Ṛk 3.29.15
Saṃhitā
अ॒मि॒त्रा॒युधो॑ म॒रुता॑मिव प्र॒याः प्र॑थम॒जा ब्रह्म॑णो॒ विश्व॒मिद्वि॑दुः ।
द्यु॒म्नव॒द्ब्रह्म॑ कुशि॒कास॒ एरि॑र॒ एक॑एको॒ दमे॑ अ॒ग्निं समी॑धिरे ॥
अमित्रायुधो मरुताम् इव प्रयाः प्रथमजा ब्रह्मणो विश्वम् इद् विदुः |
द्युम्नवद् ब्रह्म कुशिकास एरिर एक-एको दमे अग्निं सम् ईधिरे ||
amitrāyúdho marútāmiva prayā́ḥ prathamajā́ bráhmaṇo víśvamídviduḥ ǀ
dyumnávadbráhma kuśikā́sa érira ékaeko dáme agním sámīdhire ǁ
amitrāyudho marutām iva prayāḥ prathamajā brahmaṇo viśvam id viduḥ |
dyumnavad brahma kuśikāsa erira eka-eko dame agniṃ sam īdhire ||
Padapāṭha
अ॒मि॒त्र॒ऽयुधः॑ । म॒रुता॑म्ऽइव । प्र॒ऽयाः । प्र॒थ॒म॒ऽजाः । ब्रह्म॑णः । विश्व॑म् । इत् । वि॒दुः॒ ।
द्यु॒म्नऽव॑त् । ब्रह्म॑ । कु॒शि॒कासः॑ । आ । ई॒रि॒रे॒ । एकः॑ऽएकः । दमे॑ । अ॒ग्निम् । सम् । ई॒धि॒रे॒ ॥
अमित्रऽयुधः । मरुताम्ऽइव । प्रऽयाः । प्रथमऽजाः । ब्रह्मणः । विश्वम् । इत् । विदुः ।
द्युम्नऽवत् । ब्रह्म । कुशिकासः । आ । ईरिरे । एकःऽएकः । दमे । अग्निम् । सम् । ईधिरे ॥
amitra-yúdhaḥ ǀ marútām-iva ǀ pra-yā́ḥ ǀ prathama-jā́ḥ ǀ bráhmaṇaḥ ǀ víśvam ǀ ít ǀ viduḥ ǀ
dyumná-vat ǀ bráhma ǀ kuśikā́saḥ ǀ ā́ ǀ īrire ǀ ékaḥ-ekaḥ ǀ dáme ǀ agním ǀ sám ǀ īdhire ǁ
amitra-yudhaḥ ǀ marutām-iva ǀ pra-yāḥ ǀ prathama-jāḥ ǀ brahmaṇaḥ ǀ viśvam ǀ it ǀ viduḥ ǀ
dyumna-vat ǀ brahma ǀ kuśikāsaḥ ǀ ā ǀ īrire ǀ ekaḥ-ekaḥ ǀ dame ǀ agnim ǀ sam ǀ īdhire ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 03.029.15
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.1.34.05
- Maṇḍala · Anuvāka · Ṛk
- 03.02.117
- Devatā देवता
- 1-4, 6-16: Agni; 5: Agni Or The Priests
- Ṛṣi ऋषि
- Viśvāmitra Gāthina
- Chandas छन्दस्
- Triṣṭubh, Anuṣṭubh, Jagatī
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.