Sūkta 10
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Viśvāmitra Gāthina
- Chandas छन्दस्
- Uṣṇih
Metres by ṛk
1st set of styles nicṛduṣṇik (4, 6, 7, 9); virāḍuṣnik (1, 5, 8); bhuriggāyatrī (2); uṣṇik (3)
2nd set of styles uṣṇih
-
Ṛk 1
त्वाम॑ग्ने मनी॒षिणः॑ स॒म्राजं॑ चर्षणी॒नां ।
दे॒वं मर्ता॑स इंधते॒ सम॑ध्व॒रे ॥त्वाम् अग्ने मनीषिणः सम्राजं चर्षणीनाम् |
देवम् मर्तास इन्धते सम् अध्वरे ||tvā́magne manīṣíṇaḥ samrā́jam carṣaṇīnā́m ǀ
devám mártāsa indhate sámadhvaré ǁtvām agne manīṣiṇaḥ samrājaṃ carṣaṇīnām |
devam martāsa indhate sam adhvare ||त्वाम् । अ॒ग्ने॒ । म॒नी॒षिणः॑ । स॒म्ऽराज॑म् । च॒र्ष॒णी॒नाम् ।
दे॒वम् । मर्ता॑सः । इ॒न्ध॒ते॒ । सम् । अ॒ध्व॒रे ॥त्वाम् । अग्ने । मनीषिणः । सम्ऽराजम् । चर्षणीनाम् ।
देवम् । मर्तासः । इन्धते । सम् । अध्वरे ॥tvā́m ǀ agne ǀ manīṣíṇaḥ ǀ sam-rā́jam ǀ carṣaṇīnā́m ǀ
devám ǀ mártāsaḥ ǀ indhate ǀ sám ǀ adhvaré ǁtvām ǀ agne ǀ manīṣiṇaḥ ǀ sam-rājam ǀ carṣaṇīnām ǀ
devam ǀ martāsaḥ ǀ indhate ǀ sam ǀ adhvare ǁ3.10.1 Aṣṭaka 3.1.7.1Anuvāka 3.1.114
-
Ṛk 2
त्वां य॒ज्ञेष्वृ॒त्विज॒मग्ने॒ होता॑रमीळते ।
गो॒पा ऋ॒तस्य॑ दीदिहि॒ स्वे दमे॑ ॥त्वां यज्ञेष्व् ऋत्विजम् अग्ने होतारम् ईऌअते |
गोपा ऋतस्य दीदिहि स्वे दमे ||tvā́m yajñéṣvṛtvíjamágne hótāramīḷate ǀ
gopā́ ṛtásya dīdihi své dáme ǁtvāṃ yajñeṣv ṛtvijam agne hotāram īḷate |
gopā ṛtasya dīdihi sve dame ||त्वाम् । य॒ज्ञेषु॑ । ऋ॒त्विज॑म् । अग्ने॑ । होता॑रम् । ई॒ळ॒ते॒ ।
गो॒पाः । ऋ॒तस्य॑ । दी॒दि॒हि॒ । स्वे । दमे॑ ॥त्वाम् । यज्ञेषु । ऋत्विजम् । अग्ने । होतारम् । ईळते ।
गोपाः । ऋतस्य । दीदिहि । स्वे । दमे ॥tvā́m ǀ yajñéṣu ǀ ṛtvíjam ǀ ágne ǀ hótāram ǀ īḷate ǀ
gopā́ḥ ǀ ṛtásya ǀ dīdihi ǀ své ǀ dáme ǁtvām ǀ yajñeṣu ǀ ṛtvijam ǀ agne ǀ hotāram ǀ īḷate ǀ
gopāḥ ǀ ṛtasya ǀ dīdihi ǀ sve ǀ dame ǁ3.10.2 Aṣṭaka 3.1.7.2Anuvāka 3.1.115
-
Ṛk 3
स घा॒ यस्ते॒ ददा॑शति स॒मिधा॑ जा॒तवे॑दसे ।
सो अ॑ग्ने धत्ते सु॒वीर्यं॒ स पु॑ष्यति ॥स घा यस् ते ददाशति समिधा जातवेदसे |
सो अग्ने धत्ते सुवीर्यं स पुष्यति ||sá ghā yáste dádāśati samídhā jātávedase ǀ
só agne dhatte suvī́ryam sá puṣyati ǁsa ghā yas te dadāśati samidhā jātavedase |
so agne dhatte suvīryaṃ sa puṣyati ||सः । घ॒ । यः । ते॒ । ददा॑शति । स॒म्ऽइधा॑ । जा॒तऽवे॑दसे ।
सः । अ॒ग्ने॒ । ध॒त्ते॒ । सु॒ऽवीर्य॑म् । सः । पु॒ष्य॒ति॒ ॥सः । घ । यः । ते । ददाशति । सम्ऽइधा । जातऽवेदसे ।
सः । अग्ने । धत्ते । सुऽवीर्यम् । सः । पुष्यति ॥sáḥ ǀ gha ǀ yáḥ ǀ te ǀ dádāśati ǀ sam-ídhā ǀ jātá-vedase ǀ
sáḥ ǀ agne ǀ dhatte ǀ su-vī́ryam ǀ sáḥ ǀ puṣyati ǁsaḥ ǀ gha ǀ yaḥ ǀ te ǀ dadāśati ǀ sam-idhā ǀ jāta-vedase ǀ
saḥ ǀ agne ǀ dhatte ǀ su-vīryam ǀ saḥ ǀ puṣyati ǁ3.10.3 Aṣṭaka 3.1.7.3Anuvāka 3.1.116
-
Ṛk 4
स के॒तुर॑ध्व॒राणा॑म॒ग्निर्दे॒वेभि॒रा ग॑मत् ।
अं॒जा॒नः स॒प्त होतृ॑भिर्ह॒विष्म॑ते ॥स केतुर् अध्वराणाम् अग्निर् देवेभिर् आ गमत् |
अञ्जानः सप्त होतृभिर् हविष्मते ||sá ketúradhvarā́ṇāmagnírdevébhirā́ gamat ǀ
añjānáḥ saptá hótṛbhirhavíṣmate ǁsa ketur adhvarāṇām agnir devebhir ā gamat |
añjānaḥ sapta hotṛbhir haviṣmate ||सः । के॒तुः । अ॒ध्व॒राणा॑म् । अ॒ग्निः । दे॒वेभिः॑ । आ । ग॒म॒त् ।
अ॒ञ्जा॒नः । स॒प्त । होतृ॑ऽभिः । ह॒विष्म॑ते ॥सः । केतुः । अध्वराणाम् । अग्निः । देवेभिः । आ । गमत् ।
अञ्जानः । सप्त । होतृऽभिः । हविष्मते ॥sáḥ ǀ ketúḥ ǀ adhvarā́ṇām ǀ agníḥ ǀ devébhiḥ ǀ ā́ ǀ gamat ǀ
añjānáḥ ǀ saptá ǀ hótṛ-bhiḥ ǀ havíṣmate ǁsaḥ ǀ ketuḥ ǀ adhvarāṇām ǀ agniḥ ǀ devebhiḥ ǀ ā ǀ gamat ǀ
añjānaḥ ǀ sapta ǀ hotṛ-bhiḥ ǀ haviṣmate ǁ3.10.4 Aṣṭaka 3.1.7.4Anuvāka 3.1.117
-
Ṛk 5
प्र होत्रे॑ पू॒र्व्यं वचो॒ऽग्नये॑ भरता बृ॒हत् ।
वि॒पां ज्योतीं॑षि॒ बिभ्र॑ते॒ न वे॒धसे॑ ॥प्र होत्रे पूर्व्यं वचो ऽग्नये भरता बृहत् |
विपां ज्योतींषि बिभ्रते न वेधसे ||prá hótre pūrvyám váco’gnáye bharatā bṛhát ǀ
vipā́m jyótīṃṣi bíbhrate ná vedháse ǁpra hotre pūrvyaṃ vaco 'gnaye bharatā bṛhat |
vipāṃ jyotīṃṣi bibhrate na vedhase ||प्र । होत्रे॑ । पू॒र्व्यम् । वचः॑ । अ॒ग्नये॑ । भ॒र॒त॒ । बृ॒हत् ।
वि॒पाम् । ज्योतीं॑षि । बिभ्र॑ते । न । वे॒धसे॑ ॥प्र । होत्रे । पूर्व्यम् । वचः । अग्नये । भरत । बृहत् ।
विपाम् । ज्योतींषि । बिभ्रते । न । वेधसे ॥prá ǀ hótre ǀ pūrvyám ǀ vácaḥ ǀ agnáye ǀ bharata ǀ bṛhát ǀ
vipā́m ǀ jyótīṃṣi ǀ bíbhrate ǀ ná ǀ vedháse ǁpra ǀ hotre ǀ pūrvyam ǀ vacaḥ ǀ agnaye ǀ bharata ǀ bṛhat ǀ
vipām ǀ jyotīṃṣi ǀ bibhrate ǀ na ǀ vedhase ǁ3.10.5 Aṣṭaka 3.1.7.5Anuvāka 3.1.118
-
Ṛk 6
अ॒ग्निं व॑र्धंतु नो॒ गिरो॒ यतो॒ जाय॑त उ॒क्थ्यः॑ ।
म॒हे वाजा॑य॒ द्रवि॑णाय दर्श॒तः ॥अग्निं वर्धन्तु नो गिरो यतो जायत उक्थ्यः |
महे वाजाय द्रविणाय दर्शतः ||agním vardhantu no gíro yáto jā́yata ukthyáḥ ǀ
mahé vā́jāya dráviṇāya darśatáḥ ǁagniṃ vardhantu no giro yato jāyata ukthyaḥ |
mahe vājāya draviṇāya darśataḥ ||अ॒ग्निम् । व॒र्ध॒न्तु॒ । नः॒ । गिरः॑ । यतः॑ । जाय॑ते । उ॒क्थ्यः॑ ।
म॒हे । वाजा॑य । द्रवि॑णाय । द॒र्श॒तः ॥अग्निम् । वर्धन्तु । नः । गिरः । यतः । जायते । उक्थ्यः ।
महे । वाजाय । द्रविणाय । दर्शतः ॥agním ǀ vardhantu ǀ naḥ ǀ gíraḥ ǀ yátaḥ ǀ jā́yate ǀ ukthyáḥ ǀ
mahé ǀ vā́jāya ǀ dráviṇāya ǀ darśatáḥ ǁagnim ǀ vardhantu ǀ naḥ ǀ giraḥ ǀ yataḥ ǀ jāyate ǀ ukthyaḥ ǀ
mahe ǀ vājāya ǀ draviṇāya ǀ darśataḥ ǁ3.10.6 Aṣṭaka 3.1.8.1Anuvāka 3.1.119
-
Ṛk 7
अग्ने॒ यजि॑ष्ठो अध्व॒रे दे॒वांदे॑वय॒ते य॑ज ।
होता॑ मं॒द्रो वि रा॑ज॒स्यति॒ स्रिधः॑ ॥अग्ने यजिष्ठो अध्वरे देवान् देवयते यज |
होता मन्द्रो वि राजस्य् अति स्रिधः ||ágne yájiṣṭho adhvaré devā́ndevayaté yaja ǀ
hótā mandró ví rājasyáti srídhaḥ ǁagne yajiṣṭho adhvare devān devayate yaja |
hotā mandro vi rājasy ati sridhaḥ ||अग्ने॑ । यजि॑ष्ठः । अ॒ध्व॒रे । दे॒वान् । दे॒व॒ऽय॒ते । य॒ज॒ ।
होता॑ । म॒न्द्रः । वि । रा॒ज॒सि॒ । अति॑ । स्रिधः॑ ॥अग्ने । यजिष्ठः । अध्वरे । देवान् । देवऽयते । यज ।
होता । मन्द्रः । वि । राजसि । अति । स्रिधः ॥ágne ǀ yájiṣṭhaḥ ǀ adhvaré ǀ devā́n ǀ deva-yaté ǀ yaja ǀ
hótā ǀ mandráḥ ǀ ví ǀ rājasi ǀ áti ǀ srídhaḥ ǁagne ǀ yajiṣṭhaḥ ǀ adhvare ǀ devān ǀ deva-yate ǀ yaja ǀ
hotā ǀ mandraḥ ǀ vi ǀ rājasi ǀ ati ǀ sridhaḥ ǁ3.10.7 Aṣṭaka 3.1.8.2Anuvāka 3.1.120
-
Ṛk 8
स नः॑ पावक दीदिहि द्यु॒मद॒स्मे सु॒वीर्यं॑ ।
भवा॑ स्तो॒तृभ्यो॒ अंत॑मः स्व॒स्तये॑ ॥स नः पावक दीदिहि द्युमद् अस्मे सुवीर्यम् |
भवा स्तोतृभ्यो अन्तमः स्वस्तये ||sá naḥ pāvaka dīdihi dyumádasmé suvī́ryam ǀ
bhávā stotṛ́bhyo ántamaḥ svastáye ǁsa naḥ pāvaka dīdihi dyumad asme suvīryam |
bhavā stotṛbhyo antamaḥ svastaye ||सः । नः॒ । पा॒व॒क॒ । दी॒दि॒हि॒ । द्यु॒ऽमत् । अ॒स्मे इति॑ । सु॒ऽवीर्य॑म् ।
भव॑ । स्तो॒तृऽभ्यः॑ । अन्त॑मः । स्व॒स्तये॑ ॥सः । नः । पावक । दीदिहि । द्युऽमत् । अस्मे इति । सुऽवीर्यम् ।
भव । स्तोतृऽभ्यः । अन्तमः । स्वस्तये ॥sáḥ ǀ naḥ ǀ pāvaka ǀ dīdihi ǀ dyu-mát ǀ asmé íti ǀ su-vī́ryam ǀ
bháva ǀ stotṛ́-bhyaḥ ǀ ántamaḥ ǀ svastáye ǁsaḥ ǀ naḥ ǀ pāvaka ǀ dīdihi ǀ dyu-mat ǀ asme iti ǀ su-vīryam ǀ
bhava ǀ stotṛ-bhyaḥ ǀ antamaḥ ǀ svastaye ǁ3.10.8 Aṣṭaka 3.1.8.3Anuvāka 3.1.121
-
Ṛk 9
तं त्वा॒ विप्रा॑ विप॒न्यवो॑ जागृ॒वांसः॒ समिं॑धते ।
ह॒व्य॒वाह॒मम॑र्त्यं सहो॒वृधं॑ ॥तं त्वा विप्रा विपन्यवो जागृवांसः सम् इन्धते |
हव्यवाहम् अमर्त्यं सहोवृधम् ||tám tvā víprā vipanyávo jāgṛvā́ṃsaḥ sámindhate ǀ
havyavā́hamámartyam sahovṛ́dham ǁtaṃ tvā viprā vipanyavo jāgṛvāṃsaḥ sam indhate |
havyavāham amartyaṃ sahovṛdham ||तम् । त्वा॒ । विप्राः॑ । वि॒प॒न्यवः॑ । जा॒गृ॒ऽवांसः॑ । सम् । इ॒न्ध॒ते॒ ।
ह॒व्य॒ऽवाह॑म् । अम॑र्त्यम् । स॒हः॒ऽवृध॑म् ॥तम् । त्वा । विप्राः । विपन्यवः । जागृऽवांसः । सम् । इन्धते ।
हव्यऽवाहम् । अमर्त्यम् । सहःऽवृधम् ॥tám ǀ tvā ǀ víprāḥ ǀ vipanyávaḥ ǀ jāgṛ-vā́ṃsaḥ ǀ sám ǀ indhate ǀ
havya-vā́ham ǀ ámartyam ǀ sahaḥ-vṛ́dham ǁtam ǀ tvā ǀ viprāḥ ǀ vipanyavaḥ ǀ jāgṛ-vāṃsaḥ ǀ sam ǀ indhate ǀ
havya-vāham ǀ amartyam ǀ sahaḥ-vṛdham ǁ3.10.9 Aṣṭaka 3.1.8.4Anuvāka 3.1.122
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.