Ṛk 3.10.4
Saṃhitā
स के॒तुर॑ध्व॒राणा॑म॒ग्निर्दे॒वेभि॒रा ग॑मत् ।
अं॒जा॒नः स॒प्त होतृ॑भिर्ह॒विष्म॑ते ॥
स केतुर् अध्वराणाम् अग्निर् देवेभिर् आ गमत् |
अञ्जानः सप्त होतृभिर् हविष्मते ||
sá ketúradhvarā́ṇāmagnírdevébhirā́ gamat ǀ
añjānáḥ saptá hótṛbhirhavíṣmate ǁ
sa ketur adhvarāṇām agnir devebhir ā gamat |
añjānaḥ sapta hotṛbhir haviṣmate ||
Padapāṭha
सः । के॒तुः । अ॒ध्व॒राणा॑म् । अ॒ग्निः । दे॒वेभिः॑ । आ । ग॒म॒त् ।
अ॒ञ्जा॒नः । स॒प्त । होतृ॑ऽभिः । ह॒विष्म॑ते ॥
सः । केतुः । अध्वराणाम् । अग्निः । देवेभिः । आ । गमत् ।
अञ्जानः । सप्त । होतृऽभिः । हविष्मते ॥
sáḥ ǀ ketúḥ ǀ adhvarā́ṇām ǀ agníḥ ǀ devébhiḥ ǀ ā́ ǀ gamat ǀ
añjānáḥ ǀ saptá ǀ hótṛ-bhiḥ ǀ havíṣmate ǁ
saḥ ǀ ketuḥ ǀ adhvarāṇām ǀ agniḥ ǀ devebhiḥ ǀ ā ǀ gamat ǀ
añjānaḥ ǀ sapta ǀ hotṛ-bhiḥ ǀ haviṣmate ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 03.010.04
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.1.07.04
- Maṇḍala · Anuvāka · Ṛk
- 03.01.117
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Viśvāmitra Gāthina
- Chandas छन्दस्
- Uṣṇih
- Svara स्वरः
- ऋषभः
Text and interpretations from the Ṛgveda database of theveda.org.in.