Sūkta 29
- Devatā देवता
- 1-4, 6-16: Agni; 5: Agni Or The Priests
- Ṛṣi ऋषि
- Viśvāmitra Gāthina
- Chandas छन्दस्
- Triṣṭubh, Anuṣṭubh, Jagatī
Metres by ṛk
1st set of styles nicṛttriṣṭup (7-9, 16); triṣṭup (3, 5, 6); jagatī (11, 14, 15); bhuriganuṣṭup (10, 12); nicṛdanuṣṭup (1); bhurikpaṅkti (2); virāḍanuṣṭup (4); svarāṭpaṅkti (13)
2nd set of styles triṣṭubh (2-3, 5, 7-9, 13, 16); anuṣṭubh (1, 4, 10, 12); jagatī (6, 11, 14, 15)
-
Ṛk 1
अस्ती॒दम॑धि॒मंथ॑न॒मस्ति॑ प्र॒जन॑नं कृ॒तं ।
ए॒तां वि॒श्पत्नी॒मा भ॑रा॒ग्निं मं॑थाम पू॒र्वथा॑ ॥अस्तीदम् अधिमन्थनम् अस्ति प्रजननं कृतम् |
एतां विश्पत्नीम् आ भराग्निम् मन्थाम पूर्वथा ||ástīdámadhimánthanamásti prajánanam kṛtám ǀ
etā́m viśpátnīmā́ bharāgním manthāma pūrváthā ǁastīdam adhimanthanam asti prajananaṃ kṛtam |
etāṃ viśpatnīm ā bharāgnim manthāma pūrvathā ||अस्ति॑ । इ॒दम् । अ॒धि॒ऽमन्थ॑नम् । अस्ति॑ । प्र॒ऽजन॑नम् । कृ॒तम् ।
ए॒ताम् । वि॒श्पत्नी॑म् । आ । भ॒र॒ । अ॒ग्निम् । म॒न्था॒म॒ । पू॒र्वऽथा॑ ॥अस्ति । इदम् । अधिऽमन्थनम् । अस्ति । प्रऽजननम् । कृतम् ।
एताम् । विश्पत्नीम् । आ । भर । अग्निम् । मन्थाम । पूर्वऽथा ॥ásti ǀ idám ǀ adhi-mánthanam ǀ ásti ǀ pra-jánanam ǀ kṛtám ǀ
etā́m ǀ viśpátnīm ǀ ā́ ǀ bhara ǀ agním ǀ manthāma ǀ pūrvá-thā ǁasti ǀ idam ǀ adhi-manthanam ǀ asti ǀ pra-jananam ǀ kṛtam ǀ
etām ǀ viśpatnīm ǀ ā ǀ bhara ǀ agnim ǀ manthāma ǀ pūrva-thā ǁ3.29.1 Aṣṭaka 3.1.32.1Anuvāka 3.2.103
-
Ṛk 2
अ॒रण्यो॒र्निहि॑तो जा॒तवे॑दा॒ गर्भ॑ इव॒ सुधि॑तो ग॒र्भिणी॑षु ।
दि॒वेदि॑व॒ ईड्यो॑ जागृ॒वद्भि॑र्ह॒विष्म॑द्भिर्मनु॒ष्ये॑भिर॒ग्निः ॥अरण्योर् निहितो जातवेदा गर्भ इव सुधितो गर्भिणीषु |
दिवे-दिव ईड्यो जागृवद्भिर् हविष्मद्भिर् मनुष्येभिर् अग्निः ||aráṇyorníhito jātávedā gárbha iva súdhito garbhíṇīṣu ǀ
divédiva ī́ḍyo jāgṛvádbhirhavíṣmadbhirmanuṣyébhiragníḥ ǁaraṇyor nihito jātavedā garbha iva sudhito garbhiṇīṣu |
dive-diva īḍyo jāgṛvadbhir haviṣmadbhir manuṣyebhir agniḥ ||अ॒रण्योः॑ । निऽहि॑तः । जा॒तऽवे॑दाः । गर्भः॑ऽइव । सुऽधि॑तः । ग॒र्भिणी॑षु ।
दि॒वेऽदि॑वे । ईड्यः॑ । जा॒गृ॒वत्ऽभिः॑ । ह॒विष्म॑त्ऽभिः । म॒नु॒ष्ये॑भिः । अ॒ग्निः ॥अरण्योः । निऽहितः । जातऽवेदाः । गर्भःऽइव । सुऽधितः । गर्भिणीषु ।
दिवेऽदिवे । ईड्यः । जागृवत्ऽभिः । हविष्मत्ऽभिः । मनुष्येभिः । अग्निः ॥aráṇyoḥ ǀ ní-hitaḥ ǀ jātá-vedāḥ ǀ gárbhaḥ-iva ǀ sú-dhitaḥ ǀ garbhíṇīṣu ǀ
divé-dive ǀ ī́ḍyaḥ ǀ jāgṛvát-bhiḥ ǀ havíṣmat-bhiḥ ǀ manuṣyébhiḥ ǀ agníḥ ǁaraṇyoḥ ǀ ni-hitaḥ ǀ jāta-vedāḥ ǀ garbhaḥ-iva ǀ su-dhitaḥ ǀ garbhiṇīṣu ǀ
dive-dive ǀ īḍyaḥ ǀ jāgṛvat-bhiḥ ǀ haviṣmat-bhiḥ ǀ manuṣyebhiḥ ǀ agniḥ ǁ3.29.2 Aṣṭaka 3.1.32.2Anuvāka 3.2.104
-
Ṛk 3
उ॒त्ता॒नाया॒मव॑ भरा चिकि॒त्वान्त्स॒द्यः प्रवी॑ता॒ वृष॑णं जजान ।
अ॒रु॒षस्तू॑पो॒ रुश॑दस्य॒ पाज॒ इळा॑यास्पु॒त्रो व॒युने॑ऽजनिष्ट ॥उत्तानायाम् अव भरा चिकित्वान् सद्यः प्रवीता वृषणं जजान |
अरुषस्तूपो रुशद् अस्य पाज इऌआयास् पुत्रो वयुने ऽजनिष्ट ||uttānā́yāmáva bharā cikitvā́ntsadyáḥ právītā vṛ́ṣaṇam jajāna ǀ
aruṣástūpo rúśadasya pā́ja íḷāyāsputró vayúne’janiṣṭa ǁuttānāyām ava bharā cikitvān sadyaḥ pravītā vṛṣaṇaṃ jajāna |
aruṣastūpo ruśad asya pāja iḷāyās putro vayune 'janiṣṭa ||उ॒त्ता॒नाया॑म् । अव॑ । भ॒र॒ । चि॒कि॒त्वान् । स॒द्यः । प्रऽवी॑ता । वृष॑णम् । ज॒जा॒न॒ ।
अ॒रु॒षऽस्तू॑पः । रुश॑त् । अ॒स्य॒ । पाजः॑ । इळा॑याः । पु॒त्रः । व॒युने॑ । अ॒ज॒नि॒ष्ट॒ ॥उत्तानायाम् । अव । भर । चिकित्वान् । सद्यः । प्रऽवीता । वृषणम् । जजान ।
अरुषऽस्तूपः । रुशत् । अस्य । पाजः । इळायाः । पुत्रः । वयुने । अजनिष्ट ॥uttānā́yām ǀ áva ǀ bhara ǀ cikitvā́n ǀ sadyáḥ ǀ prá-vītā ǀ vṛ́ṣaṇam ǀ jajāna ǀ
aruṣá-stūpaḥ ǀ rúśat ǀ asya ǀ pā́jaḥ ǀ íḷāyāḥ ǀ putráḥ ǀ vayúne ǀ ajaniṣṭa ǁuttānāyām ǀ ava ǀ bhara ǀ cikitvān ǀ sadyaḥ ǀ pra-vītā ǀ vṛṣaṇam ǀ jajāna ǀ
aruṣa-stūpaḥ ǀ ruśat ǀ asya ǀ pājaḥ ǀ iḷāyāḥ ǀ putraḥ ǀ vayune ǀ ajaniṣṭa ǁ3.29.3 Aṣṭaka 3.1.32.3Anuvāka 3.2.105
-
Ṛk 4
इळा॑यास्त्वा प॒दे व॒यं नाभा॑ पृथि॒व्या अधि॑ ।
जात॑वेदो॒ नि धी॑म॒ह्यग्ने॑ ह॒व्याय॒ वोळ्ह॑वे ॥इऌआयास् त्वा पदे वयं नाभा पृथिव्या अधि |
जातवेदो नि धीमह्य् अग्ने हव्याय वोऌहवे ||íḷāyāstvā padé vayám nā́bhā pṛthivyā́ ádhi ǀ
jā́tavedo ní dhīmahyágne havyā́ya vóḷhave ǁiḷāyās tvā pade vayaṃ nābhā pṛthivyā adhi |
jātavedo ni dhīmahy agne havyāya voḷhave ||इळा॑याः । त्वा॒ । प॒दे । व॒यम् । नाभा॑ । पृ॒थि॒व्याः । अधि॑ ।
जात॑ऽवेदः । नि । धी॒म॒हि॒ । अग्ने॑ । ह॒व्याय॑ । वोळ्ह॑वे ॥इळायाः । त्वा । पदे । वयम् । नाभा । पृथिव्याः । अधि ।
जातऽवेदः । नि । धीमहि । अग्ने । हव्याय । वोळ्हवे ॥íḷāyāḥ ǀ tvā ǀ padé ǀ vayám ǀ nā́bhā ǀ pṛthivyā́ḥ ǀ ádhi ǀ
jā́ta-vedaḥ ǀ ní ǀ dhīmahi ǀ ágne ǀ havyā́ya ǀ vóḷhave ǁiḷāyāḥ ǀ tvā ǀ pade ǀ vayam ǀ nābhā ǀ pṛthivyāḥ ǀ adhi ǀ
jāta-vedaḥ ǀ ni ǀ dhīmahi ǀ agne ǀ havyāya ǀ voḷhave ǁ3.29.4 Aṣṭaka 3.1.32.4Anuvāka 3.2.106
-
Ṛk 5
मंथ॑ता नरः क॒विमद्व॑यंतं॒ प्रचे॑तसम॒मृतं॑ सु॒प्रती॑कं ।
य॒ज्ञस्य॑ के॒तुं प्र॑थ॒मं पु॒रस्ता॑द॒ग्निं न॑रो जनयता सु॒शेवं॑ ॥मन्थता नरः कविम् अद्वयन्तम् प्रचेतसम् अमृतं सुप्रतीकम् |
यज्ञस्य केतुम् प्रथमम् पुरस्ताद् अग्निं नरो जनयता सुशेवम् ||mánthatā naraḥ kavímádvayantam prácetasamamṛ́tam suprátīkam ǀ
yajñásya ketúm prathamám purástādagním naro janayatā suśévam ǁmanthatā naraḥ kavim advayantam pracetasam amṛtaṃ supratīkam |
yajñasya ketum prathamam purastād agniṃ naro janayatā suśevam ||मन्थ॑त । न॒रः॒ । क॒विम् । अद्व॑यन्तम् । प्रऽचे॑तसम् । अ॒मृत॑म् । सु॒ऽप्रती॑कम् ।
य॒ज्ञस्य॑ । के॒तुम् । प्र॒थ॒मम् । पु॒रस्ता॑त् । अ॒ग्निम् । न॒रः॒ । ज॒न॒य॒त॒ । सु॒ऽशेव॑म् ॥मन्थत । नरः । कविम् । अद्वयन्तम् । प्रऽचेतसम् । अमृतम् । सुऽप्रतीकम् ।
यज्ञस्य । केतुम् । प्रथमम् । पुरस्तात् । अग्निम् । नरः । जनयत । सुऽशेवम् ॥mánthata ǀ naraḥ ǀ kavím ǀ ádvayantam ǀ prá-cetasam ǀ amṛ́tam ǀ su-prátīkam ǀ
yajñásya ǀ ketúm ǀ prathamám ǀ purástāt ǀ agním ǀ naraḥ ǀ janayata ǀ su-śévam ǁmanthata ǀ naraḥ ǀ kavim ǀ advayantam ǀ pra-cetasam ǀ amṛtam ǀ su-pratīkam ǀ
yajñasya ǀ ketum ǀ prathamam ǀ purastāt ǀ agnim ǀ naraḥ ǀ janayata ǀ su-śevam ǁ3.29.5 Aṣṭaka 3.1.32.5Anuvāka 3.2.107
-
Ṛk 6
यदी॒ मंथं॑ति बा॒हुभि॒र्वि रो॑च॒तेऽश्वो॒ न वा॒ज्य॑रु॒षो वने॒ष्वा ।
चि॒त्रो न याम॑न्न॒श्विनो॒रनि॑वृतः॒ परि॑ वृण॒क्त्यश्म॑न॒स्तृणा॒ दह॑न् ॥यदी मन्थन्ति बाहुभिर् वि रोचते ऽश्वो न वाज्य् अरुषो वनेष्व् आ |
चित्रो न यामन्न् अश्विनोर् अनिवृतः परि वृणक्त्य् अश्मनस् तृणा दहन् ||yádī mánthanti bāhúbhirví rocaté’śvo ná vājyáruṣó váneṣvā́ ǀ
citró ná yā́mannaśvínoránivṛtaḥ pári vṛṇaktyáśmanastṛ́ṇā dáhan ǁyadī manthanti bāhubhir vi rocate 'śvo na vājy aruṣo vaneṣv ā |
citro na yāmann aśvinor anivṛtaḥ pari vṛṇakty aśmanas tṛṇā dahan ||यदि॑ । मन्थ॑न्ति । बा॒हुऽभिः॑ । वि । रो॒च॒ते॒ । अश्वः॑ । न । वा॒जी । अ॒रु॒षः । वने॑षु । आ ।
चि॒त्रः । न । याम॑न् । अ॒श्विनोः॑ । अनि॑ऽवृतः । परि॑ । वृ॒ण॒क्ति॒ । अश्म॑नः । तृणा॑ । दह॑न् ॥यदि । मन्थन्ति । बाहुऽभिः । वि । रोचते । अश्वः । न । वाजी । अरुषः । वनेषु । आ ।
चित्रः । न । यामन् । अश्विनोः । अनिऽवृतः । परि । वृणक्ति । अश्मनः । तृणा । दहन् ॥yádi ǀ mánthanti ǀ bāhú-bhiḥ ǀ ví ǀ rocate ǀ áśvaḥ ǀ ná ǀ vājī́ ǀ aruṣáḥ ǀ váneṣu ǀ ā́ ǀ
citráḥ ǀ ná ǀ yā́man ǀ aśvínoḥ ǀ áni-vṛtaḥ ǀ pári ǀ vṛṇakti ǀ áśmanaḥ ǀ tṛ́ṇā ǀ dáhan ǁyadi ǀ manthanti ǀ bāhu-bhiḥ ǀ vi ǀ rocate ǀ aśvaḥ ǀ na ǀ vājī ǀ aruṣaḥ ǀ vaneṣu ǀ ā ǀ
citraḥ ǀ na ǀ yāman ǀ aśvinoḥ ǀ ani-vṛtaḥ ǀ pari ǀ vṛṇakti ǀ aśmanaḥ ǀ tṛṇā ǀ dahan ǁ3.29.6 Aṣṭaka 3.1.33.1Anuvāka 3.2.108
-
Ṛk 7
जा॒तो अ॒ग्नी रो॑चते॒ चेकि॑तानो वा॒जी विप्रः॑ कविश॒स्तः सु॒दानुः॑ ।
यं दे॒वास॒ ईड्यं॑ विश्व॒विदं॑ हव्य॒वाह॒मद॑धुरध्व॒रेषु॑ ॥जातो अग्नी रोचते चेकितानो वाजी विप्रः कविशस्तः सुदानुः |
यं देवास ईड्यं विश्वविदं हव्यवाहम् अदधुर् अध्वरेषु ||jātó agnī́ rocate cékitāno vājī́ vípraḥ kaviśastáḥ sudā́nuḥ ǀ
yám devā́sa ī́ḍyam viśvavídam havyavā́hamádadhuradhvaréṣu ǁjāto agnī rocate cekitāno vājī vipraḥ kaviśastaḥ sudānuḥ |
yaṃ devāsa īḍyaṃ viśvavidaṃ havyavāham adadhur adhvareṣu ||जा॒तः । अ॒ग्निः । रो॒च॒ते॒ । चेकि॑तानः । वा॒जी । विप्रः॑ । क॒वि॒ऽश॒स्तः । सु॒ऽदानुः॑ ।
यम् । दे॒वासः॑ । ईड्य॑म् । वि॒श्व॒ऽविद॑म् । ह॒व्य॒ऽवाह॑म् । अद॑धुः । अ॒ध्व॒रेषु॑ ॥जातः । अग्निः । रोचते । चेकितानः । वाजी । विप्रः । कविऽशस्तः । सुऽदानुः ।
यम् । देवासः । ईड्यम् । विश्वऽविदम् । हव्यऽवाहम् । अदधुः । अध्वरेषु ॥jātáḥ ǀ agníḥ ǀ rocate ǀ cékitānaḥ ǀ vājī́ ǀ vípraḥ ǀ kavi-śastáḥ ǀ su-dā́nuḥ ǀ
yám ǀ devā́saḥ ǀ ī́ḍyam ǀ viśva-vídam ǀ havya-vā́ham ǀ ádadhuḥ ǀ adhvaréṣu ǁjātaḥ ǀ agniḥ ǀ rocate ǀ cekitānaḥ ǀ vājī ǀ vipraḥ ǀ kavi-śastaḥ ǀ su-dānuḥ ǀ
yam ǀ devāsaḥ ǀ īḍyam ǀ viśva-vidam ǀ havya-vāham ǀ adadhuḥ ǀ adhvareṣu ǁ3.29.7 Aṣṭaka 3.1.33.2Anuvāka 3.2.109
-
Ṛk 8
सीद॑ होतः॒ स्व उ॑ लो॒के चि॑कि॒त्वान्त्सा॒दया॑ य॒ज्ञं सु॑कृ॒तस्य॒ योनौ॑ ।
दे॒वा॒वीर्दे॒वान्ह॒विषा॑ यजा॒स्यग्ने॑ बृ॒हद्यज॑माने॒ वयो॑ धाः ॥सीद होतः स्व उ लोके चिकित्वान् सादया यज्ञं सुकृतस्य योनौ |
देवावीर् देवान् हविषा यजास्य् अग्ने बृहद् यजमाने वयो धाः ||sī́da hotaḥ svá u loké cikitvā́ntsādáyā yajñám sukṛtásya yónau ǀ
devāvī́rdevā́nhavíṣā yajāsyágne bṛhádyájamāne váyo dhāḥ ǁsīda hotaḥ sva u loke cikitvān sādayā yajñaṃ sukṛtasya yonau |
devāvīr devān haviṣā yajāsy agne bṛhad yajamāne vayo dhāḥ ||सीद॑ । हो॒त॒रिति॑ । स्वे । ऊं॒ इति॑ । लो॒के । चि॒कि॒त्वान् । सा॒दय॑ । य॒ज्ञम् । सु॒ऽकृ॒तस्य॑ । योनौ॑ ।
दे॒व॒ऽअ॒वीः । दे॒वान् । ह॒विषा॑ । य॒जा॒सि॒ । अग्ने॑ । बृ॒हत् । यज॑माने । वयः॑ । धाः॒ ॥सीद । होतरिति । स्वे । ऊं इति । लोके । चिकित्वान् । सादय । यज्ञम् । सुऽकृतस्य । योनौ ।
देवऽअवीः । देवान् । हविषा । यजासि । अग्ने । बृहत् । यजमाने । वयः । धाः ॥sī́da ǀ hotaríti ǀ své ǀ ūṃ íti ǀ loké ǀ cikitvā́n ǀ sādáya ǀ yajñám ǀ su-kṛtásya ǀ yónau ǀ
deva-avī́ḥ ǀ devā́n ǀ havíṣā ǀ yajāsi ǀ ágne ǀ bṛhát ǀ yájamāne ǀ váyaḥ ǀ dhāḥ ǁsīda ǀ hotariti ǀ sve ǀ ūṃ iti ǀ loke ǀ cikitvān ǀ sādaya ǀ yajñam ǀ su-kṛtasya ǀ yonau ǀ
deva-avīḥ ǀ devān ǀ haviṣā ǀ yajāsi ǀ agne ǀ bṛhat ǀ yajamāne ǀ vayaḥ ǀ dhāḥ ǁ3.29.8 Aṣṭaka 3.1.33.3Anuvāka 3.2.110
-
Ṛk 9
कृ॒णोत॑ धू॒मं वृष॑णं सखा॒योऽस्रे॑धंत इतन॒ वाज॒मच्छ॑ ।
अ॒यम॒ग्निः पृ॑तना॒षाट् सु॒वीरो॒ येन॑ दे॒वासो॒ अस॑हंत॒ दस्यू॑न् ॥कृणोत धूमं वृषणं सखायो ऽस्रेधन्त इतन वाजम् अच्छ |
अयम् अग्निः पृतनाषाट् सुवीरो येन देवासो असहन्त दस्यून् ||kṛṇóta dhūmám vṛ́ṣaṇam sakhāyó’sredhanta itana vā́jamáccha ǀ
ayámagníḥ pṛtanāṣā́ṭ suvī́ro yéna devā́so ásahanta dásyūn ǁkṛṇota dhūmaṃ vṛṣaṇaṃ sakhāyo 'sredhanta itana vājam accha |
ayam agniḥ pṛtanāṣāṭ suvīro yena devāso asahanta dasyūn ||कृ॒णोत॑ । धू॒मम् । वृष॑णम् । स॒खा॒यः॒ । अस्रे॑धन्तः । इ॒त॒न॒ । वाज॑म् । अच्छ॑ ।
अ॒यम् । अ॒ग्निः । पृ॒त॒ना॒षाट् । सु॒ऽवीरः॑ । येन॑ । दे॒वासः॑ । अस॑हन्त । दस्यू॑न् ॥कृणोत । धूमम् । वृषणम् । सखायः । अस्रेधन्तः । इतन । वाजम् । अच्छ ।
अयम् । अग्निः । पृतनाषाट् । सुऽवीरः । येन । देवासः । असहन्त । दस्यून् ॥kṛṇóta ǀ dhūmám ǀ vṛ́ṣaṇam ǀ sakhāyaḥ ǀ ásredhantaḥ ǀ itana ǀ vā́jam ǀ áccha ǀ
ayám ǀ agníḥ ǀ pṛtanāṣā́ṭ ǀ su-vī́raḥ ǀ yéna ǀ devā́saḥ ǀ ásahanta ǀ dásyūn ǁkṛṇota ǀ dhūmam ǀ vṛṣaṇam ǀ sakhāyaḥ ǀ asredhantaḥ ǀ itana ǀ vājam ǀ accha ǀ
ayam ǀ agniḥ ǀ pṛtanāṣāṭ ǀ su-vīraḥ ǀ yena ǀ devāsaḥ ǀ asahanta ǀ dasyūn ǁ3.29.9 Aṣṭaka 3.1.33.4Anuvāka 3.2.111
-
Ṛk 10
अ॒यं ते॒ योनि॑र्ऋ॒त्वियो॒ यतो॑ जा॒तो अरो॑चथाः ।
तं जा॒नन्न॑ग्न॒ आ सी॒दाथा॑ नो वर्धया॒ गिरः॑ ॥अयं ते योनिर् ऋत्वियो यतो जातो अरोचथाः |
तं जानन्न् अग्न आ सीदाथा नो वर्धया गिरः ||ayám te yónirṛtvíyo yáto jātó árocathāḥ ǀ
tám jānánnagna ā́ sīdā́thā no vardhayā gíraḥ ǁayaṃ te yonir ṛtviyo yato jāto arocathāḥ |
taṃ jānann agna ā sīdāthā no vardhayā giraḥ ||अ॒यम् । ते॒ । योनिः॑ । ऋ॒त्वियः॑ । यतः॑ । जा॒तः । अरो॑चथाः ।
तम् । जा॒नन् । अ॒ग्ने॒ । आ । सी॒द॒ । अथ॑ । नः॒ । व॒र्ध॒य॒ । गिरः॑ ॥अयम् । ते । योनिः । ऋत्वियः । यतः । जातः । अरोचथाः ।
तम् । जानन् । अग्ने । आ । सीद । अथ । नः । वर्धय । गिरः ॥ayám ǀ te ǀ yóniḥ ǀ ṛtvíyaḥ ǀ yátaḥ ǀ jātáḥ ǀ árocathāḥ ǀ
tám ǀ jānán ǀ agne ǀ ā́ ǀ sīda ǀ átha ǀ naḥ ǀ vardhaya ǀ gíraḥ ǁayam ǀ te ǀ yoniḥ ǀ ṛtviyaḥ ǀ yataḥ ǀ jātaḥ ǀ arocathāḥ ǀ
tam ǀ jānan ǀ agne ǀ ā ǀ sīda ǀ atha ǀ naḥ ǀ vardhaya ǀ giraḥ ǁ3.29.10 Aṣṭaka 3.1.33.5Anuvāka 3.2.112
-
Ṛk 11
तनू॒नपा॑दुच्यते॒ गर्भ॑ आसु॒रो नरा॒शंसो॑ भवति॒ यद्वि॒जाय॑ते ।
मा॒त॒रिश्वा॒ यदमि॑मीत मा॒तरि॒ वात॑स्य॒ सर्गो॑ अभव॒त्सरी॑मणि ॥तनूनपाद् उच्यते गर्भ आसुरो नराशंसो भवति यद् विजायते |
मातरिश्वा यद् अमिमीत मातरि वातस्य सर्गो अभवत् सरीमणि ||tánūnápāducyate gárbha āsuró nárāśáṃso bhavati yádvijā́yate ǀ
mātaríśvā yádámimīta mātári vā́tasya sárgo abhavatsárīmaṇi ǁtanūnapād ucyate garbha āsuro narāśaṃso bhavati yad vijāyate |
mātariśvā yad amimīta mātari vātasya sargo abhavat sarīmaṇi ||तनू॒३॒॑ऽनपा॑त् । उ॒च्य॒ते॒ । गर्भः॑ । आ॒सु॒रः । नरा॒शंसः॑ । भ॒व॒ति॒ । यत् । वि॒ऽजाय॑ते ।
मा॒त॒रिश्वा॑ । यत् । अमि॑मीत । मा॒तरि॑ । वात॑स्य । सर्गः॑ । अ॒भ॒व॒त् । सरी॑मणि ॥तनूऽनपात् । उच्यते । गर्भः । आसुरः । नराशंसः । भवति । यत् । विऽजायते ।
मातरिश्वा । यत् । अमिमीत । मातरि । वातस्य । सर्गः । अभवत् । सरीमणि ॥tanū́-nápāt ǀ ucyate ǀ gárbhaḥ ǀ āsuráḥ ǀ nárāśáṃsaḥ ǀ bhavati ǀ yát ǀ vi-jā́yate ǀ
mātaríśvā ǀ yát ǀ ámimīta ǀ mātári ǀ vā́tasya ǀ sárgaḥ ǀ abhavat ǀ sárīmaṇi ǁtanū-napāt ǀ ucyate ǀ garbhaḥ ǀ āsuraḥ ǀ narāśaṃsaḥ ǀ bhavati ǀ yat ǀ vi-jāyate ǀ
mātariśvā ǀ yat ǀ amimīta ǀ mātari ǀ vātasya ǀ sargaḥ ǀ abhavat ǀ sarīmaṇi ǁ3.29.11 Aṣṭaka 3.1.34.1Anuvāka 3.2.113
-
Ṛk 12
सु॒नि॒र्मथा॒ निर्म॑थितः सुनि॒धा निहि॑तः क॒विः ।
अग्ने॑ स्वध्व॒रा कृ॑णु दे॒वांदे॑वय॒ते य॑ज ॥सुनिर्मथा निर्मथितः सुनिधा निहितः कविः |
अग्ने स्वध्वरा कृणु देवान् देवयते यज ||sunirmáthā nírmathitaḥ sunidhā́ níhitaḥ kavíḥ ǀ
ágne svadhvarā́ kṛṇu devā́ndevayaté yaja ǁsunirmathā nirmathitaḥ sunidhā nihitaḥ kaviḥ |
agne svadhvarā kṛṇu devān devayate yaja ||सु॒निः॒ऽमथा॑ । निःऽम॑थितः । सु॒ऽनि॒धा । निऽहि॑तः । क॒विः ।
अग्ने॑ । सु॒ऽअ॒ध्व॒रा । कृ॒णु॒ । दे॒वान् । दे॒व॒ऽय॒ते । य॒ज॒ ॥सुनिःऽमथा । निःऽमथितः । सुऽनिधा । निऽहितः । कविः ।
अग्ने । सुऽअध्वरा । कृणु । देवान् । देवऽयते । यज ॥suniḥ-máthā ǀ níḥ-mathitaḥ ǀ su-nidhā́ ǀ ní-hitaḥ ǀ kavíḥ ǀ
ágne ǀ su-adhvarā́ ǀ kṛṇu ǀ devā́n ǀ deva-yaté ǀ yaja ǁsuniḥ-mathā ǀ niḥ-mathitaḥ ǀ su-nidhā ǀ ni-hitaḥ ǀ kaviḥ ǀ
agne ǀ su-adhvarā ǀ kṛṇu ǀ devān ǀ deva-yate ǀ yaja ǁ3.29.12 Aṣṭaka 3.1.34.2Anuvāka 3.2.114
-
Ṛk 13
अजी॑जनन्न॒मृतं॒ मर्त्या॑सोऽस्रे॒माणं॑ त॒रणिं॑ वी॒ळुजं॑भं ।
दश॒ स्वसा॑रो अ॒ग्रुवः॑ समी॒चीः पुमां॑सं जा॒तम॒भि सं र॑भंते ॥अजीजनन्न् अमृतम् मर्त्यासो ऽस्रेमाणं तरणिं वीऌउजम्भम् |
दश स्वसारो अग्रुवः समीचीः पुमांसं जातम् अभि सं रभन्ते ||ájījanannamṛ́tam mártyāso’sremā́ṇam taráṇim vīḷújambham ǀ
dáśa svásāro agrúvaḥ samīcī́ḥ púmāṃsam jātámabhí sám rabhante ǁajījanann amṛtam martyāso 'sremāṇaṃ taraṇiṃ vīḷujambham |
daśa svasāro agruvaḥ samīcīḥ pumāṃsaṃ jātam abhi saṃ rabhante ||अजी॑जनन् । अ॒मृत॑म् । मर्त्या॑सः । अ॒स्रे॒माण॑म् । त॒रणि॑म् । वी॒ळुऽज॑म्भम् ।
दश॑ । स्वसा॑रः । अ॒ग्रुवः॑ । स॒म्ऽई॒चीः । पुमां॑सम् । जा॒तम् । अ॒भि । सम् । र॒भ॒न्ते॒ ॥अजीजनन् । अमृतम् । मर्त्यासः । अस्रेमाणम् । तरणिम् । वीळुऽजम्भम् ।
दश । स्वसारः । अग्रुवः । सम्ऽईचीः । पुमांसम् । जातम् । अभि । सम् । रभन्ते ॥ájījanan ǀ amṛ́tam ǀ mártyāsaḥ ǀ asremā́ṇam ǀ taráṇim ǀ vīḷú-jambham ǀ
dáśa ǀ svásāraḥ ǀ agrúvaḥ ǀ sam-īcī́ḥ ǀ púmāṃsam ǀ jātám ǀ abhí ǀ sám ǀ rabhante ǁajījanan ǀ amṛtam ǀ martyāsaḥ ǀ asremāṇam ǀ taraṇim ǀ vīḷu-jambham ǀ
daśa ǀ svasāraḥ ǀ agruvaḥ ǀ sam-īcīḥ ǀ pumāṃsam ǀ jātam ǀ abhi ǀ sam ǀ rabhante ǁ3.29.13 Aṣṭaka 3.1.34.3Anuvāka 3.2.115
-
Ṛk 14
प्र स॒प्तहो॑ता सन॒काद॑रोचत मा॒तुरु॒पस्थे॒ यदशो॑च॒दूध॑नि ।
न नि मि॑षति सु॒रणो॑ दि॒वेदि॑वे॒ यदसु॑रस्य ज॒ठरा॒दजा॑यत ॥प्र सप्तहोता सनकाद् अरोचत मातुर् उपस्थे यद् अशोचद् ऊधनि |
न नि मिषति सुरणो दिवे-दिवे यद् असुरस्य जठराद् अजायत ||prá saptáhotā sanakā́darocata mātúrupásthe yádáśocadū́dhani ǀ
ná ní miṣati suráṇo divédive yádásurasya jaṭhárādájāyata ǁpra saptahotā sanakād arocata mātur upasthe yad aśocad ūdhani |
na ni miṣati suraṇo dive-dive yad asurasya jaṭharād ajāyata ||प्र । स॒प्तऽहो॑ता । स॒न॒कात् । अ॒रो॒च॒त॒ । मा॒तुः । उ॒पऽस्थे॑ । यत् । अशो॑चत् । ऊध॑नि ।
न । नि । मि॒ष॒ति॒ । सु॒ऽरणः॑ । दि॒वेऽदि॑वे । यत् । असु॑रस्य । ज॒ठरा॑त् । अजा॑यत ॥प्र । सप्तऽहोता । सनकात् । अरोचत । मातुः । उपऽस्थे । यत् । अशोचत् । ऊधनि ।
न । नि । मिषति । सुऽरणः । दिवेऽदिवे । यत् । असुरस्य । जठरात् । अजायत ॥prá ǀ saptá-hotā ǀ sanakā́t ǀ arocata ǀ mātúḥ ǀ upá-sthe ǀ yát ǀ áśocat ǀ ū́dhani ǀ
ná ǀ ní ǀ miṣati ǀ su-ráṇaḥ ǀ divé-dive ǀ yát ǀ ásurasya ǀ jaṭhárāt ǀ ájāyata ǁpra ǀ sapta-hotā ǀ sanakāt ǀ arocata ǀ mātuḥ ǀ upa-sthe ǀ yat ǀ aśocat ǀ ūdhani ǀ
na ǀ ni ǀ miṣati ǀ su-raṇaḥ ǀ dive-dive ǀ yat ǀ asurasya ǀ jaṭharāt ǀ ajāyata ǁ3.29.14 Aṣṭaka 3.1.34.4Anuvāka 3.2.116
-
Ṛk 15
अ॒मि॒त्रा॒युधो॑ म॒रुता॑मिव प्र॒याः प्र॑थम॒जा ब्रह्म॑णो॒ विश्व॒मिद्वि॑दुः ।
द्यु॒म्नव॒द्ब्रह्म॑ कुशि॒कास॒ एरि॑र॒ एक॑एको॒ दमे॑ अ॒ग्निं समी॑धिरे ॥अमित्रायुधो मरुताम् इव प्रयाः प्रथमजा ब्रह्मणो विश्वम् इद् विदुः |
द्युम्नवद् ब्रह्म कुशिकास एरिर एक-एको दमे अग्निं सम् ईधिरे ||amitrāyúdho marútāmiva prayā́ḥ prathamajā́ bráhmaṇo víśvamídviduḥ ǀ
dyumnávadbráhma kuśikā́sa érira ékaeko dáme agním sámīdhire ǁamitrāyudho marutām iva prayāḥ prathamajā brahmaṇo viśvam id viduḥ |
dyumnavad brahma kuśikāsa erira eka-eko dame agniṃ sam īdhire ||अ॒मि॒त्र॒ऽयुधः॑ । म॒रुता॑म्ऽइव । प्र॒ऽयाः । प्र॒थ॒म॒ऽजाः । ब्रह्म॑णः । विश्व॑म् । इत् । वि॒दुः॒ ।
द्यु॒म्नऽव॑त् । ब्रह्म॑ । कु॒शि॒कासः॑ । आ । ई॒रि॒रे॒ । एकः॑ऽएकः । दमे॑ । अ॒ग्निम् । सम् । ई॒धि॒रे॒ ॥अमित्रऽयुधः । मरुताम्ऽइव । प्रऽयाः । प्रथमऽजाः । ब्रह्मणः । विश्वम् । इत् । विदुः ।
द्युम्नऽवत् । ब्रह्म । कुशिकासः । आ । ईरिरे । एकःऽएकः । दमे । अग्निम् । सम् । ईधिरे ॥amitra-yúdhaḥ ǀ marútām-iva ǀ pra-yā́ḥ ǀ prathama-jā́ḥ ǀ bráhmaṇaḥ ǀ víśvam ǀ ít ǀ viduḥ ǀ
dyumná-vat ǀ bráhma ǀ kuśikā́saḥ ǀ ā́ ǀ īrire ǀ ékaḥ-ekaḥ ǀ dáme ǀ agním ǀ sám ǀ īdhire ǁamitra-yudhaḥ ǀ marutām-iva ǀ pra-yāḥ ǀ prathama-jāḥ ǀ brahmaṇaḥ ǀ viśvam ǀ it ǀ viduḥ ǀ
dyumna-vat ǀ brahma ǀ kuśikāsaḥ ǀ ā ǀ īrire ǀ ekaḥ-ekaḥ ǀ dame ǀ agnim ǀ sam ǀ īdhire ǁ3.29.15 Aṣṭaka 3.1.34.5Anuvāka 3.2.117
-
Ṛk 16
यद॒द्य त्वा॑ प्रय॒ति य॒ज्ञे अ॒स्मिन्होत॑श्चिकि॒त्वोऽवृ॑णीमही॒ह ।
ध्रु॒वम॑या ध्रु॒वमु॒ताश॑मिष्ठाः प्रजा॒नन्वि॒द्वाँ उप॑ याहि॒ सोमं॑ ॥यद् अद्य त्वा प्रयति यज्ञे अस्मिन् होतश् चिकित्वो ऽवृणीमहीह |
ध्रुवम् अया ध्रुवम् उताशमिष्ठाः प्रजानन् विद्वां उप याहि सोमम् ||yádadyá tvā prayatí yajñé asmínhótaścikitvó’vṛṇīmahīhá ǀ
dhruvámayā dhruvámutā́śamiṣṭhāḥ prajānánvidvā́m̐ úpa yāhi sómam ǁyad adya tvā prayati yajñe asmin hotaś cikitvo 'vṛṇīmahīha |
dhruvam ayā dhruvam utāśamiṣṭhāḥ prajānan vidvāṃ upa yāhi somam ||यत् । अ॒द्य । त्वा॒ । प्र॒ऽय॒ति । य॒ज्ञे । अ॒स्मिन् । होत॒रिति॑ । चि॒कि॒त्वः॒ । अवृ॑णीमहि । इ॒ह ।
ध्रु॒वम् । अ॒याः॒ । ध्रु॒वम् । उ॒त । अ॒श॒मि॒ष्ठाः॒ । प्र॒ऽजा॒नन् । वि॒द्वान् । उप॑ । या॒हि॒ । सोम॑म् ॥यत् । अद्य । त्वा । प्रऽयति । यज्ञे । अस्मिन् । होतरिति । चिकित्वः । अवृणीमहि । इह ।
ध्रुवम् । अयाः । ध्रुवम् । उत । अशमिष्ठाः । प्रऽजानन् । विद्वान् । उप । याहि । सोमम् ॥yát ǀ adyá ǀ tvā ǀ pra-yatí ǀ yajñé ǀ asmín ǀ hótaríti ǀ cikitvaḥ ǀ ávṛṇīmahi ǀ ihá ǀ
dhruvám ǀ ayāḥ ǀ dhruvám ǀ utá ǀ aśamiṣṭhāḥ ǀ pra-jānán ǀ vidvā́n ǀ úpa ǀ yāhi ǀ sómam ǁyat ǀ adya ǀ tvā ǀ pra-yati ǀ yajñe ǀ asmin ǀ hotariti ǀ cikitvaḥ ǀ avṛṇīmahi ǀ iha ǀ
dhruvam ǀ ayāḥ ǀ dhruvam ǀ uta ǀ aśamiṣṭhāḥ ǀ pra-jānan ǀ vidvān ǀ upa ǀ yāhi ǀ somam ǁ3.29.16 Aṣṭaka 3.1.34.6Anuvāka 3.2.118
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.