Ṛk 3.59.2
Saṃhitā
प्र स मि॑त्र॒ मर्तो॑ अस्तु॒ प्रय॑स्वा॒न्यस्त॑ आदित्य॒ शिक्ष॑ति व्र॒तेन॑ ।
न ह॑न्यते॒ न जी॑यते॒ त्वोतो॒ नैन॒मंहो॑ अश्नो॒त्यंति॑तो॒ न दू॒रात् ॥
प्र स मित्र मर्तो अस्तु प्रयस्वान् यस् त आदित्य शिक्षति व्रतेन |
न हन्यते न जीयते त्वोतो नैनम् अंहो अश्नोत्य् अन्तितो न दूरात् ||
prá sá mitra márto astu práyasvānyásta āditya śíkṣati vraténa ǀ
ná hanyate ná jīyate tvóto náinamáṃho aśnotyántito ná dūrā́t ǁ
pra sa mitra marto astu prayasvān yas ta āditya śikṣati vratena |
na hanyate na jīyate tvoto nainam aṃho aśnoty antito na dūrāt ||
Padapāṭha
प्र । सः । मि॒त्र॒ । मर्तः॑ । अ॒स्तु॒ । प्रय॑स्वान् । यः । ते॒ । आ॒दि॒त्य॒ । शिक्ष॑ति । व्र॒तेन॑ ।
न । ह॒न्य॒ते॒ । न । जी॒य॒ते॒ । त्वाऽऊ॑तः । न । ए॒न॒म् । अंहः॑ । अ॒श्नो॒ति॒ । अन्ति॑तः । न । दू॒रात् ॥
प्र । सः । मित्र । मर्तः । अस्तु । प्रयस्वान् । यः । ते । आदित्य । शिक्षति । व्रतेन ।
न । हन्यते । न । जीयते । त्वाऽऊतः । न । एनम् । अंहः । अश्नोति । अन्तितः । न । दूरात् ॥
prá ǀ sáḥ ǀ mitra ǀ mártaḥ ǀ astu ǀ práyasvān ǀ yáḥ ǀ te ǀ āditya ǀ śíkṣati ǀ vraténa ǀ
ná ǀ hanyate ǀ ná ǀ jīyate ǀ tvā́-ūtaḥ ǀ ná ǀ enam ǀ áṃhaḥ ǀ aśnoti ǀ ántitaḥ ǀ ná ǀ dūrā́t ǁ
pra ǀ saḥ ǀ mitra ǀ martaḥ ǀ astu ǀ prayasvān ǀ yaḥ ǀ te ǀ āditya ǀ śikṣati ǀ vratena ǀ
na ǀ hanyate ǀ na ǀ jīyate ǀ tvā-ūtaḥ ǀ na ǀ enam ǀ aṃhaḥ ǀ aśnoti ǀ antitaḥ ǀ na ǀ dūrāt ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 03.059.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.4.05.02
- Maṇḍala · Anuvāka · Ṛk
- 03.05.069
- Devatā देवता
- Mitra
- Ṛṣi ऋषि
- Viśvāmitra Gāthina
- Chandas छन्दस्
- Triṣṭubh, Gāyatrī
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.