Sūkta 6
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Viśvāmitra Gāthina
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles nicṛttriṣṭup (3, 4, 8); virāṭtrisṭup (1, 5); triṣṭup (2, 7); bhurikpaṅkti (6, 11); svarāṭpaṅkti (9); bhuriktriṣṭup (10)
2nd set of styles triṣṭubh
-
Ṛk 1
प्र का॑रवो मन॒ना व॒च्यमा॑ना देव॒द्रीचीं॑ नयत देव॒यंतः॑ ।
द॒क्षि॒णा॒वाड्वा॒जिनी॒ प्राच्ये॑ति ह॒विर्भरं॑त्य॒ग्नये॑ घृ॒ताची॑ ॥प्र कारवो मनना वच्यमाना देवद्रीचीं नयत देवयन्तः |
दक्षिणावाड् वाजिनी प्राच्य् एति हविर् भरन्त्य् अग्नये घृताची ||prá kāravo mananā́ vacyámānā devadrī́cīm nayata devayántaḥ ǀ
dakṣiṇāvā́ḍvājínī prā́cyeti havírbhárantyagnáye ghṛtā́cī ǁpra kāravo mananā vacyamānā devadrīcīṃ nayata devayantaḥ |
dakṣiṇāvāḍ vājinī prācy eti havir bharanty agnaye ghṛtācī ||प्र । का॒र॒वः॒ । म॒न॒ना । व॒च्यमा॑नाः । दे॒व॒द्रीची॑न् । न॒य॒त॒ । दे॒व॒ऽयन्तः॑ ।
द॒क्षि॒णा॒ऽवाट् । वा॒जिनी॑ । प्राची॑ । ए॒ति॒ । ह॒विः । भर॑न्ती । अ॒ग्नये॑ । घृ॒ताची॑ ॥प्र । कारवः । मनना । वच्यमानाः । देवद्रीचीन् । नयत । देवऽयन्तः ।
दक्षिणाऽवाट् । वाजिनी । प्राची । एति । हविः । भरन्ती । अग्नये । घृताची ॥prá ǀ kāravaḥ ǀ mananā́ ǀ vacyámānāḥ ǀ devadrī́cīn ǀ nayata ǀ deva-yántaḥ ǀ
dakṣiṇā-vā́ṭ ǀ vājínī ǀ prā́cī ǀ eti ǀ havíḥ ǀ bhárantī ǀ agnáye ǀ ghṛtā́cī ǁpra ǀ kāravaḥ ǀ mananā ǀ vacyamānāḥ ǀ devadrīcīn ǀ nayata ǀ deva-yantaḥ ǀ
dakṣiṇā-vāṭ ǀ vājinī ǀ prācī ǀ eti ǀ haviḥ ǀ bharantī ǀ agnaye ǀ ghṛtācī ǁ3.6.1 Aṣṭaka 2.8.26.1Anuvāka 3.1.72
-
Ṛk 2
आ रोद॑सी अपृणा॒ जाय॑मान उ॒त प्र रि॑क्था॒ अध॒ नु प्र॑यज्यो ।
दि॒वश्चि॑दग्ने महि॒ना पृ॑थि॒व्या व॒च्यंतां॑ ते॒ वह्न॑यः स॒प्तजि॑ह्वाः ॥आ रोदसी अपृणा जायमान उत प्र रिक्था अध नु प्रयज्यो |
दिवश् चिद् अग्ने महिना पृथिव्या वच्यन्तां ते वह्नयः सप्तजिह्वाः ||ā́ ródasī apṛṇā jā́yamāna utá prá rikthā ádha nú prayajyo ǀ
diváścidagne mahinā́ pṛthivyā́ vacyántām te váhnayaḥ saptájihvāḥ ǁā rodasī apṛṇā jāyamāna uta pra rikthā adha nu prayajyo |
divaś cid agne mahinā pṛthivyā vacyantāṃ te vahnayaḥ saptajihvāḥ ||आ । रोद॑सी॒ इति॑ । अ॒पृ॒णाः॒ । जाय॑मानः । उ॒त । प्र । रि॒क्थाः॒ । अध॑ । नु । प्र॒य॒ज्यो॒ इति॑ प्रऽयज्यो ।
दे॒वः । चि॒त् । अ॒ग्ने॒ । म॒हि॒ना । पृ॒थि॒व्याः । व॒च्यन्ता॑म् । ते॒ । वह्न॑यः । स॒प्तऽजि॑ह्वाः ॥आ । रोदसी इति । अपृणाः । जायमानः । उत । प्र । रिक्थाः । अध । नु । प्रयज्यो इति प्रऽयज्यो ।
देवः । चित् । अग्ने । महिना । पृथिव्याः । वच्यन्ताम् । ते । वह्नयः । सप्तऽजिह्वाः ॥ā́ ǀ ródasī íti ǀ apṛṇāḥ ǀ jā́yamānaḥ ǀ utá ǀ prá ǀ rikthāḥ ǀ ádha ǀ nú ǀ prayajyo íti pra-yajyo ǀ
deváḥ ǀ cit ǀ agne ǀ mahinā́ ǀ pṛthivyā́ḥ ǀ vacyántām ǀ te ǀ váhnayaḥ ǀ saptá-jihvāḥ ǁā ǀ rodasī iti ǀ apṛṇāḥ ǀ jāyamānaḥ ǀ uta ǀ pra ǀ rikthāḥ ǀ adha ǀ nu ǀ prayajyo iti pra-yajyo ǀ
devaḥ ǀ cit ǀ agne ǀ mahinā ǀ pṛthivyāḥ ǀ vacyantām ǀ te ǀ vahnayaḥ ǀ sapta-jihvāḥ ǁ3.6.2 Aṣṭaka 2.8.26.2Anuvāka 3.1.73
-
Ṛk 3
द्यौश्च॑ त्वा पृथि॒वी य॒ज्ञिया॑सो॒ नि होता॑रं सादयंते॒ दमा॑य ।
यदी॒ विशो॒ मानु॑षीर्देव॒यंतीः॒ प्रय॑स्वती॒रीळ॑ते शु॒क्रम॒र्चिः ॥द्यौश् च त्वा पृथिवी यज्ञियासो नि होतारं सादयन्ते दमाय |
यदी विशो मानुषीर् देवयन्तीः प्रयस्वतीर् ईऌअते शुक्रम् अर्चिः ||dyáuśca tvā pṛthivī́ yajñíyāso ní hótāram sādayante dámāya ǀ
yádī víśo mā́nuṣīrdevayántīḥ práyasvatīrī́ḷate śukrámarcíḥ ǁdyauś ca tvā pṛthivī yajñiyāso ni hotāraṃ sādayante damāya |
yadī viśo mānuṣīr devayantīḥ prayasvatīr īḷate śukram arciḥ ||द्यौः । च॒ । त्वा॒ । पृ॒थि॒वी । य॒ज्ञिया॑सः । नि । होता॑रम् । सा॒द॒य॒न्ते॒ । दमा॑य ।
यदि॑ । विशः॑ । मानु॑षीः । दे॒व॒ऽयन्तीः॑ । प्रय॑स्वतीः । ईळ॑ते । शु॒क्रम् । अ॒र्चिः ॥द्यौः । च । त्वा । पृथिवी । यज्ञियासः । नि । होतारम् । सादयन्ते । दमाय ।
यदि । विशः । मानुषीः । देवऽयन्तीः । प्रयस्वतीः । ईळते । शुक्रम् । अर्चिः ॥dyáuḥ ǀ ca ǀ tvā ǀ pṛthivī́ ǀ yajñíyāsaḥ ǀ ní ǀ hótāram ǀ sādayante ǀ dámāya ǀ
yádi ǀ víśaḥ ǀ mā́nuṣīḥ ǀ deva-yántīḥ ǀ práyasvatīḥ ǀ ī́ḷate ǀ śukrám ǀ arcíḥ ǁdyauḥ ǀ ca ǀ tvā ǀ pṛthivī ǀ yajñiyāsaḥ ǀ ni ǀ hotāram ǀ sādayante ǀ damāya ǀ
yadi ǀ viśaḥ ǀ mānuṣīḥ ǀ deva-yantīḥ ǀ prayasvatīḥ ǀ īḷate ǀ śukram ǀ arciḥ ǁ3.6.3 Aṣṭaka 2.8.26.3Anuvāka 3.1.74
-
Ṛk 4
म॒हान्त्स॒धस्थे॑ ध्रु॒व आ निष॑त्तो॒ऽंतर्द्यावा॒ माहि॑ने॒ हर्य॑माणः ।
आस्क्रे॑ स॒पत्नी॑ अ॒जरे॒ अमृ॑क्ते सब॒र्दुघे॑ उरुगा॒यस्य॑ धे॒नू ॥महान् सधस्थे ध्रुव आ निषत्तो ऽन्तर् द्यावा माहिने हर्यमाणः |
आस्क्रे सपत्नी अजरे अमृक्ते सबर्दुघे उरुगायस्य धेनू ||mahā́ntsadhásthe dhruvá ā́ níṣatto’ntárdyā́vā mā́hine háryamāṇaḥ ǀ
ā́skre sapátnī ajáre ámṛkte sabardúghe urugāyásya dhenū́ ǁmahān sadhasthe dhruva ā niṣatto 'ntar dyāvā māhine haryamāṇaḥ |
āskre sapatnī ajare amṛkte sabardughe urugāyasya dhenū ||म॒हान् । स॒धऽस्थे॑ । ध्रु॒वः । आ । निऽस॑त्तः । अ॒न्तः । द्यावा॑ । माहि॑ने॒ इति॑ । हर्य॑माणः ।
आस्क्रे॒ इति॑ । स॒पत्नी॒ इति॑ स॒ऽपत्नी॑ । अ॒जरे॒ इति॑ । अमृ॑क्ते॒ इति॑ । स॒ब॒र्दुघे॒ इति॑ स॒बः॒ऽदुघे॑ । उ॒रु॒ऽगा॒यस्य॑ । धे॒नू इति॑ ॥महान् । सधऽस्थे । ध्रुवः । आ । निऽसत्तः । अन्तः । द्यावा । माहिने इति । हर्यमाणः ।
आस्क्रे इति । सपत्नी इति सऽपत्नी । अजरे इति । अमृक्ते इति । सबर्दुघे इति सबःऽदुघे । उरुऽगायस्य । धेनू इति ॥mahā́n ǀ sadhá-sthe ǀ dhruváḥ ǀ ā́ ǀ ní-sattaḥ ǀ antáḥ ǀ dyā́vā ǀ mā́hine íti ǀ háryamāṇaḥ ǀ
ā́skre íti ǀ sapátnī íti sa-pátnī ǀ ajáre íti ǀ ámṛkte íti ǀ sabardúghe íti sabaḥ-dúghe ǀ uru-gāyásya ǀ dhenū́ íti ǁmahān ǀ sadha-sthe ǀ dhruvaḥ ǀ ā ǀ ni-sattaḥ ǀ antaḥ ǀ dyāvā ǀ māhine iti ǀ haryamāṇaḥ ǀ
āskre iti ǀ sapatnī iti sa-patnī ǀ ajare iti ǀ amṛkte iti ǀ sabardughe iti sabaḥ-dughe ǀ uru-gāyasya ǀ dhenū iti ǁ3.6.4 Aṣṭaka 2.8.26.4Anuvāka 3.1.75
-
Ṛk 5
व्र॒ता ते॑ अग्ने मह॒तो म॒हानि॒ तव॒ क्रत्वा॒ रोद॑सी॒ आ त॑तंथ ।
त्वं दू॒तो अ॑भवो॒ जाय॑मान॒स्त्वं ने॒ता वृ॑षभ चर्षणी॒नां ॥व्रता ते अग्ने महतो महानि तव क्रत्वा रोदसी आ ततन्थ |
त्वं दूतो अभवो जायमानस् त्वं नेता वृषभ चर्षणीनाम् ||vratā́ te agne maható mahā́ni táva krátvā ródasī ā́ tatantha ǀ
tvám dūtó abhavo jā́yamānastvám netā́ vṛṣabha carṣaṇīnā́m ǁvratā te agne mahato mahāni tava kratvā rodasī ā tatantha |
tvaṃ dūto abhavo jāyamānas tvaṃ netā vṛṣabha carṣaṇīnām ||व्र॒ता । ते॒ । अ॒ग्ने॒ । म॒ह॒तः । म॒हानि॑ । तव॑ । क्रत्वा॑ । रोद॑सी॒ इति॑ । आ । त॒त॒न्थ॒ ।
त्वम् । दू॒तः । अ॒भ॒वः॒ । जाय॑मानः । त्वम् । ने॒ता । वृ॒ष॒भ॒ । च॒र्ष॒णी॒नाम् ॥व्रता । ते । अग्ने । महतः । महानि । तव । क्रत्वा । रोदसी इति । आ । ततन्थ ।
त्वम् । दूतः । अभवः । जायमानः । त्वम् । नेता । वृषभ । चर्षणीनाम् ॥vratā́ ǀ te ǀ agne ǀ mahatáḥ ǀ mahā́ni ǀ táva ǀ krátvā ǀ ródasī íti ǀ ā́ ǀ tatantha ǀ
tvám ǀ dūtáḥ ǀ abhavaḥ ǀ jā́yamānaḥ ǀ tvám ǀ netā́ ǀ vṛṣabha ǀ carṣaṇīnā́m ǁvratā ǀ te ǀ agne ǀ mahataḥ ǀ mahāni ǀ tava ǀ kratvā ǀ rodasī iti ǀ ā ǀ tatantha ǀ
tvam ǀ dūtaḥ ǀ abhavaḥ ǀ jāyamānaḥ ǀ tvam ǀ netā ǀ vṛṣabha ǀ carṣaṇīnām ǁ3.6.5 Aṣṭaka 2.8.26.5Anuvāka 3.1.76
-
Ṛk 6
ऋ॒तस्य॑ वा के॒शिना॑ यो॒ग्याभि॑र्घृत॒स्नुवा॒ रोहि॑ता धु॒रि धि॑ष्व ।
अथा व॑ह दे॒वांदे॑व॒ विश्वा॑न्त्स्वध्व॒रा कृ॑णुहि जातवेदः ॥ऋतस्य वा केशिना योग्याभिर् घृतस्नुवा रोहिता धुरि धिष्व |
अथा वह देवान् देव विश्वान् स्वध्वरा कृणुहि जातवेदः ||ṛtásya vā keśínā yogyā́bhirghṛtasnúvā róhitā dhurí dhiṣva ǀ
áthā́ vaha devā́ndeva víśvāntsvadhvarā́ kṛṇuhi jātavedaḥ ǁṛtasya vā keśinā yogyābhir ghṛtasnuvā rohitā dhuri dhiṣva |
athā vaha devān deva viśvān svadhvarā kṛṇuhi jātavedaḥ ||ऋ॒तस्य॑ । वा॒ । के॒शिना॑ । यो॒ग्याभिः॑ । घृ॒त॒ऽस्नुवा॑ । रोहि॑ता । धु॒रि । धि॒ष्व॒ ।
अथ॑ । आ । व॒ह॒ । दे॒वान् । दे॒व॒ । विश्वा॑न् । सु॒ऽअ॒ध्व॒रा । कृ॒णु॒हि॒ । जा॒त॒ऽवे॒दः॒ ॥ऋतस्य । वा । केशिना । योग्याभिः । घृतऽस्नुवा । रोहिता । धुरि । धिष्व ।
अथ । आ । वह । देवान् । देव । विश्वान् । सुऽअध्वरा । कृणुहि । जातऽवेदः ॥ṛtásya ǀ vā ǀ keśínā ǀ yogyā́bhiḥ ǀ ghṛta-snúvā ǀ róhitā ǀ dhurí ǀ dhiṣva ǀ
átha ǀ ā́ ǀ vaha ǀ devā́n ǀ deva ǀ víśvān ǀ su-adhvarā́ ǀ kṛṇuhi ǀ jāta-vedaḥ ǁṛtasya ǀ vā ǀ keśinā ǀ yogyābhiḥ ǀ ghṛta-snuvā ǀ rohitā ǀ dhuri ǀ dhiṣva ǀ
atha ǀ ā ǀ vaha ǀ devān ǀ deva ǀ viśvān ǀ su-adhvarā ǀ kṛṇuhi ǀ jāta-vedaḥ ǁ3.6.6 Aṣṭaka 2.8.27.1Anuvāka 3.1.77
-
Ṛk 7
दि॒वश्चि॒दा ते॑ रुचयंत रो॒का उ॒षो वि॑भा॒तीरनु॑ भासि पू॒र्वीः ।
अ॒पो यद॑ग्न उ॒शध॒ग्वने॑षु॒ होतु॑र्मं॒द्रस्य॑ प॒नयं॑त दे॒वाः ॥दिवश् चिद् आ ते रुचयन्त रोका उषो विभातीर् अनु भासि पूर्वीः |
अपो यद् अग्न उशधग् वनेषु होतुर् मन्द्रस्य पनयन्त देवाः ||diváścidā́ te rucayanta rokā́ uṣó vibhātī́ránu bhāsi pūrvī́ḥ ǀ
apó yádagna uśádhagváneṣu hóturmandrásya panáyanta devā́ḥ ǁdivaś cid ā te rucayanta rokā uṣo vibhātīr anu bhāsi pūrvīḥ |
apo yad agna uśadhag vaneṣu hotur mandrasya panayanta devāḥ ||दि॒वः । चि॒त् । आ । ते॒ । रु॒च॒य॒न्त॒ । रो॒काः । उ॒षः । वि॒ऽभा॒तीः । अनु॑ । भा॒सि॒ । पू॒र्वीः ।
अ॒पः । यत् । अ॒ग्ने॒ । उ॒शध॑क् । वने॑षु । होतुः॑ । म॒न्द्रस्य॑ । प॒नय॑न्त । दे॒वाः ॥दिवः । चित् । आ । ते । रुचयन्त । रोकाः । उषः । विऽभातीः । अनु । भासि । पूर्वीः ।
अपः । यत् । अग्ने । उशधक् । वनेषु । होतुः । मन्द्रस्य । पनयन्त । देवाः ॥diváḥ ǀ cit ǀ ā́ ǀ te ǀ rucayanta ǀ rokā́ḥ ǀ uṣáḥ ǀ vi-bhātī́ḥ ǀ ánu ǀ bhāsi ǀ pūrvī́ḥ ǀ
apáḥ ǀ yát ǀ agne ǀ uśádhak ǀ váneṣu ǀ hótuḥ ǀ mandrásya ǀ panáyanta ǀ devā́ḥ ǁdivaḥ ǀ cit ǀ ā ǀ te ǀ rucayanta ǀ rokāḥ ǀ uṣaḥ ǀ vi-bhātīḥ ǀ anu ǀ bhāsi ǀ pūrvīḥ ǀ
apaḥ ǀ yat ǀ agne ǀ uśadhak ǀ vaneṣu ǀ hotuḥ ǀ mandrasya ǀ panayanta ǀ devāḥ ǁ3.6.7 Aṣṭaka 2.8.27.2Anuvāka 3.1.78
-
Ṛk 8
उ॒रौ वा॒ ये अं॒तरि॑क्षे॒ मदं॑ति दि॒वो वा॒ ये रो॑च॒ने संति॑ दे॒वाः ।
ऊमा॑ वा॒ ये सु॒हवा॑सो॒ यज॑त्रा आयेमि॒रे र॒थ्यो॑ अग्ने॒ अश्वाः॑ ॥उरौ वा ये अन्तरिक्षे मदन्ति दिवो वा ये रोचने सन्ति देवाः |
ऊमा वा ये सुहवासो यजत्रा आयेमिरे रथ्यो अग्ने अश्वाः ||uráu vā yé antárikṣe mádanti divó vā yé rocané sánti devā́ḥ ǀ
ū́mā vā yé suhávāso yájatrā āyemiré rathyo agne áśvāḥ ǁurau vā ye antarikṣe madanti divo vā ye rocane santi devāḥ |
ūmā vā ye suhavāso yajatrā āyemire rathyo agne aśvāḥ ||उ॒रौ । वा॒ । ये । अ॒न्तरि॑क्षे । मद॑न्ति । दि॒वः । वा॒ । ये । रो॒च॒ने । सन्ति॑ । दे॒वाः ।
ऊमाः॑ । वा॒ । ये । सु॒ऽहवा॑सः । यज॑त्राः । आ॒ऽये॒मि॒रे । र॒थ्यः॑ । अ॒ग्ने॒ । अश्वाः॑ ॥उरौ । वा । ये । अन्तरिक्षे । मदन्ति । दिवः । वा । ये । रोचने । सन्ति । देवाः ।
ऊमाः । वा । ये । सुऽहवासः । यजत्राः । आऽयेमिरे । रथ्यः । अग्ने । अश्वाः ॥uráu ǀ vā ǀ yé ǀ antárikṣe ǀ mádanti ǀ diváḥ ǀ vā ǀ yé ǀ rocané ǀ sánti ǀ devā́ḥ ǀ
ū́māḥ ǀ vā ǀ yé ǀ su-hávāsaḥ ǀ yájatrāḥ ǀ ā-yemiré ǀ rathyáḥ ǀ agne ǀ áśvāḥ ǁurau ǀ vā ǀ ye ǀ antarikṣe ǀ madanti ǀ divaḥ ǀ vā ǀ ye ǀ rocane ǀ santi ǀ devāḥ ǀ
ūmāḥ ǀ vā ǀ ye ǀ su-havāsaḥ ǀ yajatrāḥ ǀ ā-yemire ǀ rathyaḥ ǀ agne ǀ aśvāḥ ǁ3.6.8 Aṣṭaka 2.8.27.3Anuvāka 3.1.79
-
Ṛk 9
ऐभि॑रग्ने स॒रथं॑ याह्य॒र्वाङ् ना॑नार॒थं वा॑ वि॒भवो॒ ह्यश्वाः॑ ।
पत्नी॑वतस्त्रिं॒शतं॒ त्रींश्च॑ दे॒वान॑नुष्व॒धमा व॑ह मा॒दय॑स्व ॥ऐभिर् अग्ने सरथं याह्य् अर्वाङ् नानारथं वा विभवो ह्य् अश्वाः |
पत्नीवतस् त्रिंशतं त्रींश् च देवान् अनुष्वधम् आ वह मादयस्व ||áibhiragne sarátham yāhyarvā́ṅ nānārathám vā vibhávo hyáśvāḥ ǀ
pátnīvatastriṃśátam trī́ṃśca devā́nanuṣvadhámā́ vaha mādáyasva ǁaibhir agne sarathaṃ yāhy arvāṅ nānārathaṃ vā vibhavo hy aśvāḥ |
patnīvatas triṃśataṃ trīṃś ca devān anuṣvadham ā vaha mādayasva ||आ । ए॒भिः॒ । अ॒ग्ने॒ । स॒ऽरथ॑म् । या॒हि॒ । अ॒र्वाङ् । ना॒ना॒ऽर॒थम् । वा॒ । वि॒ऽभवः॑ । हि । अश्वाः॑ ।
पत्नी॑ऽवतः । त्रिं॒शत॑म् । त्रीन् । च॒ । दे॒वान् । अ॒नु॒ऽस्व॒धम् । आ । व॒ह॒ । मा॒दय॑स्व ॥आ । एभिः । अग्ने । सऽरथम् । याहि । अर्वाङ् । नानाऽरथम् । वा । विऽभवः । हि । अश्वाः ।
पत्नीऽवतः । त्रिंशतम् । त्रीन् । च । देवान् । अनुऽस्वधम् । आ । वह । मादयस्व ॥ā́ ǀ ebhiḥ ǀ agne ǀ sa-rátham ǀ yāhi ǀ arvā́ṅ ǀ nānā-rathám ǀ vā ǀ vi-bhávaḥ ǀ hí ǀ áśvāḥ ǀ
pátnī-vataḥ ǀ triṃśátam ǀ trī́n ǀ ca ǀ devā́n ǀ anu-svadhám ǀ ā́ ǀ vaha ǀ mādáyasva ǁā ǀ ebhiḥ ǀ agne ǀ sa-ratham ǀ yāhi ǀ arvāṅ ǀ nānā-ratham ǀ vā ǀ vi-bhavaḥ ǀ hi ǀ aśvāḥ ǀ
patnī-vataḥ ǀ triṃśatam ǀ trīn ǀ ca ǀ devān ǀ anu-svadham ǀ ā ǀ vaha ǀ mādayasva ǁ3.6.9 Aṣṭaka 2.8.27.4Anuvāka 3.1.80
-
Ṛk 10
स होता॒ यस्य॒ रोद॑सी चिदु॒र्वी य॒ज्ञंय॑ज्ञम॒भि वृ॒धे गृ॑णी॒तः ।
प्राची॑ अध्व॒रेव॑ तस्थतुः सु॒मेके॑ ऋ॒ताव॑री ऋ॒तजा॑तस्य स॒त्ये ॥स होता यस्य रोदसी चिद् उर्वी यज्ञं-यज्ञम् अभि वृधे गृणीतः |
प्राची अध्वरेव तस्थतुः सुमेके ऋतावरी ऋतजातस्य सत्ये ||sá hótā yásya ródasī cidurvī́ yajñáṃyajñamabhí vṛdhé gṛṇītáḥ ǀ
prā́cī adhvaréva tasthatuḥ suméke ṛtā́varī ṛtájātasya satyé ǁsa hotā yasya rodasī cid urvī yajñaṃ-yajñam abhi vṛdhe gṛṇītaḥ |
prācī adhvareva tasthatuḥ sumeke ṛtāvarī ṛtajātasya satye ||सः । होता॑ । यस्य॑ । रोद॑सी॒ इति॑ । चि॒त् । उ॒र्वी इति॑ । य॒ज्ञम्ऽय॑ज्ञम् । अ॒भि । वृ॒धे । गृ॒णी॒तः ।
प्राची॒ इति॑ । अ॒ध्व॒राऽइ॑व । त॒स्थ॒तुः॒ । सु॒मेके॒ इति॑ सु॒ऽमेके॑ । ऋ॒तव॑री॒ इत्यृ॒तऽव॑री । ऋ॒तऽजा॑तस्य । स॒त्ये इति॑ ॥सः । होता । यस्य । रोदसी इति । चित् । उर्वी इति । यज्ञम्ऽयज्ञम् । अभि । वृधे । गृणीतः ।
प्राची इति । अध्वराऽइव । तस्थतुः । सुमेके इति सुऽमेके । ऋतवरी इत्यृतऽवरी । ऋतऽजातस्य । सत्ये इति ॥sáḥ ǀ hótā ǀ yásya ǀ ródasī íti ǀ cit ǀ urvī́ íti ǀ yajñám-yajñam ǀ abhí ǀ vṛdhé ǀ gṛṇītáḥ ǀ
prā́cī íti ǀ adhvarā́-iva ǀ tasthatuḥ ǀ suméke íti su-méke ǀ ṛtávarī ítyṛtá-varī ǀ ṛtá-jātasya ǀ satyé íti ǁsaḥ ǀ hotā ǀ yasya ǀ rodasī iti ǀ cit ǀ urvī iti ǀ yajñam-yajñam ǀ abhi ǀ vṛdhe ǀ gṛṇītaḥ ǀ
prācī iti ǀ adhvarā-iva ǀ tasthatuḥ ǀ sumeke iti su-meke ǀ ṛtavarī ityṛta-varī ǀ ṛta-jātasya ǀ satye iti ǁ3.6.10 Aṣṭaka 2.8.27.5Anuvāka 3.1.81
-
Ṛk 11
इळा॑मग्ने पुरु॒दंसं॑ स॒निं गोः श॑श्वत्त॒मं हव॑मानाय साध ।
स्यान्नः॑ सू॒नुस्तन॑यो वि॒जावाग्ने॒ सा ते॑ सुम॒तिर्भू॑त्व॒स्मे ॥इऌआम् अग्ने पुरुदंसं सनिं गोः शश्वत्तमं हवमानाय साध |
स्यान् नः सूनुस् तनयो विजावाग्ने सा ते सुमतिर् भूत्व् अस्मे ||íḷāmagne purudáṃsam saním góḥ śaśvattamám hávamānāya sādha ǀ
syā́nnaḥ sūnústánayo vijā́vā́gne sā́ te sumatírbhūtvasmé ǁiḷām agne purudaṃsaṃ saniṃ goḥ śaśvattamaṃ havamānāya sādha |
syān naḥ sūnus tanayo vijāvāgne sā te sumatir bhūtv asme ||इळा॑म् । अ॒ग्ने॒ । पु॒रु॒ऽदंस॑म् । स॒निम् । गोः । श॒श्व॒त्ऽत॒मम् । हव॑मानाय । सा॒ध॒ ।
स्यात् । नः॒ । सू॒नुः । तन॑यः । वि॒जाऽवा॑ । अ॒ग्ने॒ । सा । ते॒ । सु॒ऽम॒तिः । भू॒तु॒ । अ॒स्मे इति॑ ॥इळाम् । अग्ने । पुरुऽदंसम् । सनिम् । गोः । शश्वत्ऽतमम् । हवमानाय । साध ।
स्यात् । नः । सूनुः । तनयः । विजाऽवा । अग्ने । सा । ते । सुऽमतिः । भूतु । अस्मे इति ॥íḷām ǀ agne ǀ puru-dáṃsam ǀ saním ǀ góḥ ǀ śaśvat-tamám ǀ hávamānāya ǀ sādha ǀ
syā́t ǀ naḥ ǀ sūnúḥ ǀ tánayaḥ ǀ vijā́-vā ǀ agne ǀ sā́ ǀ te ǀ su-matíḥ ǀ bhūtu ǀ asmé íti ǁiḷām ǀ agne ǀ puru-daṃsam ǀ sanim ǀ goḥ ǀ śaśvat-tamam ǀ havamānāya ǀ sādha ǀ
syāt ǀ naḥ ǀ sūnuḥ ǀ tanayaḥ ǀ vijā-vā ǀ agne ǀ sā ǀ te ǀ su-matiḥ ǀ bhūtu ǀ asme iti ǁ3.6.11 Aṣṭaka 2.8.27.6Anuvāka 3.1.82
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.