Ṛgveda · Maṇḍala 3 · Sūkta 62

Ṛk 3.62.18

Indra, Varuṇa · Bṛhaspati · Pūṣan · Savitṛ · Soma · Mitra, Varuṇa · 1-15: Viśvāmitra Gāthina; 16-18: Viśvāmitra Gāthina Or Jamadagni

The whole sūkta Link

Saṃhitā

गृ॒णा॒ना ज॒मद॑ग्निना॒ योना॑वृ॒तस्य॑ सीदतं ।
पा॒तं सोम॑मृतावृधा ॥

गृणाना जमदग्निना योनाव् ऋतस्य सीदतम् |
पातं सोमम् ऋतावृधा ||

gṛṇānā́ jamádagninā yónāvṛtásya sīdatam ǀ
pātám sómamṛtāvṛdhā ǁ

gṛṇānā jamadagninā yonāv ṛtasya sīdatam |
pātaṃ somam ṛtāvṛdhā ||

Padapāṭha

गृ॒णा॒ना । ज॒मत्ऽअ॑ग्निना । योनौ॑ । ऋ॒तस्य॑ । सी॒द॒त॒म् ।
पा॒तम् । सोम॑म् । ऋ॒त॒ऽवृ॒धा॒ ॥

गृणाना । जमत्ऽअग्निना । योनौ । ऋतस्य । सीदतम् ।
पातम् । सोमम् । ऋतऽवृधा ॥

gṛṇānā́ ǀ jamát-agninā ǀ yónau ǀ ṛtásya ǀ sīdatam ǀ
pātám ǀ sómam ǀ ṛta-vṛdhā ǁ

gṛṇānā ǀ jamat-agninā ǀ yonau ǀ ṛtasya ǀ sīdatam ǀ
pātam ǀ somam ǀ ṛta-vṛdhā ǁ

References

Maṇḍala · Sūkta · Ṛk
03.062.18
Aṣṭaka · Adhyāya · Varga · Ṛk
3.4.11.08
Maṇḍala · Anuvāka · Ṛk
03.05.108
Devatā देवता
1-3: Indra, Varuṇa; 4-6: Bṛhaspati; 7-9: Pūṣan; 10-12: Savitṛ; 13-15: Soma; 16-18: Mitra, Varuṇa
Ṛṣi ऋषि
1-15: Viśvāmitra Gāthina; 16-18: Viśvāmitra Gāthina Or Jamadagni
Chandas छन्दस्
Gāyatrī, Triṣṭubh
Svara स्वरः
षड्जः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 3.62.18

Interpretations

Sāyaṇa

उपोद्घातः

मैत्रावरुणस्य ग्रहस्य यज्या गृणाना जमदग्निनेत्येषा । सूत्रितं च । होता यक्षन्मित्रावरुणा गृणाना जमदग्ना । आ. ५-५ । इति । अध्यायोपाकरणे मण्डलाद्यन्तहोमे गृणाना जमदग्निनेत्येषा । आ. गृ. ३-५ ॥

हे मित्रवरुणौ जमदग्निनैतन्नामकेन महर्षिणा गृणाना स्तूयमानौ यद्वा । जमदग्निना प्रज्वलिताग्निना विश्वामित्रेण स्तूयमानौ युवामृतस्य यज्ञस्य यौनौ देवयजनाख्ये देशे सीदतं । उपविशतं । ऋतावृधा ऋतस्य कर्मफलस्य वर्धयितारौ युवां सोमं पातं । पिबतं । गृणाना । गॄ शब्दे । व्यत्ययेन कर्मणि शानच् । चित्त्वादन्तोदात्तः । सीदतं । सदेर्लोटि प्राघ्रात्यादिना सीदादेशः । पातं । पा पाने । बहुलं छन्दसीति शपो लुक् ॥ १८ ॥