Ṛk 3.29.1
Saṃhitā
अस्ती॒दम॑धि॒मंथ॑न॒मस्ति॑ प्र॒जन॑नं कृ॒तं ।
ए॒तां वि॒श्पत्नी॒मा भ॑रा॒ग्निं मं॑थाम पू॒र्वथा॑ ॥
अस्तीदम् अधिमन्थनम् अस्ति प्रजननं कृतम् |
एतां विश्पत्नीम् आ भराग्निम् मन्थाम पूर्वथा ||
ástīdámadhimánthanamásti prajánanam kṛtám ǀ
etā́m viśpátnīmā́ bharāgním manthāma pūrváthā ǁ
astīdam adhimanthanam asti prajananaṃ kṛtam |
etāṃ viśpatnīm ā bharāgnim manthāma pūrvathā ||
Padapāṭha
अस्ति॑ । इ॒दम् । अ॒धि॒ऽमन्थ॑नम् । अस्ति॑ । प्र॒ऽजन॑नम् । कृ॒तम् ।
ए॒ताम् । वि॒श्पत्नी॑म् । आ । भ॒र॒ । अ॒ग्निम् । म॒न्था॒म॒ । पू॒र्वऽथा॑ ॥
अस्ति । इदम् । अधिऽमन्थनम् । अस्ति । प्रऽजननम् । कृतम् ।
एताम् । विश्पत्नीम् । आ । भर । अग्निम् । मन्थाम । पूर्वऽथा ॥
ásti ǀ idám ǀ adhi-mánthanam ǀ ásti ǀ pra-jánanam ǀ kṛtám ǀ
etā́m ǀ viśpátnīm ǀ ā́ ǀ bhara ǀ agním ǀ manthāma ǀ pūrvá-thā ǁ
asti ǀ idam ǀ adhi-manthanam ǀ asti ǀ pra-jananam ǀ kṛtam ǀ
etām ǀ viśpatnīm ǀ ā ǀ bhara ǀ agnim ǀ manthāma ǀ pūrva-thā ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 03.029.01
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.1.32.01
- Maṇḍala · Anuvāka · Ṛk
- 03.02.103
- Devatā देवता
- 1-4, 6-16: Agni; 5: Agni Or The Priests
- Ṛṣi ऋषि
- Viśvāmitra Gāthina
- Chandas छन्दस्
- Triṣṭubh, Anuṣṭubh, Jagatī
- Svara स्वरः
- गान्धारः
Text and interpretations from the Ṛgveda database of theveda.org.in.