Ṛk 3.6.9
Saṃhitā
ऐभि॑रग्ने स॒रथं॑ याह्य॒र्वाङ् ना॑नार॒थं वा॑ वि॒भवो॒ ह्यश्वाः॑ ।
पत्नी॑वतस्त्रिं॒शतं॒ त्रींश्च॑ दे॒वान॑नुष्व॒धमा व॑ह मा॒दय॑स्व ॥
ऐभिर् अग्ने सरथं याह्य् अर्वाङ् नानारथं वा विभवो ह्य् अश्वाः |
पत्नीवतस् त्रिंशतं त्रींश् च देवान् अनुष्वधम् आ वह मादयस्व ||
áibhiragne sarátham yāhyarvā́ṅ nānārathám vā vibhávo hyáśvāḥ ǀ
pátnīvatastriṃśátam trī́ṃśca devā́nanuṣvadhámā́ vaha mādáyasva ǁ
aibhir agne sarathaṃ yāhy arvāṅ nānārathaṃ vā vibhavo hy aśvāḥ |
patnīvatas triṃśataṃ trīṃś ca devān anuṣvadham ā vaha mādayasva ||
Padapāṭha
आ । ए॒भिः॒ । अ॒ग्ने॒ । स॒ऽरथ॑म् । या॒हि॒ । अ॒र्वाङ् । ना॒ना॒ऽर॒थम् । वा॒ । वि॒ऽभवः॑ । हि । अश्वाः॑ ।
पत्नी॑ऽवतः । त्रिं॒शत॑म् । त्रीन् । च॒ । दे॒वान् । अ॒नु॒ऽस्व॒धम् । आ । व॒ह॒ । मा॒दय॑स्व ॥
आ । एभिः । अग्ने । सऽरथम् । याहि । अर्वाङ् । नानाऽरथम् । वा । विऽभवः । हि । अश्वाः ।
पत्नीऽवतः । त्रिंशतम् । त्रीन् । च । देवान् । अनुऽस्वधम् । आ । वह । मादयस्व ॥
ā́ ǀ ebhiḥ ǀ agne ǀ sa-rátham ǀ yāhi ǀ arvā́ṅ ǀ nānā-rathám ǀ vā ǀ vi-bhávaḥ ǀ hí ǀ áśvāḥ ǀ
pátnī-vataḥ ǀ triṃśátam ǀ trī́n ǀ ca ǀ devā́n ǀ anu-svadhám ǀ ā́ ǀ vaha ǀ mādáyasva ǁ
ā ǀ ebhiḥ ǀ agne ǀ sa-ratham ǀ yāhi ǀ arvāṅ ǀ nānā-ratham ǀ vā ǀ vi-bhavaḥ ǀ hi ǀ aśvāḥ ǀ
patnī-vataḥ ǀ triṃśatam ǀ trīn ǀ ca ǀ devān ǀ anu-svadham ǀ ā ǀ vaha ǀ mādayasva ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 03.006.09
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.8.27.04
- Maṇḍala · Anuvāka · Ṛk
- 03.01.080
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Viśvāmitra Gāthina
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.