Sūkta 59
- Devatā देवता
- Mitra
- Ṛṣi ऋषि
- Viśvāmitra Gāthina
- Chandas छन्दस्
- Triṣṭubh, Gāyatrī
Metres by ṛk
1st set of styles triṣṭup (1, 2, 5); nicṛdgāyatrī (6, 9); gāyatrī (7, 8); nicṛttriṣṭup (3); bhurikpaṅkti (4)
2nd set of styles triṣṭubh (1-5); gāyatrī (6-9)
-
Ṛk 1
मि॒त्रो जना॑न्यातयति ब्रुवा॒णो मि॒त्रो दा॑धार पृथि॒वीमु॒त द्यां ।
मि॒त्रः कृ॒ष्टीरनि॑मिषा॒भि च॑ष्टे मि॒त्राय॑ ह॒व्यं घृ॒तव॑ज्जुहोत ॥मित्रो जनान् यातयति ब्रुवाणो मित्रो दाधार पृथिवीम् उत द्याम् |
मित्रः कृष्टीर् अनिमिषाभि चष्टे मित्राय हव्यं घृतवज् जुहोत ||mitró jánānyātayati bruvāṇó mitró dādhāra pṛthivī́mutá dyā́m ǀ
mitráḥ kṛṣṭī́ránimiṣābhí caṣṭe mitrā́ya havyám ghṛtávajjuhota ǁmitro janān yātayati bruvāṇo mitro dādhāra pṛthivīm uta dyām |
mitraḥ kṛṣṭīr animiṣābhi caṣṭe mitrāya havyaṃ ghṛtavaj juhota ||मि॒त्रः । जना॑न् । या॒त॒य॒ति॒ । ब्रु॒वा॒णः । मि॒त्रः । दा॒धा॒र॒ । पृ॒थि॒वीम् । उ॒त । द्याम् ।
मि॒त्रः । कृ॒ष्टीः । अनि॑ऽमिषा । अ॒भि । च॒ष्टे॒ । मि॒त्राय॑ । ह॒व्यम् । घृ॒तऽव॑त् । जु॒हो॒त॒ ॥मित्रः । जनान् । यातयति । ब्रुवाणः । मित्रः । दाधार । पृथिवीम् । उत । द्याम् ।
मित्रः । कृष्टीः । अनिऽमिषा । अभि । चष्टे । मित्राय । हव्यम् । घृतऽवत् । जुहोत ॥mitráḥ ǀ jánān ǀ yātayati ǀ bruvāṇáḥ ǀ mitráḥ ǀ dādhāra ǀ pṛthivī́m ǀ utá ǀ dyā́m ǀ
mitráḥ ǀ kṛṣṭī́ḥ ǀ áni-miṣā ǀ abhí ǀ caṣṭe ǀ mitrā́ya ǀ havyám ǀ ghṛtá-vat ǀ juhota ǁmitraḥ ǀ janān ǀ yātayati ǀ bruvāṇaḥ ǀ mitraḥ ǀ dādhāra ǀ pṛthivīm ǀ uta ǀ dyām ǀ
mitraḥ ǀ kṛṣṭīḥ ǀ ani-miṣā ǀ abhi ǀ caṣṭe ǀ mitrāya ǀ havyam ǀ ghṛta-vat ǀ juhota ǁ3.59.1 Aṣṭaka 3.4.5.1Anuvāka 3.5.68
-
Ṛk 2
प्र स मि॑त्र॒ मर्तो॑ अस्तु॒ प्रय॑स्वा॒न्यस्त॑ आदित्य॒ शिक्ष॑ति व्र॒तेन॑ ।
न ह॑न्यते॒ न जी॑यते॒ त्वोतो॒ नैन॒मंहो॑ अश्नो॒त्यंति॑तो॒ न दू॒रात् ॥प्र स मित्र मर्तो अस्तु प्रयस्वान् यस् त आदित्य शिक्षति व्रतेन |
न हन्यते न जीयते त्वोतो नैनम् अंहो अश्नोत्य् अन्तितो न दूरात् ||prá sá mitra márto astu práyasvānyásta āditya śíkṣati vraténa ǀ
ná hanyate ná jīyate tvóto náinamáṃho aśnotyántito ná dūrā́t ǁpra sa mitra marto astu prayasvān yas ta āditya śikṣati vratena |
na hanyate na jīyate tvoto nainam aṃho aśnoty antito na dūrāt ||प्र । सः । मि॒त्र॒ । मर्तः॑ । अ॒स्तु॒ । प्रय॑स्वान् । यः । ते॒ । आ॒दि॒त्य॒ । शिक्ष॑ति । व्र॒तेन॑ ।
न । ह॒न्य॒ते॒ । न । जी॒य॒ते॒ । त्वाऽऊ॑तः । न । ए॒न॒म् । अंहः॑ । अ॒श्नो॒ति॒ । अन्ति॑तः । न । दू॒रात् ॥प्र । सः । मित्र । मर्तः । अस्तु । प्रयस्वान् । यः । ते । आदित्य । शिक्षति । व्रतेन ।
न । हन्यते । न । जीयते । त्वाऽऊतः । न । एनम् । अंहः । अश्नोति । अन्तितः । न । दूरात् ॥prá ǀ sáḥ ǀ mitra ǀ mártaḥ ǀ astu ǀ práyasvān ǀ yáḥ ǀ te ǀ āditya ǀ śíkṣati ǀ vraténa ǀ
ná ǀ hanyate ǀ ná ǀ jīyate ǀ tvā́-ūtaḥ ǀ ná ǀ enam ǀ áṃhaḥ ǀ aśnoti ǀ ántitaḥ ǀ ná ǀ dūrā́t ǁpra ǀ saḥ ǀ mitra ǀ martaḥ ǀ astu ǀ prayasvān ǀ yaḥ ǀ te ǀ āditya ǀ śikṣati ǀ vratena ǀ
na ǀ hanyate ǀ na ǀ jīyate ǀ tvā-ūtaḥ ǀ na ǀ enam ǀ aṃhaḥ ǀ aśnoti ǀ antitaḥ ǀ na ǀ dūrāt ǁ3.59.2 Aṣṭaka 3.4.5.2Anuvāka 3.5.69
-
Ṛk 3
अ॒न॒मी॒वास॒ इळ॑या॒ मदं॑तो मि॒तज्ञ॑वो॒ वरि॑म॒न्ना पृ॑थि॒व्याः ।
आ॒दि॒त्यस्य॑ व्र॒तमु॑पक्षि॒यंतो॑ व॒यं मि॒त्रस्य॑ सुम॒तौ स्या॑म ॥अनमीवास इऌअया मदन्तो मितज्ञवो वरिमन्न् आ पृथिव्याः |
आदित्यस्य व्रतम् उपक्षियन्तो वयम् मित्रस्य सुमतौ स्याम ||anamīvā́sa íḷayā mádanto mitájñavo várimannā́ pṛthivyā́ḥ ǀ
ādityásya vratámupakṣiyánto vayám mitrásya sumatáu syāma ǁanamīvāsa iḷayā madanto mitajñavo varimann ā pṛthivyāḥ |
ādityasya vratam upakṣiyanto vayam mitrasya sumatau syāma ||अ॒न॒मी॒वासः॑ । इळ॑या । मद॑न्तः । मि॒तऽज्ञ॑वः । वरि॑मन् । आ । पृ॒थि॒व्याः ।
आ॒दि॒त्यस्य॑ । व्र॒तम् । उ॒प॒ऽक्षि॒यन्तः॑ । व॒यम् । मि॒त्रस्य॑ । सु॒ऽम॒तौ । स्या॒म॒ ॥अनमीवासः । इळया । मदन्तः । मितऽज्ञवः । वरिमन् । आ । पृथिव्याः ।
आदित्यस्य । व्रतम् । उपऽक्षियन्तः । वयम् । मित्रस्य । सुऽमतौ । स्याम ॥anamīvā́saḥ ǀ íḷayā ǀ mádantaḥ ǀ mitá-jñavaḥ ǀ váriman ǀ ā́ ǀ pṛthivyā́ḥ ǀ
ādityásya ǀ vratám ǀ upa-kṣiyántaḥ ǀ vayám ǀ mitrásya ǀ su-matáu ǀ syāma ǁanamīvāsaḥ ǀ iḷayā ǀ madantaḥ ǀ mita-jñavaḥ ǀ variman ǀ ā ǀ pṛthivyāḥ ǀ
ādityasya ǀ vratam ǀ upa-kṣiyantaḥ ǀ vayam ǀ mitrasya ǀ su-matau ǀ syāma ǁ3.59.3 Aṣṭaka 3.4.5.3Anuvāka 3.5.70
-
Ṛk 4
अ॒यं मि॒त्रो न॑म॒स्यः॑ सु॒शेवो॒ राजा॑ सुक्ष॒त्रो अ॑जनिष्ट वे॒धाः ।
तस्य॑ व॒यं सु॑म॒तौ य॒ज्ञिय॒स्यापि॑ भ॒द्रे सौ॑मन॒से स्या॑म ॥अयम् मित्रो नमस्यः सुशेवो राजा सुक्षत्रो अजनिष्ट वेधाः |
तस्य वयं सुमतौ यज्ञियस्यापि भद्रे सौमनसे स्याम ||ayám mitró namasyáḥ suśévo rā́jā sukṣatró ajaniṣṭa vedhā́ḥ ǀ
tásya vayám sumatáu yajñíyasyā́pi bhadré saumanasé syāma ǁayam mitro namasyaḥ suśevo rājā sukṣatro ajaniṣṭa vedhāḥ |
tasya vayaṃ sumatau yajñiyasyāpi bhadre saumanase syāma ||अ॒यम् । मि॒त्रः । न॒म॒स्यः॑ । सु॒ऽशेवः॑ । राजा॑ । सु॒ऽक्ष॒त्रः । अ॒ज॒नि॒ष्ट॒ । वे॒धाः ।
तस्य॑ । व॒यम् । सु॒ऽम॒तौ । य॒ज्ञिय॑स्य । अपि॑ । भ॒द्रे । सौ॒म॒न॒से । स्या॒म॒ ॥अयम् । मित्रः । नमस्यः । सुऽशेवः । राजा । सुऽक्षत्रः । अजनिष्ट । वेधाः ।
तस्य । वयम् । सुऽमतौ । यज्ञियस्य । अपि । भद्रे । सौमनसे । स्याम ॥ayám ǀ mitráḥ ǀ namasyáḥ ǀ su-śévaḥ ǀ rā́jā ǀ su-kṣatráḥ ǀ ajaniṣṭa ǀ vedhā́ḥ ǀ
tásya ǀ vayám ǀ su-matáu ǀ yajñíyasya ǀ ápi ǀ bhadré ǀ saumanasé ǀ syāma ǁayam ǀ mitraḥ ǀ namasyaḥ ǀ su-śevaḥ ǀ rājā ǀ su-kṣatraḥ ǀ ajaniṣṭa ǀ vedhāḥ ǀ
tasya ǀ vayam ǀ su-matau ǀ yajñiyasya ǀ api ǀ bhadre ǀ saumanase ǀ syāma ǁ3.59.4 Aṣṭaka 3.4.5.4Anuvāka 3.5.71
-
Ṛk 5
म॒हाँ आ॑दि॒त्यो नम॑सोप॒सद्यो॑ यात॒यज्ज॑नो गृण॒ते सु॒शेवः॑ ।
तस्मा॑ ए॒तत्पन्य॑तमाय॒ जुष्ट॑म॒ग्नौ मि॒त्राय॑ ह॒विरा जु॑होत ॥महां आदित्यो नमसोपसद्यो यातयज्जनो गृणते सुशेवः |
तस्मा एतत् पन्यतमाय जुष्टम् अग्नौ मित्राय हविर् आ जुहोत ||mahā́m̐ ādityó námasopasádyo yātayájjano gṛṇaté suśévaḥ ǀ
tásmā etátpányatamāya júṣṭamagnáu mitrā́ya havírā́ juhota ǁmahāṃ ādityo namasopasadyo yātayajjano gṛṇate suśevaḥ |
tasmā etat panyatamāya juṣṭam agnau mitrāya havir ā juhota ||म॒हान् । आ॒दि॒त्यः । नम॑सा । उ॒प॒ऽसद्यः॑ । या॒त॒यत्ऽज॑नः । गृ॒ण॒ते । सु॒ऽशेवः॑ ।
तस्मै॑ । ए॒तत् । पन्य॑ऽतमाय । जुष्ट॑म् । अ॒ग्नौ । मि॒त्राय॑ । ह॒विः । आ । जु॒हो॒त॒ ॥महान् । आदित्यः । नमसा । उपऽसद्यः । यातयत्ऽजनः । गृणते । सुऽशेवः ।
तस्मै । एतत् । पन्यऽतमाय । जुष्टम् । अग्नौ । मित्राय । हविः । आ । जुहोत ॥mahā́n ǀ ādityáḥ ǀ námasā ǀ upa-sádyaḥ ǀ yātayát-janaḥ ǀ gṛṇaté ǀ su-śévaḥ ǀ
tásmai ǀ etát ǀ pánya-tamāya ǀ júṣṭam ǀ agnáu ǀ mitrā́ya ǀ havíḥ ǀ ā́ ǀ juhota ǁmahān ǀ ādityaḥ ǀ namasā ǀ upa-sadyaḥ ǀ yātayat-janaḥ ǀ gṛṇate ǀ su-śevaḥ ǀ
tasmai ǀ etat ǀ panya-tamāya ǀ juṣṭam ǀ agnau ǀ mitrāya ǀ haviḥ ǀ ā ǀ juhota ǁ3.59.5 Aṣṭaka 3.4.5.5Anuvāka 3.5.72
-
Ṛk 6
मि॒त्रस्य॑ चर्षणी॒धृतोऽवो॑ दे॒वस्य॑ सान॒सि ।
द्यु॒म्नं चि॒त्रश्र॑वस्तमं ॥मित्रस्य चर्षणीधृतो ऽवो देवस्य सानसि |
द्युम्नं चित्रश्रवस्तमम् ||mitrásya carṣaṇīdhṛ́tó’vo devásya sānasí ǀ
dyumnám citráśravastamam ǁmitrasya carṣaṇīdhṛto 'vo devasya sānasi |
dyumnaṃ citraśravastamam ||मि॒त्रस्य॑ । च॒र्ष॒णि॒ऽधृतः॑ । अवः॑ । दे॒वस्य॑ । सा॒न॒सि ।
द्यु॒म्नम् । चि॒त्रश्र॑वःऽतमम् ॥मित्रस्य । चर्षणिऽधृतः । अवः । देवस्य । सानसि ।
द्युम्नम् । चित्रश्रवःऽतमम् ॥mitrásya ǀ carṣaṇi-dhṛ́taḥ ǀ ávaḥ ǀ devásya ǀ sānasí ǀ
dyumnám ǀ citráśravaḥ-tamam ǁmitrasya ǀ carṣaṇi-dhṛtaḥ ǀ avaḥ ǀ devasya ǀ sānasi ǀ
dyumnam ǀ citraśravaḥ-tamam ǁ3.59.6 Aṣṭaka 3.4.6.1Anuvāka 3.5.73
-
Ṛk 7
अ॒भि यो म॑हि॒ना दिवं॑ मि॒त्रो ब॒भूव॑ स॒प्रथाः॑ ।
अ॒भि श्रवो॑भिः पृथि॒वीं ॥अभि यो महिना दिवम् मित्रो बभूव सप्रथाः |
अभि श्रवोभिः पृथिवीम् ||abhí yó mahinā́ dívam mitró babhū́va sapráthāḥ ǀ
abhí śrávobhiḥ pṛthivī́m ǁabhi yo mahinā divam mitro babhūva saprathāḥ |
abhi śravobhiḥ pṛthivīm ||अ॒भि । यः । म॒हि॒ना । दिव॑म् । मि॒त्रः । ब॒भूव॑ । स॒ऽप्रथाः॑ ।
अ॒भि । श्रवः॑ऽभिः । पृ॒थि॒वीम् ॥अभि । यः । महिना । दिवम् । मित्रः । बभूव । सऽप्रथाः ।
अभि । श्रवःऽभिः । पृथिवीम् ॥abhí ǀ yáḥ ǀ mahinā́ ǀ dívam ǀ mitráḥ ǀ babhū́va ǀ sa-práthāḥ ǀ
abhí ǀ śrávaḥ-bhiḥ ǀ pṛthivī́m ǁabhi ǀ yaḥ ǀ mahinā ǀ divam ǀ mitraḥ ǀ babhūva ǀ sa-prathāḥ ǀ
abhi ǀ śravaḥ-bhiḥ ǀ pṛthivīm ǁ3.59.7 Aṣṭaka 3.4.6.2Anuvāka 3.5.74
-
Ṛk 8
मि॒त्राय॒ पंच॑ येमिरे॒ जना॑ अ॒भिष्टि॑शवसे ।
स दे॒वान्विश्वा॑न्बिभर्ति ॥मित्राय पञ्च येमिरे जना अभिष्टिशवसे |
स देवान् विश्वान् बिभर्ति ||mitrā́ya páñca yemire jánā abhíṣṭiśavase ǀ
sá devā́nvíśvānbibharti ǁmitrāya pañca yemire janā abhiṣṭiśavase |
sa devān viśvān bibharti ||मि॒त्राय॑ । पञ्च॑ । ये॒मि॒रे॒ । जनाः॑ । अ॒भिष्टि॑ऽशवसे ।
सः । दे॒वान् । विश्वा॑न् । बि॒भ॒र्ति॒ ॥मित्राय । पञ्च । येमिरे । जनाः । अभिष्टिऽशवसे ।
सः । देवान् । विश्वान् । बिभर्ति ॥mitrā́ya ǀ páñca ǀ yemire ǀ jánāḥ ǀ abhíṣṭi-śavase ǀ
sáḥ ǀ devā́n ǀ víśvān ǀ bibharti ǁmitrāya ǀ pañca ǀ yemire ǀ janāḥ ǀ abhiṣṭi-śavase ǀ
saḥ ǀ devān ǀ viśvān ǀ bibharti ǁ3.59.8 Aṣṭaka 3.4.6.3Anuvāka 3.5.75
-
Ṛk 9
मि॒त्रो दे॒वेष्वा॒युषु॒ जना॑य वृ॒क्तब॑र्हिषे ।
इष॑ इ॒ष्टव्र॑ता अकः ॥मित्रो देवेष्व् आयुषु जनाय वृक्तबर्हिषे |
इष इष्टव्रता अकः ||mitró devéṣvāyúṣu jánāya vṛktábarhiṣe ǀ
íṣa iṣṭávratā akaḥ ǁmitro deveṣv āyuṣu janāya vṛktabarhiṣe |
iṣa iṣṭavratā akaḥ ||मि॒त्रः । दे॒वेषु॑ । आ॒युषु॑ । जना॑य । वृ॒क्तऽब॑र्हिषे ।
इषः॑ । इ॒ष्टऽव्र॑ताः । अ॒क॒रित्य॑कः ॥मित्रः । देवेषु । आयुषु । जनाय । वृक्तऽबर्हिषे ।
इषः । इष्टऽव्रताः । अकरित्यकः ॥mitráḥ ǀ devéṣu ǀ āyúṣu ǀ jánāya ǀ vṛktá-barhiṣe ǀ
íṣaḥ ǀ iṣṭá-vratāḥ ǀ akarítyakaḥ ǁmitraḥ ǀ deveṣu ǀ āyuṣu ǀ janāya ǀ vṛkta-barhiṣe ǀ
iṣaḥ ǀ iṣṭa-vratāḥ ǀ akarityakaḥ ǁ3.59.9 Aṣṭaka 3.4.6.4Anuvāka 3.5.76
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.