Ṛgveda · Maṇḍala 3

Sūkta 2

Agni Vaiśvānara · Viśvāmitra Gāthina · 15 ṛks

Link
Devatā देवता
Agni Vaiśvānara
Ṛṣi ऋषि
Viśvāmitra Gāthina
Chandas छन्दस्
Jagatī
Metres by ṛk

1st set of styles virāḍjagatī (2, 4, 6, 8, 9, 11); nicṛjjagatī (5, 7, 12-15); jagatī (1, 3, 10)

2nd set of styles jagatī

  1. Ṛk 1

    वै॒श्वा॒न॒राय॑ धि॒षणा॑मृता॒वृधे॑ घृ॒तं न पू॒तम॒ग्नये॑ जनामसि ।
    द्वि॒ता होता॑रं॒ मनु॑षश्च वा॒घतो॑ धि॒या रथं॒ न कुलि॑शः॒ समृ॑ण्वति ॥

    वैश्वानराय धिषणाम् ऋतावृधे घृतं न पूतम् अग्नये जनामसि |
    द्विता होतारम् मनुषश् च वाघतो धिया रथं न कुलिशः सम् ऋण्वति ||

    vaiśvānarā́ya dhiṣáṇāmṛtāvṛ́dhe ghṛtám ná pūtámagnáye janāmasi ǀ
    dvitā́ hótāram mánuṣaśca vāgháto dhiyā́ rátham ná kúliśaḥ sámṛṇvati ǁ

    vaiśvānarāya dhiṣaṇām ṛtāvṛdhe ghṛtaṃ na pūtam agnaye janāmasi |
    dvitā hotāram manuṣaś ca vāghato dhiyā rathaṃ na kuliśaḥ sam ṛṇvati ||

    वै॒श्वा॒न॒राय॑ । धि॒षणा॑म् । ऋ॒त॒ऽवृधे॑ । घृ॒तम् । न । पू॒तम् । अ॒ग्नये॑ । ज॒ना॒म॒सि॒ ।
    द्वि॒ता । होता॑रम् । मनु॑षः । च॒ । वा॒घतः॑ । धि॒या । रथ॑म् । न । कुलि॑शः । सम् । ऋ॒ण्व॒ति॒ ॥

    वैश्वानराय । धिषणाम् । ऋतऽवृधे । घृतम् । न । पूतम् । अग्नये । जनामसि ।
    द्विता । होतारम् । मनुषः । च । वाघतः । धिया । रथम् । न । कुलिशः । सम् । ऋण्वति ॥

    vaiśvānarā́ya ǀ dhiṣáṇām ǀ ṛta-vṛ́dhe ǀ ghṛtám ǀ ná ǀ pūtám ǀ agnáye ǀ janāmasi ǀ
    dvitā́ ǀ hótāram ǀ mánuṣaḥ ǀ ca ǀ vāghátaḥ ǀ dhiyā́ ǀ rátham ǀ ná ǀ kúliśaḥ ǀ sám ǀ ṛṇvati ǁ

    vaiśvānarāya ǀ dhiṣaṇām ǀ ṛta-vṛdhe ǀ ghṛtam ǀ na ǀ pūtam ǀ agnaye ǀ janāmasi ǀ
    dvitā ǀ hotāram ǀ manuṣaḥ ǀ ca ǀ vāghataḥ ǀ dhiyā ǀ ratham ǀ na ǀ kuliśaḥ ǀ sam ǀ ṛṇvati ǁ

    3.2.1 Aṣṭaka 2.8.17.1Anuvāka 3.1.24

  2. Ṛk 2

    स रो॑चयज्ज॒नुषा॒ रोद॑सी उ॒भे स मा॒त्रोर॑भवत्पु॒त्र ईड्यः॑ ।
    ह॒व्य॒वाळ॒ग्निर॒जर॒श्चनो॑हितो दू॒ळभो॑ वि॒शामति॑थिर्वि॒भाव॑सुः ॥

    स रोचयज् जनुषा रोदसी उभे स मात्रोर् अभवत् पुत्र ईड्यः |
    हव्यवाऌ अग्निर् अजरश् चनोहितो दूऌअभो विशाम् अतिथिर् विभावसुः ||

    sá rocayajjanúṣā ródasī ubhé sá mātrórabhavatputrá ī́ḍyaḥ ǀ
    havyavā́ḷagnírajáraścánohito dūḷábho viśā́mátithirvibhā́vasuḥ ǁ

    sa rocayaj januṣā rodasī ubhe sa mātror abhavat putra īḍyaḥ |
    havyavāḷ agnir ajaraś canohito dūḷabho viśām atithir vibhāvasuḥ ||

    सः । रो॒च॒य॒त् । ज॒नुषा॑ । रोद॑सी॒ इति॑ । उ॒भे इति॑ । सः । मा॒त्रोः । अ॒भ॒व॒त् । पु॒त्रः । ईड्यः॑ ।
    ह॒व्य॒ऽवाट् । अ॒ग्निः । अ॒जरः॑ । चनः॑ऽहितः । दुः॒ऽदभः॑ । वि॒शाम् । अति॑थिः । वि॒भाऽव॑सुः ॥

    सः । रोचयत् । जनुषा । रोदसी इति । उभे इति । सः । मात्रोः । अभवत् । पुत्रः । ईड्यः ।
    हव्यऽवाट् । अग्निः । अजरः । चनःऽहितः । दुःऽदभः । विशाम् । अतिथिः । विभाऽवसुः ॥

    sáḥ ǀ rocayat ǀ janúṣā ǀ ródasī íti ǀ ubhé íti ǀ sáḥ ǀ mātróḥ ǀ abhavat ǀ putráḥ ǀ ī́ḍyaḥ ǀ
    havya-vā́ṭ ǀ agníḥ ǀ ajáraḥ ǀ cánaḥ-hitaḥ ǀ duḥ-dábhaḥ ǀ viśā́m ǀ átithiḥ ǀ vibhā́-vasuḥ ǁ

    saḥ ǀ rocayat ǀ januṣā ǀ rodasī iti ǀ ubhe iti ǀ saḥ ǀ mātroḥ ǀ abhavat ǀ putraḥ ǀ īḍyaḥ ǀ
    havya-vāṭ ǀ agniḥ ǀ ajaraḥ ǀ canaḥ-hitaḥ ǀ duḥ-dabhaḥ ǀ viśām ǀ atithiḥ ǀ vibhā-vasuḥ ǁ

    3.2.2 Aṣṭaka 2.8.17.2Anuvāka 3.1.25

  3. Ṛk 3

    क्रत्वा॒ दक्ष॑स्य॒ तरु॑षो॒ विध॑र्मणि दे॒वासो॑ अ॒ग्निं ज॑नयंत॒ चित्ति॑भिः ।
    रु॒रु॒चा॒नं भा॒नुना॒ ज्योति॑षा म॒हामत्यं॒ न वाजं॑ सनि॒ष्यन्नुप॑ ब्रुवे ॥

    क्रत्वा दक्षस्य तरुषो विधर्मणि देवासो अग्निं जनयन्त चित्तिभिः |
    रुरुचानम् भानुना ज्योतिषा महाम् अत्यं न वाजं सनिष्यन्न् उप ब्रुवे ||

    krátvā dákṣasya táruṣo vídharmaṇi devā́so agním janayanta cíttibhiḥ ǀ
    rurucānám bhānúnā jyótiṣā mahā́mátyam ná vā́jam saniṣyánnúpa bruve ǁ

    kratvā dakṣasya taruṣo vidharmaṇi devāso agniṃ janayanta cittibhiḥ |
    rurucānam bhānunā jyotiṣā mahām atyaṃ na vājaṃ saniṣyann upa bruve ||

    क्रत्वा॑ । दक्ष॑स्य । तरु॑षः । विऽध॑र्मणि । दे॒वासः॑ । अ॒ग्निम् । ज॒न॒य॒न्त॒ । चित्ति॑ऽभिः ।
    रु॒रु॒चा॒नम् । भा॒नुना॑ । ज्योति॑षा । म॒हाम् । अत्य॑म् । न । वाज॑म् । स॒नि॒ष्यन् । उप॑ । ब्रु॒वे॒ ॥

    क्रत्वा । दक्षस्य । तरुषः । विऽधर्मणि । देवासः । अग्निम् । जनयन्त । चित्तिऽभिः ।
    रुरुचानम् । भानुना । ज्योतिषा । महाम् । अत्यम् । न । वाजम् । सनिष्यन् । उप । ब्रुवे ॥

    krátvā ǀ dákṣasya ǀ táruṣaḥ ǀ ví-dharmaṇi ǀ devā́saḥ ǀ agním ǀ janayanta ǀ cítti-bhiḥ ǀ
    rurucānám ǀ bhānúnā ǀ jyótiṣā ǀ mahā́m ǀ átyam ǀ ná ǀ vā́jam ǀ saniṣyán ǀ úpa ǀ bruve ǁ

    kratvā ǀ dakṣasya ǀ taruṣaḥ ǀ vi-dharmaṇi ǀ devāsaḥ ǀ agnim ǀ janayanta ǀ citti-bhiḥ ǀ
    rurucānam ǀ bhānunā ǀ jyotiṣā ǀ mahām ǀ atyam ǀ na ǀ vājam ǀ saniṣyan ǀ upa ǀ bruve ǁ

    3.2.3 Aṣṭaka 2.8.17.3Anuvāka 3.1.26

  4. Ṛk 4

    आ मं॒द्रस्य॑ सनि॒ष्यंतो॒ वरे॑ण्यं वृणी॒महे॒ अह्र॑यं॒ वाज॑मृ॒ग्मियं॑ ।
    रा॒तिं भृगू॑णामु॒शिजं॑ क॒विक्र॑तुम॒ग्निं राजं॑तं दि॒व्येन॑ शो॒चिषा॑ ॥

    आ मन्द्रस्य सनिष्यन्तो वरेण्यं वृणीमहे अह्रयं वाजम् ऋग्मियम् |
    रातिम् भृगूणाम् उशिजं कविक्रतुम् अग्निं राजन्तं दिव्येन शोचिषा ||

    ā́ mandrásya saniṣyánto váreṇyam vṛṇīmáhe áhrayam vā́jamṛgmíyam ǀ
    rātím bhṛ́gūṇāmuśíjam kavíkratumagním rā́jantam divyéna śocíṣā ǁ

    ā mandrasya saniṣyanto vareṇyaṃ vṛṇīmahe ahrayaṃ vājam ṛgmiyam |
    rātim bhṛgūṇām uśijaṃ kavikratum agniṃ rājantaṃ divyena śociṣā ||

    आ । म॒न्द्रस्य॑ । स॒नि॒ष्यन्तः॑ । वरे॑ण्यम् । वृ॒णी॒महे॑ । अह्र॑यम् । वाज॑म् । ऋ॒ग्मिय॑म् ।
    रा॒तिम् । भृगू॑णाम् । उ॒शिज॑म् । क॒विऽक्र॑तुम् । अ॒ग्निम् । राज॑न्तम् । दि॒व्येन॑ । शो॒चिषा॑ ॥

    आ । मन्द्रस्य । सनिष्यन्तः । वरेण्यम् । वृणीमहे । अह्रयम् । वाजम् । ऋग्मियम् ।
    रातिम् । भृगूणाम् । उशिजम् । कविऽक्रतुम् । अग्निम् । राजन्तम् । दिव्येन । शोचिषा ॥

    ā́ ǀ mandrásya ǀ saniṣyántaḥ ǀ váreṇyam ǀ vṛṇīmáhe ǀ áhrayam ǀ vā́jam ǀ ṛgmíyam ǀ
    rātím ǀ bhṛ́gūṇām ǀ uśíjam ǀ kaví-kratum ǀ agním ǀ rā́jantam ǀ divyéna ǀ śocíṣā ǁ

    ā ǀ mandrasya ǀ saniṣyantaḥ ǀ vareṇyam ǀ vṛṇīmahe ǀ ahrayam ǀ vājam ǀ ṛgmiyam ǀ
    rātim ǀ bhṛgūṇām ǀ uśijam ǀ kavi-kratum ǀ agnim ǀ rājantam ǀ divyena ǀ śociṣā ǁ

    3.2.4 Aṣṭaka 2.8.17.4Anuvāka 3.1.27

  5. Ṛk 5

    अ॒ग्निं सु॒म्नाय॑ दधिरे पु॒रो जना॒ वाज॑श्रवसमि॒ह वृ॒क्तब॑र्हिषः ।
    य॒तस्रु॑चः सु॒रुचं॑ वि॒श्वदे॑व्यं रु॒द्रं य॒ज्ञानां॒ साध॑दिष्टिम॒पसां॑ ॥

    अग्निं सुम्नाय दधिरे पुरो जना वाजश्रवसम् इह वृक्तबर्हिषः |
    यतस्रुचः सुरुचं विश्वदेव्यं रुद्रं यज्ञानां साधदिष्टिम् अपसाम् ||

    agním sumnā́ya dadhire puró jánā vā́jaśravasamihá vṛktábarhiṣaḥ ǀ
    yatásrucaḥ surúcam viśvádevyam rudrám yajñā́nām sā́dhadiṣṭimapásām ǁ

    agniṃ sumnāya dadhire puro janā vājaśravasam iha vṛktabarhiṣaḥ |
    yatasrucaḥ surucaṃ viśvadevyaṃ rudraṃ yajñānāṃ sādhadiṣṭim apasām ||

    अ॒ग्निम् । सु॒म्नाय॑ । द॒धि॒रे॒ । पु॒रः । जनाः॑ । वाज॑ऽश्रवसम् । इ॒ह । वृ॒क्तऽब॑र्हिषः ।
    य॒तऽस्रु॑चः । सु॒ऽरुच॑म् । वि॒श्वऽदे॑व्यम् । रु॒द्रम् । य॒ज्ञाना॑म् । साध॑त्ऽइष्टिम् । अ॒पसा॑म् ॥

    अग्निम् । सुम्नाय । दधिरे । पुरः । जनाः । वाजऽश्रवसम् । इह । वृक्तऽबर्हिषः ।
    यतऽस्रुचः । सुऽरुचम् । विश्वऽदेव्यम् । रुद्रम् । यज्ञानाम् । साधत्ऽइष्टिम् । अपसाम् ॥

    agním ǀ sumnā́ya ǀ dadhire ǀ puráḥ ǀ jánāḥ ǀ vā́ja-śravasam ǀ ihá ǀ vṛktá-barhiṣaḥ ǀ
    yatá-srucaḥ ǀ su-rúcam ǀ viśvá-devyam ǀ rudrám ǀ yajñā́nām ǀ sā́dhat-iṣṭim ǀ apásām ǁ

    agnim ǀ sumnāya ǀ dadhire ǀ puraḥ ǀ janāḥ ǀ vāja-śravasam ǀ iha ǀ vṛkta-barhiṣaḥ ǀ
    yata-srucaḥ ǀ su-rucam ǀ viśva-devyam ǀ rudram ǀ yajñānām ǀ sādhat-iṣṭim ǀ apasām ǁ

    3.2.5 Aṣṭaka 2.8.17.5Anuvāka 3.1.28

  6. Ṛk 6

    पाव॑कशोचे॒ तव॒ हि क्षयं॒ परि॒ होत॑र्य॒ज्ञेषु॑ वृ॒क्तब॑र्हिषो॒ नरः॑ ।
    अग्ने॒ दुव॑ इ॒च्छमा॑नास॒ आप्य॒मुपा॑सते॒ द्रवि॑णं धेहि॒ तेभ्यः॑ ॥

    पावकशोचे तव हि क्षयम् परि होतर् यज्ञेषु वृक्तबर्हिषो नरः |
    अग्ने दुव इच्छमानास आप्यम् उपासते द्रविणं धेहि तेभ्यः ||

    pā́vakaśoce táva hí kṣáyam pári hótaryajñéṣu vṛktábarhiṣo náraḥ ǀ
    ágne dúva icchámānāsa ā́pyamúpāsate dráviṇam dhehi tébhyaḥ ǁ

    pāvakaśoce tava hi kṣayam pari hotar yajñeṣu vṛktabarhiṣo naraḥ |
    agne duva icchamānāsa āpyam upāsate draviṇaṃ dhehi tebhyaḥ ||

    पाव॑कऽशोचे । तव॑ । हि । क्षय॑म् । परि॑ । होतः॑ । य॒ज्ञेषु॑ । वृ॒क्तऽब॑र्हिषः । नरः॑ ।
    अग्ने॑ । दुवः॑ । इ॒च्छमा॑नासः । आप्य॑म् । उप॑ । आ॒स॒ते॒ । द्रवि॑णम् । धे॒हि॒ । तेभ्यः॑ ॥

    पावकऽशोचे । तव । हि । क्षयम् । परि । होतः । यज्ञेषु । वृक्तऽबर्हिषः । नरः ।
    अग्ने । दुवः । इच्छमानासः । आप्यम् । उप । आसते । द्रविणम् । धेहि । तेभ्यः ॥

    pā́vaka-śoce ǀ táva ǀ hí ǀ kṣáyam ǀ pári ǀ hótaḥ ǀ yajñéṣu ǀ vṛktá-barhiṣaḥ ǀ náraḥ ǀ
    ágne ǀ dúvaḥ ǀ icchámānāsaḥ ǀ ā́pyam ǀ úpa ǀ āsate ǀ dráviṇam ǀ dhehi ǀ tébhyaḥ ǁ

    pāvaka-śoce ǀ tava ǀ hi ǀ kṣayam ǀ pari ǀ hotaḥ ǀ yajñeṣu ǀ vṛkta-barhiṣaḥ ǀ naraḥ ǀ
    agne ǀ duvaḥ ǀ icchamānāsaḥ ǀ āpyam ǀ upa ǀ āsate ǀ draviṇam ǀ dhehi ǀ tebhyaḥ ǁ

    3.2.6 Aṣṭaka 2.8.18.1Anuvāka 3.1.29

  7. Ṛk 7

    आ रोद॑सी अपृण॒दा स्व॑र्म॒हज्जा॒तं यदे॑नम॒पसो॒ अधा॑रयन् ।
    सो अ॑ध्व॒राय॒ परि॑ णीयते क॒विरत्यो॒ न वाज॑सातये॒ चनो॑हितः ॥

    आ रोदसी अपृणद् आ स्वर् महज् जातं यद् एनम् अपसो अधारयन् |
    सो अध्वराय परि णीयते कविर् अत्यो न वाजसातये चनोहितः ||

    ā́ ródasī apṛṇadā́ svármahájjātám yádenamapáso ádhārayan ǀ
    só adhvarā́ya pári ṇīyate kavírátyo ná vā́jasātaye cánohitaḥ ǁ

    ā rodasī apṛṇad ā svar mahaj jātaṃ yad enam apaso adhārayan |
    so adhvarāya pari ṇīyate kavir atyo na vājasātaye canohitaḥ ||

    आ । रोद॑सी॒ इति॑ । अ॒पृ॒ण॒त् । आ । स्वः॑ । म॒हत् । जा॒तम् । यत् । ए॒न॒म् । अ॒पसः॑ । अधा॑रयन् ।
    सः । अ॒ध्व॒राय॑ । परि॑ । नी॒य॒ते॒ । क॒विः । अत्यः॑ । न । वाज॑ऽसातये । चनः॑ऽहितः ॥

    आ । रोदसी इति । अपृणत् । आ । स्वः । महत् । जातम् । यत् । एनम् । अपसः । अधारयन् ।
    सः । अध्वराय । परि । नीयते । कविः । अत्यः । न । वाजऽसातये । चनःऽहितः ॥

    ā́ ǀ ródasī íti ǀ apṛṇat ǀ ā́ ǀ sváḥ ǀ mahát ǀ jātám ǀ yát ǀ enam ǀ apásaḥ ǀ ádhārayan ǀ
    sáḥ ǀ adhvarā́ya ǀ pári ǀ nīyate ǀ kavíḥ ǀ átyaḥ ǀ ná ǀ vā́ja-sātaye ǀ cánaḥ-hitaḥ ǁ

    ā ǀ rodasī iti ǀ apṛṇat ǀ ā ǀ svaḥ ǀ mahat ǀ jātam ǀ yat ǀ enam ǀ apasaḥ ǀ adhārayan ǀ
    saḥ ǀ adhvarāya ǀ pari ǀ nīyate ǀ kaviḥ ǀ atyaḥ ǀ na ǀ vāja-sātaye ǀ canaḥ-hitaḥ ǁ

    3.2.7 Aṣṭaka 2.8.18.2Anuvāka 3.1.30

  8. Ṛk 8

    न॒म॒स्यत॑ ह॒व्यदा॑तिं स्वध्व॒रं दु॑व॒स्यत॒ दम्यं॑ जा॒तवे॑दसं ।
    र॒थीर्ऋ॒तस्य॑ बृह॒तो विच॑र्षणिर॒ग्निर्दे॒वाना॑मभवत्पु॒रोहि॑तः ॥

    नमस्यत हव्यदातिं स्वध्वरं दुवस्यत दम्यं जातवेदसम् |
    रथीर् ऋतस्य बृहतो विचर्षणिर् अग्निर् देवानाम् अभवत् पुरोहितः ||

    namasyáta havyádātim svadhvarám duvasyáta dámyam jātávedasam ǀ
    rathī́rṛtásya bṛható vícarṣaṇiragnírdevā́nāmabhavatpuróhitaḥ ǁ

    namasyata havyadātiṃ svadhvaraṃ duvasyata damyaṃ jātavedasam |
    rathīr ṛtasya bṛhato vicarṣaṇir agnir devānām abhavat purohitaḥ ||

    न॒म॒स्यत॑ । ह॒व्यऽदा॑तिम् । सु॒ऽअ॒ध्व॒रम् । दु॒व॒स्यत॑ । दभ्य॑म् । जा॒तऽवे॑दसम् ।
    र॒थीः । ऋ॒तस्य॑ । बृ॒ह॒तः । विऽच॑र्षणिः । अ॒ग्निः । दे॒वाना॑म् । अ॒भ॒व॒त् । पु॒रःऽहि॑तः ॥

    नमस्यत । हव्यऽदातिम् । सुऽअध्वरम् । दुवस्यत । दभ्यम् । जातऽवेदसम् ।
    रथीः । ऋतस्य । बृहतः । विऽचर्षणिः । अग्निः । देवानाम् । अभवत् । पुरःऽहितः ॥

    namasyáta ǀ havyá-dātim ǀ su-adhvarám ǀ duvasyáta ǀ dábhyam ǀ jātá-vedasam ǀ
    rathī́ḥ ǀ ṛtásya ǀ bṛhatáḥ ǀ ví-carṣaṇiḥ ǀ agníḥ ǀ devā́nām ǀ abhavat ǀ puráḥ-hitaḥ ǁ

    namasyata ǀ havya-dātim ǀ su-adhvaram ǀ duvasyata ǀ dabhyam ǀ jāta-vedasam ǀ
    rathīḥ ǀ ṛtasya ǀ bṛhataḥ ǀ vi-carṣaṇiḥ ǀ agniḥ ǀ devānām ǀ abhavat ǀ puraḥ-hitaḥ ǁ

    3.2.8 Aṣṭaka 2.8.18.3Anuvāka 3.1.31

  9. Ṛk 9

    ति॒स्रो य॒ह्वस्य॑ स॒मिधः॒ परि॑ज्मनो॒ऽग्नेर॑पुनन्नु॒शिजो॒ अमृ॑त्यवः ।
    तासा॒मेका॒मद॑धु॒र्मर्त्ये॒ भुज॑मु लो॒कमु॒ द्वे उप॑ जा॒मिमी॑यतुः ॥

    तिस्रो यह्वस्य समिधः परिज्मनो ऽग्नेर् अपुनन्न् उशिजो अमृत्यवः |
    तासाम् एकाम् अदधुर् मर्त्ये भुजम् उ लोकम् उ द्वे उप जामिम् ईयतुः ||

    tisró yahvásya samídhaḥ párijmano’gnérapunannuśíjo ámṛtyavaḥ ǀ
    tā́sāmékāmádadhurmártye bhújamu lokámu dvé úpa jāmímīyatuḥ ǁ

    tisro yahvasya samidhaḥ parijmano 'gner apunann uśijo amṛtyavaḥ |
    tāsām ekām adadhur martye bhujam u lokam u dve upa jāmim īyatuḥ ||

    ति॒स्रः । य॒ह्वस्य॑ । स॒म्ऽइधः॑ । परि॑ऽज्मनः । अ॒ग्नेः । अ॒पु॒न॒न् । उ॒शिजः॑ । अमृ॑त्यवः ।
    तासा॑म् । एका॑म् । अद॑धुः । मर्त्ये॑ । भुज॑म् । ऊं॒ इति॑ । लो॒कम् । ऊं॒ इति॑ । द्वे इति॑ । उप॑ । जा॒मिम् । ई॒य॒तुः॒ ॥

    तिस्रः । यह्वस्य । सम्ऽइधः । परिऽज्मनः । अग्नेः । अपुनन् । उशिजः । अमृत्यवः ।
    तासाम् । एकाम् । अदधुः । मर्त्ये । भुजम् । ऊं इति । लोकम् । ऊं इति । द्वे इति । उप । जामिम् । ईयतुः ॥

    tisráḥ ǀ yahvásya ǀ sam-ídhaḥ ǀ pári-jmanaḥ ǀ agnéḥ ǀ apunan ǀ uśíjaḥ ǀ ámṛtyavaḥ ǀ
    tā́sām ǀ ékām ǀ ádadhuḥ ǀ mártye ǀ bhújam ǀ ūṃ íti ǀ lokám ǀ ūṃ íti ǀ dvé íti ǀ úpa ǀ jāmím ǀ īyatuḥ ǁ

    tisraḥ ǀ yahvasya ǀ sam-idhaḥ ǀ pari-jmanaḥ ǀ agneḥ ǀ apunan ǀ uśijaḥ ǀ amṛtyavaḥ ǀ
    tāsām ǀ ekām ǀ adadhuḥ ǀ martye ǀ bhujam ǀ ūṃ iti ǀ lokam ǀ ūṃ iti ǀ dve iti ǀ upa ǀ jāmim ǀ īyatuḥ ǁ

    3.2.9 Aṣṭaka 2.8.18.4Anuvāka 3.1.32

  10. Ṛk 10

    वि॒शां क॒विं वि॒श्पतिं॒ मानु॑षी॒रिषः॒ सं सी॑मकृण्व॒न्त्स्वधि॑तिं॒ न तेज॑से ।
    स उ॒द्वतो॑ नि॒वतो॑ याति॒ वेवि॑ष॒त्स गर्भ॑मे॒षु भुव॑नेषु दीधरत् ॥

    विशां कविं विश्पतिम् मानुषीर् इषः सं सीम् अकृण्वन् स्वधितिं न तेजसे |
    स उद्वतो निवतो याति वेविषत् स गर्भम् एषु भुवनेषु दीधरत् ||

    viśā́m kavím viśpátim mā́nuṣīríṣaḥ sám sīmakṛṇvantsvádhitim ná téjase ǀ
    sá udváto niváto yāti véviṣatsá gárbhameṣú bhúvaneṣu dīdharat ǁ

    viśāṃ kaviṃ viśpatim mānuṣīr iṣaḥ saṃ sīm akṛṇvan svadhitiṃ na tejase |
    sa udvato nivato yāti veviṣat sa garbham eṣu bhuvaneṣu dīdharat ||

    वि॒शाम् । क॒विम् । वि॒श्पति॑म् । मानु॑षीः । इषः॑ । सम् । सी॒म् । अ॒कृ॒ण्व॒न् । स्वऽधि॑तिम् । न । तेज॑से ।
    सः । उ॒त्ऽवतः॑ । नि॒ऽवतः॑ । या॒ति॒ । वेवि॑षत् । सः । गर्भ॑म् । ए॒षु । भुव॑नेषु । दी॒ध॒र॒त् ॥

    विशाम् । कविम् । विश्पतिम् । मानुषीः । इषः । सम् । सीम् । अकृण्वन् । स्वऽधितिम् । न । तेजसे ।
    सः । उत्ऽवतः । निऽवतः । याति । वेविषत् । सः । गर्भम् । एषु । भुवनेषु । दीधरत् ॥

    viśā́m ǀ kavím ǀ viśpátim ǀ mā́nuṣīḥ ǀ íṣaḥ ǀ sám ǀ sīm ǀ akṛṇvan ǀ svá-dhitim ǀ ná ǀ téjase ǀ
    sáḥ ǀ ut-vátaḥ ǀ ni-vátaḥ ǀ yāti ǀ véviṣat ǀ sáḥ ǀ gárbham ǀ eṣú ǀ bhúvaneṣu ǀ dīdharat ǁ

    viśām ǀ kavim ǀ viśpatim ǀ mānuṣīḥ ǀ iṣaḥ ǀ sam ǀ sīm ǀ akṛṇvan ǀ sva-dhitim ǀ na ǀ tejase ǀ
    saḥ ǀ ut-vataḥ ǀ ni-vataḥ ǀ yāti ǀ veviṣat ǀ saḥ ǀ garbham ǀ eṣu ǀ bhuvaneṣu ǀ dīdharat ǁ

    3.2.10 Aṣṭaka 2.8.18.5Anuvāka 3.1.33

  11. Ṛk 11

    स जि॑न्वते ज॒ठरे॑षु प्रजज्ञि॒वान्वृषा॑ चि॒त्रेषु॒ नान॑द॒न्न सिं॒हः ।
    वै॒श्वा॒न॒रः पृ॑थु॒पाजा॒ अम॑र्त्यो॒ वसु॒ रत्ना॒ दय॑मानो॒ वि दा॒शुषे॑ ॥

    स जिन्वते जठरेषु प्रजज्ञिवान् वृषा चित्रेषु नानदन् न सिंहः |
    वैश्वानरः पृथुपाजा अमर्त्यो वसु रत्ना दयमानो वि दाशुषे ||

    sá jinvate jaṭháreṣu prajajñivā́nvṛ́ṣā citréṣu nā́nadanná siṃháḥ ǀ
    vaiśvānaráḥ pṛthupā́jā ámartyo vásu rátnā dáyamāno ví dāśúṣe ǁ

    sa jinvate jaṭhareṣu prajajñivān vṛṣā citreṣu nānadan na siṃhaḥ |
    vaiśvānaraḥ pṛthupājā amartyo vasu ratnā dayamāno vi dāśuṣe ||

    सः । जि॒न्व॒ते॒ । ज॒ठरे॑षु । प्र॒ज॒ज्ञि॒ऽवान् । वृषा॑ । चि॒त्रेषु॑ । नान॑दत् । न । सिं॒हः ।
    वै॒श्वा॒न॒रः । पृ॒थु॒ऽपाजाः॑ । अम॑र्त्यः । वसु॑ । रत्ना॑ । दय॑मानः । वि । दा॒शुषे॑ ॥

    सः । जिन्वते । जठरेषु । प्रजज्ञिऽवान् । वृषा । चित्रेषु । नानदत् । न । सिंहः ।
    वैश्वानरः । पृथुऽपाजाः । अमर्त्यः । वसु । रत्ना । दयमानः । वि । दाशुषे ॥

    sáḥ ǀ jinvate ǀ jaṭháreṣu ǀ prajajñi-vā́n ǀ vṛ́ṣā ǀ citréṣu ǀ nā́nadat ǀ ná ǀ siṃháḥ ǀ
    vaiśvānaráḥ ǀ pṛthu-pā́jāḥ ǀ ámartyaḥ ǀ vásu ǀ rátnā ǀ dáyamānaḥ ǀ ví ǀ dāśúṣe ǁ

    saḥ ǀ jinvate ǀ jaṭhareṣu ǀ prajajñi-vān ǀ vṛṣā ǀ citreṣu ǀ nānadat ǀ na ǀ siṃhaḥ ǀ
    vaiśvānaraḥ ǀ pṛthu-pājāḥ ǀ amartyaḥ ǀ vasu ǀ ratnā ǀ dayamānaḥ ǀ vi ǀ dāśuṣe ǁ

    3.2.11 Aṣṭaka 2.8.19.1Anuvāka 3.1.34

  12. Ṛk 12

    वै॒श्वा॒न॒रः प्र॒त्नथा॒ नाक॒मारु॑हद्दि॒वस्पृ॒ष्ठं भंद॑मानः सु॒मन्म॑भिः ।
    स पू॑र्व॒वज्ज॒नयं॑जं॒तवे॒ धनं॑ समा॒नमज्मं॒ पर्ये॑ति॒ जागृ॑विः ॥

    वैश्वानरः प्रत्नथा नाकम् आरुहद् दिवस् पृष्ठम् भन्दमानः सुमन्मभिः |
    स पूर्ववज् जनयञ् जन्तवे धनं समानम् अज्मम् पर्य् एति जागृविः ||

    vaiśvānaráḥ pratnáthā nā́kamā́ruhaddiváspṛṣṭhám bhándamānaḥ sumánmabhiḥ ǀ
    sá pūrvavájjanáyañjantáve dhánam samānámájmam páryeti jā́gṛviḥ ǁ

    vaiśvānaraḥ pratnathā nākam āruhad divas pṛṣṭham bhandamānaḥ sumanmabhiḥ |
    sa pūrvavaj janayañ jantave dhanaṃ samānam ajmam pary eti jāgṛviḥ ||

    वै॒श्वा॒न॒रः । प्र॒त्नऽथा॑ । नाक॑म् । आ । अ॒रु॒ह॒त् । दि॒वः । पृ॒ष्ठम् । भन्द॑मानः । सु॒मन्म॑ऽभिः ।
    सः । पू॒र्व॒ऽवत् । ज॒नय॑न् । ज॒न्तवे॑ । धन॑म् । स॒मा॒नम् । अज्म॑म् । परि॑ । ए॒ति॒ । जागृ॑विः ॥

    वैश्वानरः । प्रत्नऽथा । नाकम् । आ । अरुहत् । दिवः । पृष्ठम् । भन्दमानः । सुमन्मऽभिः ।
    सः । पूर्वऽवत् । जनयन् । जन्तवे । धनम् । समानम् । अज्मम् । परि । एति । जागृविः ॥

    vaiśvānaráḥ ǀ pratná-thā ǀ nā́kam ǀ ā́ ǀ aruhat ǀ diváḥ ǀ pṛṣṭhám ǀ bhándamānaḥ ǀ sumánma-bhiḥ ǀ
    sáḥ ǀ pūrva-vát ǀ janáyan ǀ jantáve ǀ dhánam ǀ samānám ǀ ájmam ǀ pári ǀ eti ǀ jā́gṛviḥ ǁ

    vaiśvānaraḥ ǀ pratna-thā ǀ nākam ǀ ā ǀ aruhat ǀ divaḥ ǀ pṛṣṭham ǀ bhandamānaḥ ǀ sumanma-bhiḥ ǀ
    saḥ ǀ pūrva-vat ǀ janayan ǀ jantave ǀ dhanam ǀ samānam ǀ ajmam ǀ pari ǀ eti ǀ jāgṛviḥ ǁ

    3.2.12 Aṣṭaka 2.8.19.2Anuvāka 3.1.35

  13. Ṛk 13

    ऋ॒तावा॑नं य॒ज्ञियं॒ विप्र॑मु॒क्थ्य१॒॑मा यं द॒धे मा॑त॒रिश्वा॑ दि॒वि क्षयं॑ ।
    तं चि॒त्रया॑मं॒ हरि॑केशमीमहे सुदी॒तिम॒ग्निं सु॑वि॒ताय॒ नव्य॑से ॥

    ऋतावानं यज्ञियं विप्रम् उक्थ्यम् आ यं दधे मातरिश्वा दिवि क्षयम् |
    तं चित्रयामं हरिकेशम् ईमहे सुदीतिम् अग्निं सुविताय नव्यसे ||

    ṛtā́vānam yajñíyam vípramukthyámā́ yám dadhé mātaríśvā diví kṣáyam ǀ
    tám citráyāmam hárikeśamīmahe sudītímagním suvitā́ya návyase ǁ

    ṛtāvānaṃ yajñiyaṃ vipram ukthyam ā yaṃ dadhe mātariśvā divi kṣayam |
    taṃ citrayāmaṃ harikeśam īmahe sudītim agniṃ suvitāya navyase ||

    ऋ॒तऽवा॑नम् । य॒ज्ञिय॑म् । विप्र॑म् । उ॒क्थ्य॑म् । आ । यम् । द॒धे । मा॒त॒रिश्वा॑ । दि॒वि । क्षय॑म् ।
    तम् । चि॒त्रऽया॑मम् । हरि॑ऽकेशम् । ई॒म॒हे॒ । सु॒ऽदी॒तिम् । अ॒ग्निम् । सु॒वि॒ताय॑ । नव्य॑से ॥

    ऋतऽवानम् । यज्ञियम् । विप्रम् । उक्थ्यम् । आ । यम् । दधे । मातरिश्वा । दिवि । क्षयम् ।
    तम् । चित्रऽयामम् । हरिऽकेशम् । ईमहे । सुऽदीतिम् । अग्निम् । सुविताय । नव्यसे ॥

    ṛtá-vānam ǀ yajñíyam ǀ vípram ǀ ukthyám ǀ ā́ ǀ yám ǀ dadhé ǀ mātaríśvā ǀ diví ǀ kṣáyam ǀ
    tám ǀ citrá-yāmam ǀ hári-keśam ǀ īmahe ǀ su-dītím ǀ agním ǀ suvitā́ya ǀ návyase ǁ

    ṛta-vānam ǀ yajñiyam ǀ vipram ǀ ukthyam ǀ ā ǀ yam ǀ dadhe ǀ mātariśvā ǀ divi ǀ kṣayam ǀ
    tam ǀ citra-yāmam ǀ hari-keśam ǀ īmahe ǀ su-dītim ǀ agnim ǀ suvitāya ǀ navyase ǁ

    3.2.13 Aṣṭaka 2.8.19.3Anuvāka 3.1.36

  14. Ṛk 14

    शुचिं॒ न याम॑न्निषि॒रं स्व॒र्दृशं॑ के॒तुं दि॒वो रो॑चन॒स्थामु॑ष॒र्बुधं॑ ।
    अ॒ग्निं मू॒र्धानं॑ दि॒वो अप्र॑तिष्कुतं॒ तमी॑महे॒ नम॑सा वा॒जिनं॑ बृ॒हत् ॥

    शुचिं न यामन्न् इषिरं स्वर्दृशं केतुं दिवो रोचनस्थाम् उषर्बुधम् |
    अग्निम् मूर्धानं दिवो अप्रतिष्कुतं तम् ईमहे नमसा वाजिनम् बृहत् ||

    śúcim ná yā́manniṣirám svardṛ́śam ketúm divó rocanasthā́muṣarbúdham ǀ
    agním mūrdhā́nam divó ápratiṣkutam támīmahe námasā vājínam bṛhát ǁ

    śuciṃ na yāmann iṣiraṃ svardṛśaṃ ketuṃ divo rocanasthām uṣarbudham |
    agnim mūrdhānaṃ divo apratiṣkutaṃ tam īmahe namasā vājinam bṛhat ||

    शुचि॑म् । न । याम॑न् । इ॒षि॒रम् । स्वः॒ऽदृश॑म् । के॒तुम् । दि॒वः । रो॒च॒न॒ऽस्थाम् । उ॒षः॒ऽबुध॑म् ।
    अ॒ग्निम् । मू॒र्धान॑म् । दि॒वः । अप्र॑तिऽस्कुतम् । तम् । ई॒म॒हे॒ । नम॑सा । वा॒जिन॑म् । बृ॒हत् ॥

    शुचिम् । न । यामन् । इषिरम् । स्वःऽदृशम् । केतुम् । दिवः । रोचनऽस्थाम् । उषःऽबुधम् ।
    अग्निम् । मूर्धानम् । दिवः । अप्रतिऽस्कुतम् । तम् । ईमहे । नमसा । वाजिनम् । बृहत् ॥

    śúcim ǀ ná ǀ yā́man ǀ iṣirám ǀ svaḥ-dṛ́śam ǀ ketúm ǀ diváḥ ǀ rocana-sthā́m ǀ uṣaḥ-búdham ǀ
    agním ǀ mūrdhā́nam ǀ diváḥ ǀ áprati-skutam ǀ tám ǀ īmahe ǀ námasā ǀ vājínam ǀ bṛhát ǁ

    śucim ǀ na ǀ yāman ǀ iṣiram ǀ svaḥ-dṛśam ǀ ketum ǀ divaḥ ǀ rocana-sthām ǀ uṣaḥ-budham ǀ
    agnim ǀ mūrdhānam ǀ divaḥ ǀ aprati-skutam ǀ tam ǀ īmahe ǀ namasā ǀ vājinam ǀ bṛhat ǁ

    3.2.14 Aṣṭaka 2.8.19.4Anuvāka 3.1.37

  15. Ṛk 15

    मं॒द्रं होता॑रं॒ शुचि॒मद्व॑याविनं॒ दमू॑नसमु॒क्थ्यं॑ वि॒श्वच॑र्षणिं ।
    रथं॒ न चि॒त्रं वपु॑षाय दर्श॒तं मनु॑र्हितं॒ सद॒मिद्रा॒य ई॑महे ॥

    मन्द्रं होतारं शुचिम् अद्वयाविनं दमूनसम् उक्थ्यं विश्वचर्षणिम् |
    रथं न चित्रं वपुषाय दर्शतम् मनुर्हितं सदम् इद् राय ईमहे ||

    mandrám hótāram śúcimádvayāvinam dámūnasamukthyám viśvácarṣaṇim ǀ
    rátham ná citrám vápuṣāya darśatám mánurhitam sádamídrāyá īmahe ǁ

    mandraṃ hotāraṃ śucim advayāvinaṃ damūnasam ukthyaṃ viśvacarṣaṇim |
    rathaṃ na citraṃ vapuṣāya darśatam manurhitaṃ sadam id rāya īmahe ||

    म॒न्द्रम् । होता॑रम् । शुचि॑म् । अद्व॑याविनम् । दमू॑नसम् । उ॒क्थ्य॑म् । वि॒श्वऽच॑र्षणिम् ।
    रथ॑म् । न । चि॒त्रम् । वपु॑षाय । द॒र्श॒तम् । मनुः॑ऽहितम् । सद॑म् । इत् । रा॒यः । ई॒म॒हे॒ ॥

    मन्द्रम् । होतारम् । शुचिम् । अद्वयाविनम् । दमूनसम् । उक्थ्यम् । विश्वऽचर्षणिम् ।
    रथम् । न । चित्रम् । वपुषाय । दर्शतम् । मनुःऽहितम् । सदम् । इत् । रायः । ईमहे ॥

    mandrám ǀ hótāram ǀ śúcim ǀ ádvayāvinam ǀ dámūnasam ǀ ukthyám ǀ viśvá-carṣaṇim ǀ
    rátham ǀ ná ǀ citrám ǀ vápuṣāya ǀ darśatám ǀ mánuḥ-hitam ǀ sádam ǀ ít ǀ rāyáḥ ǀ īmahe ǁ

    mandram ǀ hotāram ǀ śucim ǀ advayāvinam ǀ damūnasam ǀ ukthyam ǀ viśva-carṣaṇim ǀ
    ratham ǀ na ǀ citram ǀ vapuṣāya ǀ darśatam ǀ manuḥ-hitam ǀ sadam ǀ it ǀ rāyaḥ ǀ īmahe ǁ

    3.2.15 Aṣṭaka 2.8.19.5Anuvāka 3.1.38

Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 3.2 · Agni Vaiśvānara

Interpretations

Sri Aurobindo

Ṛk 1

We create an understanding like pure light for the Fire that makes the Truth to grow, for the universal godhead. The priests of the word fashion twofold by the thought of the human being9 this priest of the call, as the saw carves a chariot, and join him into a whole. (16 HTMF 161)

Ṛk 2

He from his birth illumined both the firmaments, he became the desirable son of the Father and Mother. The ageless and inviolable Fire, firmly founded in bliss, with his riches of the Light, is the carrier of offering and the guest of the peoples. (16 HTMF 161)

Ṛk 3

By the will, in the order and law of a delivering discernment, the gods brought the Fire into being by their perceptions of the Knowledge. In his greatness shining forth with his blazing light I invoke him as the Horse so that I may conquer the plenitude. (16 HTMF 162)

Ṛk 4

To conquer the supreme bliss of the rapturous godhead, the undeviating plenitude full of the word of illumination, we accept the gift of the Flame-Seers,10 the Fire that aspires, the Seer-Will shining with heavenly light. (16 HTMF 162)

Ṛk 5

Having gathered the sacred grass, stretching out the ladle of offering, men have set here in their front the Fire for the happiness, in his plenitude of inspiration, the Violent, the universal in godhead, the bright and beautiful, one who accomplishes the seekings of sacrifice of the doers of the works. (16 HTMF 162)

Ṛk 6

O Fire, O purifying light, O priest of the call, men in their sacrifices having gathered the sacred grass, desiring 10 Or, the Bhrigus, the work, sit around thy house which we must obtain as ours; found for them the Treasure. (16 HTMF 162)

Ṛk 7

He filled the two firmaments, he filled the vast sun-world, when he was born and held by the doers of the work. He is led around for the pilgrim sacrifice, the Seer founded in the Bliss, as the Horse for the conquest of the plenitude.(16 HTMF 163)

Ṛk 8

Bow down to the giver of the offering, set to his work the perfect in the pilgrim-rite, the knower of all the births who dwells in the house: for he is the all-seeing charioteer of the vast Truth, the Fire has become the priest of the gods set in front. (16 HTMF 163)

Ṛk 9

Triple is the fuel of the mighty and pervading Fire purified by the aspiring immortals; one of three they have set in the mortal, the fuel of the enjoyment, two have gone to that companion world. (16 HTMF 163)

Ṛk 10

This seer and lord of creatures human impulsions have perfected everywhere like an axe for sharpness. He goes overrunning the high and the low places; he holds the child to be born in these worlds. (16 HTMF 163)

Ṛk 11

The male of the herds has been born in different wombs and he stirs abroad like a roaring lion, the universal godhead, the immortal wide in his might bestowing the riches and the ecstasies on the offerer of sacrifice. (16 HTMF 164)

Ṛk 12

Universal godhead as in the ancient days has ascended glad by high thoughts to the firmament, to the back of heaven, even as of old he creates the riches for the creature born; wakeful he travels ever over the same field of movement. (16 HTMF 164)

Ṛk 13

The sacrificial Fire whose home is in heaven and who possesses the Truth, the illumined seer with his utterance of the word, whom life that grows in the mother has set here, him with his diverse journeying, his tawny hair of flame we desire, the deep-thinking Fire for a new and happy movement. (16 HTMF 164) (16 HTMF 163)

Ṛk 14

Pure-bright, rapid of impulsion in his journeying, Fire that looks upon the sun-world, heaven’s ray of intuition, standing in the luminous planes, waking in the Dawn, Fire, head of heaven, whom no darkness can cover, him we desire with obeisance of surrender, the Fire of the plenitudes who is the Vast. (16 HTMF 164)

Ṛk 15

The pure and rapturous priest of the call in whom is no duality, the dweller in the house, the speaker of the word, the all-seeing, the visioned Fire set in the thinking human being who is like a many-hued chariot in his embodiment, him ever we desire and his riches. (16 HTMF 165)