे सुष्टुतिर् देव नव्यसी |
    अस्माभिस् तुभ्यं शस्यते ||

    iyám te pūṣannāghṛṇe suṣṭutírdeva návyasī ǀ
    asmā́bhistúbhyam śasyate ǁ

    iyaṃ te pūṣann āghṛṇe suṣṭutir deva navyasī |
    asmābhis tubhyaṃ śasyate ||

    इ॒यम् । ते॒ । पू॒ष॒न् । आ॒घृ॒णे॒ । सु॒ऽस्तु॒तिः । दे॒व॒ । नव्य॑सी ।
    अ॒स्माभिः॑ । तुभ्य॑म् । श॒स्य॒ते॒ ॥

    इयम् । ते । पूषन् । आघृणे । सुऽस्तुतिः । देव । नव्यसी ।
    अस्माभिः । तुभ्यम् । शस्यते ॥

    iyám ǀ te ǀ pūṣan ǀ āghṛṇe ǀ su-stutíḥ ǀ deva ǀ návyasī ǀ
    asmā́bhiḥ ǀ túbhyam ǀ śasyate ǁ

    iyam ǀ te ǀ pūṣan ǀ āghṛṇe ǀ su-stutiḥ ǀ deva ǀ navyasī ǀ
    asmābhiḥ ǀ tubhyam ǀ śasyate ǁ

    3.62.7 Aṣṭaka 3.4.10.2Anuvāka 3.5.97

  8. Ṛk 8

    तां जु॑षस्व॒ गिरं॒ मम॑ वाज॒यंती॑मवा॒ धियं॑ ।
    व॒धू॒युरि॑व॒ योष॑णां ॥

    तां जुषस्व गिरम् मम वाजयन्तीम् अवा धियम् |
    वधूयुर् इव योषणाम् ||

    tā́m juṣasva gíram máma vājayántīmavā dhíyam ǀ
    vadhūyúriva yóṣaṇām ǁ

    tāṃ juṣasva giram mama vājayantīm avā dhiyam |
    vadhūyur iva yoṣaṇām ||

    ताम् । जु॒ष॒स्व॒ । गिर॑म् । मम॑ । वा॒ज॒ऽयन्ती॑म् । अ॒व॒ । धिय॑म् ।
    व॒धू॒युःऽइ॑व । योष॑णाम् ॥

    ताम् । जुषस्व । गिरम् । मम । वाजऽयन्तीम् । अव । धियम् ।
    वधूयुःऽइव । योषणाम् ॥

    tā́m ǀ juṣasva ǀ gíram ǀ máma ǀ vāja-yántīm ǀ ava ǀ dhíyam ǀ
    vadhūyúḥ-iva ǀ yóṣaṇām ǁ

    tām ǀ juṣasva ǀ giram ǀ mama ǀ vāja-yantīm ǀ ava ǀ dhiyam ǀ
    vadhūyuḥ-iva ǀ yoṣaṇām ǁ

    3.62.8 Aṣṭaka 3.4.10.3Anuvāka 3.5.98

  9. Ṛk 9

    यो विश्वा॒भि वि॒पश्य॑ति॒ भुव॑ना॒ सं च॒ पश्य॑ति ।
    स नः॑ पू॒षावि॒ता भु॑वत् ॥

    यो विश्वाभि विपश्यति भुवना सं च पश्यति |
    स नः पूषाविता भुवत् ||

    yó víśvābhí vipáśyati bhúvanā sám ca páśyati ǀ
    sá naḥ pūṣā́vitā́ bhuvat ǁ

    yo viśvābhi vipaśyati bhuvanā saṃ ca paśyati |
    sa naḥ pūṣāvitā bhuvat ||

    यः । विश्वा॑ । अ॒भि । वि॒ऽपश्य॑ति । भुव॑ना । सम् । च॒ । पश्य॑ति ।
    सः । नः॒ । पू॒षा । अ॒वि॒ता । भु॒व॒त् ॥

    यः । विश्वा । अभि । विऽपश्यति । भुवना । सम् । च । पश्यति ।
    सः । नः । पूषा । अविता । भुवत् ॥

    yáḥ ǀ víśvā ǀ abhí ǀ vi-páśyati ǀ bhúvanā ǀ sám ǀ ca ǀ páśyati ǀ
    sáḥ ǀ naḥ ǀ pūṣā́ ǀ avitā́ ǀ bhuvat ǁ

    yaḥ ǀ viśvā ǀ abhi ǀ vi-paśyati ǀ bhuvanā ǀ sam ǀ ca ǀ paśyati ǀ
    saḥ ǀ naḥ ǀ pūṣā ǀ avitā ǀ bhuvat ǁ

    3.62.9 Aṣṭaka 3.4.10.4Anuvāka 3.5.99

  10. Ṛk 10

    तत्स॑वि॒तुर्वरे॑ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि ।
    धियो॒ यो नः॑ प्रचो॒दया॑त् ॥

    तत् सवितुर् वरेण्यम् भर्गो देवस्य धीमहि |
    धियो यो नः प्रचोदयात् ||

    tátsavitúrváreṇyam bhárgo devásya dhīmahi ǀ
    dhíyo yó naḥ pracodáyāt ǁ

    tat savitur vareṇyam bhargo devasya dhīmahi |
    dhiyo yo naḥ pracodayāt ||

    तत् । स॒वि॒तुः । वरे॑ण्यम् । भर्गः॑ । दे॒वस्य॑ । धी॒म॒हि॒ ।
    धियः॑ । यः । नः॒ । प्र॒ऽचो॒दया॑त् ॥

    तत् । सवितुः । वरेण्यम् । भर्गः । देवस्य । धीमहि ।
    धियः । यः । नः । प्रऽचोदयात् ॥

    tát ǀ savitúḥ ǀ váreṇyam ǀ bhárgaḥ ǀ devásya ǀ dhīmahi ǀ
    dhíyaḥ ǀ yáḥ ǀ naḥ ǀ pra-codáyāt ǁ

    tat ǀ savituḥ ǀ vareṇyam ǀ bhargaḥ ǀ devasya ǀ dhīmahi ǀ
    dhiyaḥ ǀ yaḥ ǀ naḥ ǀ pra-codayāt ǁ

    3.62.10 Aṣṭaka 3.4.10.5Anuvāka 3.5.100

  11. Ṛk 11

    दे॒वस्य॑ सवि॒तुर्व॒यं वा॑ज॒यंतः॒ पुरं॑ध्या ।
    भग॑स्य रा॒तिमी॑महे ॥

    देवस्य सवितुर् वयं वाजयन्तः पुरन्ध्या |
    भगस्य रातिम् ईमहे ||

    devásya savitúrvayám vājayántaḥ púraṃdhyā ǀ
    bhágasya rātímīmahe ǁ

    devasya savitur vayaṃ vājayantaḥ purandhyā |
    bhagasya rātim īmahe ||

    दे॒वस्य॑ । स॒वि॒तुः । व॒यम् । वा॒ज॒ऽयन्तः॑ । पुर॑म्ऽध्या ।
    भग॑स्य । रा॒तिम् । ई॒म॒हे॒ ॥

    देवस्य । सवितुः । वयम् । वाजऽयन्तः । पुरम्ऽध्या ।
    भगस्य । रातिम् । ईमहे ॥

    devásya ǀ savitúḥ ǀ vayám ǀ vāja-yántaḥ ǀ púram-dhyā ǀ
    bhágasya ǀ rātím ǀ īmahe ǁ

    devasya ǀ savituḥ ǀ vayam ǀ vāja-yantaḥ ǀ puram-dhyā ǀ
    bhagasya ǀ rātim ǀ īmahe ǁ

    3.62.11 Aṣṭaka 3.4.11.1Anuvāka 3.5.101

  12. Ṛk 12

    दे॒वं नरः॑ सवि॒तारं॒ विप्रा॑ य॒ज्ञैः सु॑वृ॒क्तिभिः॑ ।
    न॒म॒स्यंति॑ धि॒येषि॒ताः ॥

    देवं नरः सवितारं विप्रा यज्ञैः सुवृक्तिभिः |
    नमस्यन्ति धियेषिताः ||

    devám náraḥ savitā́ram víprā yajñáiḥ suvṛktíbhiḥ ǀ
    namasyánti dhiyéṣitā́ḥ ǁ

    devaṃ naraḥ savitāraṃ viprā yajñaiḥ suvṛktibhiḥ |
    namasyanti dhiyeṣitāḥ ||

    दे॒वम् । नरः॑ । स॒वि॒तार॑म् । विप्राः॑ । य॒ज्ञैः । सु॒वृ॒क्तिऽभिः॑ ।
    न॒म॒स्यन्ति॑ । धि॒या । इ॒षि॒ताः ॥

    देवम् । नरः । सवितारम् । विप्राः । यज्ञैः । सुवृक्तिऽभिः ।
    नमस्यन्ति । धिया । इषिताः ॥

    devám ǀ náraḥ ǀ savitā́ram ǀ víprāḥ ǀ yajñáiḥ ǀ suvṛktí-bhiḥ ǀ
    namasyánti ǀ dhiyā́ ǀ iṣitā́ḥ ǁ

    devam ǀ naraḥ ǀ savitāram ǀ viprāḥ ǀ yajñaiḥ ǀ suvṛkti-bhiḥ ǀ
    namasyanti ǀ dhiyā ǀ iṣitāḥ ǁ

    3.62.12 Aṣṭaka 3.4.11.2Anuvāka 3.5.102

  13. Ṛk 13

    सोमो॑ जिगाति गातु॒विद्दे॒वाना॑मेति निष्कृ॒तं ।
    ऋ॒तस्य॒ योनि॑मा॒सदं॑ ॥

    सोमो जिगाति गातुविद् देवानाम् एति निष्कृतम् |
    ऋतस्य योनिम् आसदम् ||

    sómo jigāti gātuvíddevā́nāmeti niṣkṛtám ǀ
    ṛtásya yónimāsádam ǁ

    somo jigāti gātuvid devānām eti niṣkṛtam |
    ṛtasya yonim āsadam ||

    सोमः॑ । जि॒गा॒ति॒ । गा॒तु॒ऽवित् । दे॒वाना॑म् । ए॒ति॒ । निः॒ऽकृ॒तम् ।
    ऋ॒तस्य॑ । योनि॑म् । आ॒ऽसद॑म् ॥

    सोमः । जिगाति । गातुऽवित् । देवानाम् । एति । निःऽकृतम् ।
    ऋतस्य । योनिम् । आऽसदम् ॥

    sómaḥ ǀ jigāti ǀ gātu-vít ǀ devā́nām ǀ eti ǀ niḥ-kṛtám ǀ
    ṛtásya ǀ yónim ǀ ā-sádam ǁ

    somaḥ ǀ jigāti ǀ gātu-vit ǀ devānām ǀ eti ǀ niḥ-kṛtam ǀ
    ṛtasya ǀ yonim ǀ ā-sadam ǁ

    3.62.13 Aṣṭaka 3.4.11.3Anuvāka 3.5.103

  14. Ṛk 14

    सोमो॑ अ॒स्मभ्यं॑ द्वि॒पदे॒ चतु॑ष्पदे च प॒शवे॑ ।
    अ॒न॒मी॒वा इष॑स्करत् ॥

    सोमो अस्मभ्यं द्विपदे चतुष्पदे च पशवे |
    अनमीवा इषस् करत् ||

    sómo asmábhyam dvipáde cátuṣpade ca paśáve ǀ
    anamīvā́ íṣaskarat ǁ

    somo asmabhyaṃ dvipade catuṣpade ca paśave |
    anamīvā iṣas karat ||

    सोमः॑ । अ॒स्मभ्य॑म् । द्वि॒ऽपदे॑ । चतुः॑ऽपदे । च॒ । प॒शवे॑ ।
    अ॒न॒मी॒वाः । इषः॑ । क॒र॒त् ॥

    सोमः । अस्मभ्यम् । द्विऽपदे । चतुःऽपदे । च । पशवे ।
    अनमीवाः । इषः । करत् ॥

    sómaḥ ǀ asmábhyam ǀ dvi-páde ǀ cátuḥ-pade ǀ ca ǀ paśáve ǀ
    anamīvā́ḥ ǀ íṣaḥ ǀ karat ǁ

    somaḥ ǀ asmabhyam ǀ dvi-pade ǀ catuḥ-pade ǀ ca ǀ paśave ǀ
    anamīvāḥ ǀ iṣaḥ ǀ karat ǁ

    3.62.14 Aṣṭaka 3.4.11.4Anuvāka 3.5.104

  15. Ṛk 15

    अ॒स्माक॒मायु॑र्व॒र्धय॑न्न॒भिमा॑तीः॒ सह॑मानः ।
    सोमः॑ स॒धस्थ॒मास॑दत् ॥

    अस्माकम् आयुर् वर्धयन्न् अभिमातीः सहमानः |
    सोमः सधस्थम् आसदत् ||

    asmā́kamā́yurvardháyannabhímātīḥ sáhamānaḥ ǀ
    sómaḥ sadhásthamā́sadat ǁ

    asmākam āyur vardhayann abhimātīḥ sahamānaḥ |
    somaḥ sadhastham āsadat ||

    अ॒स्माक॑म् । आयुः॑ । व॒र्धय॑न् । अ॒भिऽमा॑तीः । सह॑मानः ।
    सोमः॑ । स॒धऽस्थ॑म् । आ । अ॒स॒द॒त् ॥

    अस्माकम् । आयुः । वर्धयन् । अभिऽमातीः । सहमानः ।
    सोमः । सधऽस्थम् । आ । असदत् ॥

    asmā́kam ǀ ā́yuḥ ǀ vardháyan ǀ abhí-mātīḥ ǀ sáhamānaḥ ǀ
    sómaḥ ǀ sadhá-stham ǀ ā́ ǀ asadat ǁ

    asmākam ǀ āyuḥ ǀ vardhayan ǀ abhi-mātīḥ ǀ sahamānaḥ ǀ
    somaḥ ǀ sadha-stham ǀ ā ǀ asadat ǁ

    3.62.15 Aṣṭaka 3.4.11.5Anuvāka 3.5.105

  16. Ṛk 16

    आ नो॑ मित्रावरुणा घृ॒तैर्गव्यू॑तिमुक्षतं ।
    मध्वा॒ रजां॑सि सुक्रतू ॥

    आ नो मित्रावरुणा घृतैर् गव्यूतिम् उक्षतम् |
    मध्वा रजांसि सुक्रतू ||

    ā́ no mitrāvaruṇā ghṛtáirgávyūtimukṣatam ǀ
    mádhvā rájāṃsi sukratū ǁ

    ā no mitrāvaruṇā ghṛtair gavyūtim ukṣatam |
    madhvā rajāṃsi sukratū ||

    आ । नः॒ । मि॒त्रा॒व॒रु॒णा॒ । घृ॒तैः । गव्यू॑तिम् । उ॒क्ष॒त॒म् ।
    मध्वा॑ । रजां॑सि । सु॒क्र॒तू॒ इति॑ सुऽक्रतू ॥

    आ । नः । मित्रावरुणा । घृतैः । गव्यूतिम् । उक्षतम् ।
    मध्वा । रजांसि । सुक्रतू इति सुऽक्रतू ॥

    ā́ ǀ naḥ ǀ mitrāvaruṇā ǀ ghṛtáiḥ ǀ gávyūtim ǀ ukṣatam ǀ
    mádhvā ǀ rájāṃsi ǀ sukratū íti su-kratū ǁ

    ā ǀ naḥ ǀ mitrāvaruṇā ǀ ghṛtaiḥ ǀ gavyūtim ǀ ukṣatam ǀ
    madhvā ǀ rajāṃsi ǀ sukratū iti su-kratū ǁ

    3.62.16 Aṣṭaka 3.4.11.6Anuvāka 3.5.106

  17. Ṛk 17

    उ॒रु॒शंसा॑ नमो॒वृधा॑ म॒ह्ना दक्ष॑स्य राजथः ।
    द्राघि॑ष्ठाभिः शुचिव्रता ॥

    उरुशंसा नमोवृधा मह्ना दक्षस्य राजथः |
    द्राघिष्ठाभिः शुचिव्रता ||

    uruśáṃsā namovṛ́dhā mahnā́ dákṣasya rājathaḥ ǀ
    drā́ghiṣṭhābhiḥ śucivratā ǁ

    uruśaṃsā namovṛdhā mahnā dakṣasya rājathaḥ |
    drāghiṣṭhābhiḥ śucivratā ||

    उ॒रु॒ऽशंसा॑ । न॒मः॒ऽवृधा॑ । म॒ह्ना । दक्ष॑स्य । रा॒ज॒थः॒ ।
    द्राघि॑ष्ठाभिः । शु॒चि॒ऽव्र॒ता॒ ॥

    उरुऽशंसा । नमःऽवृधा । मह्ना । दक्षस्य । राजथः ।
    द्राघिष्ठाभिः । शुचिऽव्रता ॥

    uru-śáṃsā ǀ namaḥ-vṛ́dhā ǀ mahnā́ ǀ dákṣasya ǀ rājathaḥ ǀ
    drā́ghiṣṭhābhiḥ ǀ śuci-vratā ǁ

    uru-śaṃsā ǀ namaḥ-vṛdhā ǀ mahnā ǀ dakṣasya ǀ rājathaḥ ǀ
    drāghiṣṭhābhiḥ ǀ śuci-vratā ǁ

    3.62.17 Aṣṭaka 3.4.11.7Anuvāka 3.5.107

  18. Ṛk 18

    गृ॒णा॒ना ज॒मद॑ग्निना॒ योना॑वृ॒तस्य॑ सीदतं ।
    पा॒तं सोम॑मृतावृधा ॥

    गृणाना जमदग्निना योनाव् ऋतस्य सीदतम् |
    पातं सोमम् ऋतावृधा ||

    gṛṇānā́ jamádagninā yónāvṛtásya sīdatam ǀ
    pātám sómamṛtāvṛdhā ǁ

    gṛṇānā jamadagninā yonāv ṛtasya sīdatam |
    pātaṃ somam ṛtāvṛdhā ||

    गृ॒णा॒ना । ज॒मत्ऽअ॑ग्निना । योनौ॑ । ऋ॒तस्य॑ । सी॒द॒त॒म् ।
    पा॒तम् । सोम॑म् । ऋ॒त॒ऽवृ॒धा॒ ॥

    गृणाना । जमत्ऽअग्निना । योनौ । ऋतस्य । सीदतम् ।
    पातम् । सोमम् । ऋतऽवृधा ॥

    gṛṇānā́ ǀ jamát-agninā ǀ yónau ǀ ṛtásya ǀ sīdatam ǀ
    pātám ǀ sómam ǀ ṛta-vṛdhā ǁ

    gṛṇānā ǀ jamat-agninā ǀ yonau ǀ ṛtasya ǀ sīdatam ǀ
    pātam ǀ somam ǀ ṛta-vṛdhā ǁ

    3.62.18 Aṣṭaka 3.4.11.8Anuvāka 3.5.108

Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 3.62 · Indra, Varuṇa · Bṛhaspati · Pūṣan · Savitṛ · Soma · Mitra, Varuṇa

Interpretations

Ralph T. H. Griffith

Ṛk 1

YOUR well-known prompt activities aforetime needed no impulse from your faithful servant. Where, Indra-Varuṇa, is now that glory wherewith ye brought support to those who loved you?

Ṛk 2

This man, most diligent, seeking after riches, incessantly invokes you for your favour. Accordant, Indra-Varuṇa, with Maruts, with Heaven and Earth, hear ye mine invocation.

Ṛk 3

O Indra-Varuṇa, ours be this treasure ours be wealth, Maruts, with full store of heroes. May the Varūtrīs with their shelter aid us, and Bhāratī and Hotrā with the Mornings.

Ṛk 4

Be pleased! with our oblations, thou loved of all Gods, Bṛhaspati: Give wealth to him who brings thee gifts.

Ṛk 5

At sacrifices, with your hymns worship the pure Bṛhaspati— I pray for power which none may bend—

Ṛk 6

The Bull of men, whom none deceive, the wearer of each shape at will, Bṛhaspati Most Excellent.

Ṛk 7

Divine, resplendent Pūṣan, this our newest hymn of eulogy, By us is chanted forth to thee.

Ṛk 8

Accept with favour this my song, be gracious to the earnest thought, Even as a bridegroom to his bride.

Ṛk 9

May he who sees all living things, see, them together at a glance,— May he, may Pūṣan be our help.

Ṛk 10

May we attain that excellent glory of Savitar the God: So May he stimulate our prayers.

Ṛk 11

With understanding, earnestly, of Savitar the God we crave Our portion of prosperity.

Ṛk 12

Men, singers worship Savitar the God with hymn and holy rites, Urged by the impulse of their thoughts.

Ṛk 13

Soma who gives success goes forth, goes to the gathering place of Gods, To seat him at the seat of Law.

Ṛk 14

To us and to our cattle may Soma give salutary food, To biped and to quadruped.

Ṛk 15

May Soma, strengthening our power of life, and conquering our foes, In our assembly take his seat.

Ṛk 16

May Mitra-Varuṇa, sapient Pair, bedew our pasturage with oil, With meatb the regions of the air.

Ṛk 17

Far-ruling, joyful when adored, ye reign through majesty of might, With pure laws everlastingly.