Ṛgveda · Maṇḍala 3

Sūkta 34

Indra · Viśvāmitra Gāthina · 11 ṛks

Link
Devatā देवता
Indra
Ṛṣi ऋषि
Viśvāmitra Gāthina
Chandas छन्दस्
Triṣṭubh
Metres by ṛk

1st set of styles nicṛttriṣṭup (4, 5, 7, 10); triṣṭup (1, 2, 11); bhurikpaṅkti (3, 6, 8); virāṭtrisṭup (9)

2nd set of styles triṣṭubh

  1. Ṛk 1

    इंद्रः॑ पू॒र्भिदाति॑र॒द्दास॑म॒र्कैर्वि॒दद्व॑सु॒र्दय॑मानो॒ वि शत्रू॑न् ।
    ब्रह्म॑जूतस्त॒न्वा॑ वावृधा॒नो भूरि॑दात्र॒ आपृ॑ण॒द्रोद॑सी उ॒भे ॥

    इन्द्रः पूर्भिद् आतिरद् दासम् अर्कैर् विदद्वसुर् दयमानो वि शत्रून् |
    ब्रह्मजूतस् तन्वा वावृधानो भूरिदात्र आपृणद् रोदसी उभे ||

    índraḥ pūrbhídā́tiraddā́samarkáirvidádvasurdáyamāno ví śátrūn ǀ
    bráhmajūtastanvā́ vāvṛdhānó bhū́ridātra ā́pṛṇadródasī ubhé ǁ

    indraḥ pūrbhid ātirad dāsam arkair vidadvasur dayamāno vi śatrūn |
    brahmajūtas tanvā vāvṛdhāno bhūridātra āpṛṇad rodasī ubhe ||

    इन्द्रः॑ । पूः॒ऽभित् । आ । अ॒ति॒र॒त् । दास॑म् । अ॒र्कैः । वि॒दत्ऽव॑सुः । दय॑मानः । वि । शत्रू॑न् ।
    ब्रह्म॑ऽजूतः । त॒न्वा॑ । व॒वृ॒धा॒नः । भूरि॑ऽदात्रः । आ । अ॒पृ॒ण॒त् । रोद॑सी॒ इति॑ । उ॒भे इति॑ ॥

    इन्द्रः । पूःऽभित् । आ । अतिरत् । दासम् । अर्कैः । विदत्ऽवसुः । दयमानः । वि । शत्रून् ।
    ब्रह्मऽजूतः । तन्वा । ववृधानः । भूरिऽदात्रः । आ । अपृणत् । रोदसी इति । उभे इति ॥

    índraḥ ǀ pūḥ-bhít ǀ ā́ ǀ atirat ǀ dā́sam ǀ arkáiḥ ǀ vidát-vasuḥ ǀ dáyamānaḥ ǀ ví ǀ śátrūn ǀ
    bráhma-jūtaḥ ǀ tanvā́ ǀ vavṛdhānáḥ ǀ bhū́ri-dātraḥ ǀ ā́ ǀ apṛṇat ǀ ródasī íti ǀ ubhé íti ǁ

    indraḥ ǀ pūḥ-bhit ǀ ā ǀ atirat ǀ dāsam ǀ arkaiḥ ǀ vidat-vasuḥ ǀ dayamānaḥ ǀ vi ǀ śatrūn ǀ
    brahma-jūtaḥ ǀ tanvā ǀ vavṛdhānaḥ ǀ bhūri-dātraḥ ǀ ā ǀ apṛṇat ǀ rodasī iti ǀ ubhe iti ǁ

    3.34.1 Aṣṭaka 3.2.15.1Anuvāka 3.3.75

  2. Ṛk 2

    म॒खस्य॑ ते तवि॒षस्य॒ प्र जू॒तिमिय॑र्मि॒ वाच॑म॒मृता॑य॒ भूष॑न् ।
    इंद्र॑ क्षिती॒नाम॑सि॒ मानु॑षीणां वि॒शां दैवी॑नामु॒त पू॑र्व॒यावा॑ ॥

    मखस्य ते तविषस्य प्र जूतिम् इयर्मि वाचम् अमृताय भूषन् |
    इन्द्र क्षितीनाम् असि मानुषीणां विशां दैवीनाम् उत पूर्वयावा ||

    makhásya te taviṣásya prá jūtímíyarmi vā́camamṛ́tāya bhū́ṣan ǀ
    índra kṣitīnā́masi mā́nuṣīṇām viśā́m dáivīnāmutá pūrvayā́vā ǁ

    makhasya te taviṣasya pra jūtim iyarmi vācam amṛtāya bhūṣan |
    indra kṣitīnām asi mānuṣīṇāṃ viśāṃ daivīnām uta pūrvayāvā ||

    म॒खस्य॑ । ते॒ । त॒वि॒षस्य॑ । प्र । जू॒तिम् । इय॑र्मि । वाच॑म् । अ॒मृता॑य । भूष॑न् ।
    इन्द्र॑ । क्षि॒ती॒नाम् । अ॒सि॒ । मानु॑षीणाम् । वि॒शाम् । दैवी॑नाम् । उ॒त । पू॒र्व॒ऽयावा॑ ॥

    मखस्य । ते । तविषस्य । प्र । जूतिम् । इयर्मि । वाचम् । अमृताय । भूषन् ।
    इन्द्र । क्षितीनाम् । असि । मानुषीणाम् । विशाम् । दैवीनाम् । उत । पूर्वऽयावा ॥

    makhásya ǀ te ǀ taviṣásya ǀ prá ǀ jūtím ǀ íyarmi ǀ vā́cam ǀ amṛ́tāya ǀ bhū́ṣan ǀ
    índra ǀ kṣitīnā́m ǀ asi ǀ mā́nuṣīṇām ǀ viśā́m ǀ dáivīnām ǀ utá ǀ pūrva-yā́vā ǁ

    makhasya ǀ te ǀ taviṣasya ǀ pra ǀ jūtim ǀ iyarmi ǀ vācam ǀ amṛtāya ǀ bhūṣan ǀ
    indra ǀ kṣitīnām ǀ asi ǀ mānuṣīṇām ǀ viśām ǀ daivīnām ǀ uta ǀ pūrva-yāvā ǁ

    3.34.2 Aṣṭaka 3.2.15.2Anuvāka 3.3.76

  3. Ṛk 3

    इंद्रो॑ वृ॒त्रम॑वृणो॒च्छर्ध॑नीतिः॒ प्र मा॒यिना॑ममिना॒द्वर्प॑णीतिः ।
    अह॒न्व्यं॑समु॒शध॒ग्वने॑ष्वा॒विर्धेना॑ अकृणोद्रा॒म्याणां॑ ॥

    इन्द्रो वृत्रम् अवृणोच् छर्धनीतिः प्र मायिनाम् अमिनाद् वर्पणीतिः |
    अहन् व्यंसम् उशधग् वनेष्व् आविर् धेना अकृणोद् राम्याणाम् ||

    índro vṛtrámavṛṇocchárdhanītiḥ prá māyínāmaminādvárpaṇītiḥ ǀ
    áhanvyáṃsamuśádhagváneṣvāvírdhénā akṛṇodrāmyā́ṇām ǁ

    indro vṛtram avṛṇoc chardhanītiḥ pra māyinām aminād varpaṇītiḥ |
    ahan vyaṃsam uśadhag vaneṣv āvir dhenā akṛṇod rāmyāṇām ||

    इन्द्रः॑ । वृ॒त्रम् । अ॒वृ॒णो॒त् । शर्ध॑ऽनीतिः । प्र । मा॒यिना॑म् । अ॒मि॒ना॒त् । वर्प॑ऽनीतिः ।
    अह॑न् । विऽअं॑सम् । उ॒शध॑क् । वने॑षु । आ॒विः । धेनाः॑ । अ॒कृ॒णो॒त् । रा॒म्याणा॑म् ॥

    इन्द्रः । वृत्रम् । अवृणोत् । शर्धऽनीतिः । प्र । मायिनाम् । अमिनात् । वर्पऽनीतिः ।
    अहन् । विऽअंसम् । उशधक् । वनेषु । आविः । धेनाः । अकृणोत् । राम्याणाम् ॥

    índraḥ ǀ vṛtrám ǀ avṛṇot ǀ śárdha-nītiḥ ǀ prá ǀ māyínām ǀ amināt ǀ várpa-nītiḥ ǀ
    áhan ǀ ví-aṃsam ǀ uśádhak ǀ váneṣu ǀ āvíḥ ǀ dhénāḥ ǀ akṛṇot ǀ rāmyā́ṇām ǁ

    indraḥ ǀ vṛtram ǀ avṛṇot ǀ śardha-nītiḥ ǀ pra ǀ māyinām ǀ amināt ǀ varpa-nītiḥ ǀ
    ahan ǀ vi-aṃsam ǀ uśadhak ǀ vaneṣu ǀ āviḥ ǀ dhenāḥ ǀ akṛṇot ǀ rāmyāṇām ǁ

    3.34.3 Aṣṭaka 3.2.15.3Anuvāka 3.3.77

  4. Ṛk 4

    इंद्रः॑ स्व॒र्षा ज॒नय॒न्नहा॑नि जि॒गायो॒शिग्भिः॒ पृत॑ना अभि॒ष्टिः ।
    प्रारो॑चय॒न्मन॑वे के॒तुमह्ना॒मविं॑द॒ज्ज्योति॑र्बृह॒ते रणा॑य ॥

    इन्द्रः स्वर्षा जनयन्न् अहानि जिगायोशिग्भिः पृतना अभिष्टिः |
    प्रारोचयन् मनवे केतुम् अह्नाम् अविन्दज् ज्योतिर् बृहते रणाय ||

    índraḥ svarṣā́ janáyannáhāni jigā́yośígbhiḥ pṛ́tanā abhiṣṭíḥ ǀ
    prā́rocayanmánave ketúmáhnāmávindajjyótirbṛhaté ráṇāya ǁ

    indraḥ svarṣā janayann ahāni jigāyośigbhiḥ pṛtanā abhiṣṭiḥ |
    prārocayan manave ketum ahnām avindaj jyotir bṛhate raṇāya ||

    इन्द्रः॑ । स्वः॒ऽसाः । ज॒नय॑न् । अहा॑नि । जि॒गाय॑ । उ॒शिक्ऽभिः॑ । पृत॑नाः । अ॒भि॒ष्टिः ।
    प्र । अ॒रो॒च॒य॒त् । मन॑वे । के॒तुम् । अह्ना॑म् । अवि॑न्दत् । ज्योतिः॑ । बृ॒ह॒ते । रणा॑य ॥

    इन्द्रः । स्वःऽसाः । जनयन् । अहानि । जिगाय । उशिक्ऽभिः । पृतनाः । अभिष्टिः ।
    प्र । अरोचयत् । मनवे । केतुम् । अह्नाम् । अविन्दत् । ज्योतिः । बृहते । रणाय ॥

    índraḥ ǀ svaḥ-sā́ḥ ǀ janáyan ǀ áhāni ǀ jigā́ya ǀ uśík-bhiḥ ǀ pṛ́tanāḥ ǀ abhiṣṭíḥ ǀ
    prá ǀ arocayat ǀ mánave ǀ ketúm ǀ áhnām ǀ ávindat ǀ jyótiḥ ǀ bṛhaté ǀ ráṇāya ǁ

    indraḥ ǀ svaḥ-sāḥ ǀ janayan ǀ ahāni ǀ jigāya ǀ uśik-bhiḥ ǀ pṛtanāḥ ǀ abhiṣṭiḥ ǀ
    pra ǀ arocayat ǀ manave ǀ ketum ǀ ahnām ǀ avindat ǀ jyotiḥ ǀ bṛhate ǀ raṇāya ǁ

    3.34.4 Aṣṭaka 3.2.15.4Anuvāka 3.3.78

  5. Ṛk 5

    इंद्र॒स्तुजो॑ ब॒र्हणा॒ आ वि॑वेश नृ॒वद्दधा॑नो॒ नर्या॑ पु॒रूणि॑ ।
    अचे॑तय॒द्धिय॑ इ॒मा ज॑रि॒त्रे प्रेमं वर्ण॑मतिरच्छु॒क्रमा॑सां ॥

    इन्द्रस् तुजो बर्हणा आ विवेश नृवद् दधानो नर्या पुरूणि |
    अचेतयद् धिय इमा जरित्रे प्रेमं वर्णम् अतिरच् छुक्रम् आसाम् ||

    índrastújo barháṇā ā́ viveśa nṛváddádhāno náryā purū́ṇi ǀ
    ácetayaddhíya imā́ jaritré prémám várṇamatiracchukrámāsām ǁ

    indras tujo barhaṇā ā viveśa nṛvad dadhāno naryā purūṇi |
    acetayad dhiya imā jaritre premaṃ varṇam atirac chukram āsām ||

    इन्द्रः॑ । तुजः॑ । ब॒र्हणाः॑ । आ । वि॒वे॒श॒ । नृ॒ऽवत् । दधा॑नः । नर्या॑ । पु॒रूणि॑ ।
    अचे॑तयत् । धियः॑ । इ॒माः । ज॒रि॒त्रे । प्र । इ॒मम् । वर्ण॑म् । अ॒ति॒र॒त् । शु॒क्रम् । आ॒सा॒म् ॥

    इन्द्रः । तुजः । बर्हणाः । आ । विवेश । नृऽवत् । दधानः । नर्या । पुरूणि ।
    अचेतयत् । धियः । इमाः । जरित्रे । प्र । इमम् । वर्णम् । अतिरत् । शुक्रम् । आसाम् ॥

    índraḥ ǀ tújaḥ ǀ barháṇāḥ ǀ ā́ ǀ viveśa ǀ nṛ-vát ǀ dádhānaḥ ǀ náryā ǀ purū́ṇi ǀ
    ácetayat ǀ dhíyaḥ ǀ imā́ḥ ǀ jaritré ǀ prá ǀ imám ǀ várṇam ǀ atirat ǀ śukrám ǀ āsām ǁ

    indraḥ ǀ tujaḥ ǀ barhaṇāḥ ǀ ā ǀ viveśa ǀ nṛ-vat ǀ dadhānaḥ ǀ naryā ǀ purūṇi ǀ
    acetayat ǀ dhiyaḥ ǀ imāḥ ǀ jaritre ǀ pra ǀ imam ǀ varṇam ǀ atirat ǀ śukram ǀ āsām ǁ

    3.34.5 Aṣṭaka 3.2.15.5Anuvāka 3.3.79

  6. Ṛk 6

    म॒हो म॒हानि॑ पनयंत्य॒स्येंद्र॑स्य॒ कर्म॒ सुकृ॑ता पु॒रूणि॑ ।
    वृ॒जने॑न वृजि॒नान्त्सं पि॑पेष मा॒याभि॒र्दस्यूँ॑र॒भिभू॑त्योजाः ॥

    महो महानि पनयन्त्य् अस्येन्द्रस्य कर्म सुकृता पुरूणि |
    वृजनेन वृजिनान् सम् पिपेष मायाभिर् दस्यूंर् अभिभूत्योजाः ||

    mahó mahā́ni panayantyasyéndrasya kárma súkṛtā purū́ṇi ǀ
    vṛjánena vṛjinā́ntsám pipeṣa māyā́bhirdásyūm̐rabhíbhūtyojāḥ ǁ

    maho mahāni panayanty asyendrasya karma sukṛtā purūṇi |
    vṛjanena vṛjinān sam pipeṣa māyābhir dasyūṃr abhibhūtyojāḥ ||

    म॒हः । म॒हानि॑ । प॒न॒य॒न्ति॒ । अ॒स्य॒ । इन्द्र॑स्य । कर्म॑ । सुऽकृ॑ता । पु॒रूणि॑ ।
    वृ॒जने॑न । वृ॒जि॒नान् । सम् । पि॒पे॒ष॒ । मा॒याभिः॑ । दस्यू॑न् । अ॒भिभू॑तिऽओजाः ॥

    महः । महानि । पनयन्ति । अस्य । इन्द्रस्य । कर्म । सुऽकृता । पुरूणि ।
    वृजनेन । वृजिनान् । सम् । पिपेष । मायाभिः । दस्यून् । अभिभूतिऽओजाः ॥

    maháḥ ǀ mahā́ni ǀ panayanti ǀ asya ǀ índrasya ǀ kárma ǀ sú-kṛtā ǀ purū́ṇi ǀ
    vṛjánena ǀ vṛjinā́n ǀ sám ǀ pipeṣa ǀ māyā́bhiḥ ǀ dásyūn ǀ abhíbhūti-ojāḥ ǁ

    mahaḥ ǀ mahāni ǀ panayanti ǀ asya ǀ indrasya ǀ karma ǀ su-kṛtā ǀ purūṇi ǀ
    vṛjanena ǀ vṛjinān ǀ sam ǀ pipeṣa ǀ māyābhiḥ ǀ dasyūn ǀ abhibhūti-ojāḥ ǁ

    3.34.6 Aṣṭaka 3.2.16.1Anuvāka 3.3.80

  7. Ṛk 7

    यु॒धेंद्रो॑ म॒ह्ना वरि॑वश्चकार दे॒वेभ्यः॒ सत्प॑तिश्चर्षणि॒प्राः ।
    वि॒वस्व॑तः॒ सद॑ने अस्य॒ तानि॒ विप्रा॑ उ॒क्थेभिः॑ क॒वयो॑ गृणंति ॥

    युधेन्द्रो मह्ना वरिवश् चकार देवेभ्यः सत्पतिश् चर्षणिप्राः |
    विवस्वतः सदने अस्य तानि विप्रा उक्थेभिः कवयो गृणन्ति ||

    yudhéndro mahnā́ várivaścakāra devébhyaḥ sátpatiścarṣaṇiprā́ḥ ǀ
    vivásvataḥ sádane asya tā́ni víprā ukthébhiḥ kaváyo gṛṇanti ǁ

    yudhendro mahnā varivaś cakāra devebhyaḥ satpatiś carṣaṇiprāḥ |
    vivasvataḥ sadane asya tāni viprā ukthebhiḥ kavayo gṛṇanti ||

    यु॒धा । इन्द्रः॑ । म॒ह्ना । वरि॑वः । च॒का॒र॒ । दे॒वेभ्यः॑ । सत्ऽप॑तिः । च॒र्ष॒णि॒ऽप्राः ।
    वि॒वस्व॑तः । सद॑ने । अ॒स्य॒ । तानि॑ । विप्राः॑ । उ॒क्थेभिः॑ । क॒वयः॑ । गृ॒ण॒न्ति॒ ॥

    युधा । इन्द्रः । मह्ना । वरिवः । चकार । देवेभ्यः । सत्ऽपतिः । चर्षणिऽप्राः ।
    विवस्वतः । सदने । अस्य । तानि । विप्राः । उक्थेभिः । कवयः । गृणन्ति ॥

    yudhā́ ǀ índraḥ ǀ mahnā́ ǀ várivaḥ ǀ cakāra ǀ devébhyaḥ ǀ sát-patiḥ ǀ carṣaṇi-prā́ḥ ǀ
    vivásvataḥ ǀ sádane ǀ asya ǀ tā́ni ǀ víprāḥ ǀ ukthébhiḥ ǀ kaváyaḥ ǀ gṛṇanti ǁ

    yudhā ǀ indraḥ ǀ mahnā ǀ varivaḥ ǀ cakāra ǀ devebhyaḥ ǀ sat-patiḥ ǀ carṣaṇi-prāḥ ǀ
    vivasvataḥ ǀ sadane ǀ asya ǀ tāni ǀ viprāḥ ǀ ukthebhiḥ ǀ kavayaḥ ǀ gṛṇanti ǁ

    3.34.7 Aṣṭaka 3.2.16.2Anuvāka 3.3.81

  8. Ṛk 8

    स॒त्रा॒साहं॒ वरे॑ण्यं सहो॒दां स॑स॒वांसं॒ स्व॑र॒पश्च॑ दे॒वीः ।
    स॒सान॒ यः पृ॑थि॒वीं द्यामु॒तेमामिंद्रं॑ मदं॒त्यनु॒ धीर॑णासः ॥

    सत्रासाहं वरेण्यं सहोदां ससवांसं स्वर् अपश् च देवीः |
    ससान यः पृथिवीं द्याम् उतेमाम् इन्द्रम् मदन्त्य् अनु धीरणासः ||

    satrāsā́ham váreṇyam sahodā́m sasavā́ṃsam svárapáśca devī́ḥ ǀ
    sasā́na yáḥ pṛthivī́m dyā́mutémā́míndram madantyánu dhī́raṇāsaḥ ǁ

    satrāsāhaṃ vareṇyaṃ sahodāṃ sasavāṃsaṃ svar apaś ca devīḥ |
    sasāna yaḥ pṛthivīṃ dyām utemām indram madanty anu dhīraṇāsaḥ ||

    स॒त्रा॒ऽसह॑म् । वरे॑ण्यम् । स॒हः॒ऽदाम् । स॒स॒वांस॑म् । स्वः॑ । अ॒पः । च॒ । दे॒वीः ।
    स॒सान॑ । यः । पृ॒थि॒वीम् । द्याम् । उ॒त । इ॒माम् । इन्द्र॑म् । म॒द॒न्ति॒ । अनु॑ । धीऽर॑णासः ॥

    सत्राऽसहम् । वरेण्यम् । सहःऽदाम् । ससवांसम् । स्वः । अपः । च । देवीः ।
    ससान । यः । पृथिवीम् । द्याम् । उत । इमाम् । इन्द्रम् । मदन्ति । अनु । धीऽरणासः ॥

    satrā-sáham ǀ váreṇyam ǀ sahaḥ-dā́m ǀ sasavā́ṃsam ǀ sváḥ ǀ apáḥ ǀ ca ǀ devī́ḥ ǀ
    sasā́na ǀ yáḥ ǀ pṛthivī́m ǀ dyā́m ǀ utá ǀ imā́m ǀ índram ǀ madanti ǀ ánu ǀ dhī́-raṇāsaḥ ǁ

    satrā-saham ǀ vareṇyam ǀ sahaḥ-dām ǀ sasavāṃsam ǀ svaḥ ǀ apaḥ ǀ ca ǀ devīḥ ǀ
    sasāna ǀ yaḥ ǀ pṛthivīm ǀ dyām ǀ uta ǀ imām ǀ indram ǀ madanti ǀ anu ǀ dhī-raṇāsaḥ ǁ

    3.34.8 Aṣṭaka 3.2.16.3Anuvāka 3.3.82

  9. Ṛk 9

    स॒सानात्याँ॑ उ॒त सूर्यं॑ ससा॒नेंद्रः॑ ससान पुरु॒भोज॑सं॒ गां ।
    हि॒र॒ण्यय॑मु॒त भोगं॑ ससान ह॒त्वी दस्यू॒न्प्रार्यं॒ वर्ण॑मावत् ॥

    ससानात्यां उत सूर्यं ससानेन्द्रः ससान पुरुभोजसं गाम् |
    हिरण्ययम् उत भोगं ससान हत्वी दस्यून् प्रार्यं वर्णम् आवत् ||

    sasā́nā́tyām̐ utá sū́ryam sasānéndraḥ sasāna purubhójasam gā́m ǀ
    hiraṇyáyamutá bhógam sasāna hatvī́ dásyūnprā́ryam várṇamāvat ǁ

    sasānātyāṃ uta sūryaṃ sasānendraḥ sasāna purubhojasaṃ gām |
    hiraṇyayam uta bhogaṃ sasāna hatvī dasyūn prāryaṃ varṇam āvat ||

    स॒सान॑ । अत्या॑न् । उ॒त । सूर्य॑म् । स॒सा॒न॒ । इन्द्रः॑ । स॒सा॒न॒ । पु॒रु॒ऽभोज॑सम् । गाम् ।
    हि॒र॒ण्यय॑म् । उ॒त । भोग॑म् । स॒सा॒न॒ । ह॒त्वी । दस्यू॑न् । प्र । आर्य॑म् । वर्ण॑म् । आ॒व॒त् ॥

    ससान । अत्यान् । उत । सूर्यम् । ससान । इन्द्रः । ससान । पुरुऽभोजसम् । गाम् ।
    हिरण्ययम् । उत । भोगम् । ससान । हत्वी । दस्यून् । प्र । आर्यम् । वर्णम् । आवत् ॥

    sasā́na ǀ átyān ǀ utá ǀ sū́ryam ǀ sasāna ǀ índraḥ ǀ sasāna ǀ puru-bhójasam ǀ gā́m ǀ
    hiraṇyáyam ǀ utá ǀ bhógam ǀ sasāna ǀ hatvī́ ǀ dásyūn ǀ prá ǀ ā́ryam ǀ várṇam ǀ āvat ǁ

    sasāna ǀ atyān ǀ uta ǀ sūryam ǀ sasāna ǀ indraḥ ǀ sasāna ǀ puru-bhojasam ǀ gām ǀ
    hiraṇyayam ǀ uta ǀ bhogam ǀ sasāna ǀ hatvī ǀ dasyūn ǀ pra ǀ āryam ǀ varṇam ǀ āvat ǁ

    3.34.9 Aṣṭaka 3.2.16.4Anuvāka 3.3.83

  10. Ṛk 10

    इंद्र॒ ओष॑धीरसनो॒दहा॑नि॒ वन॒स्पतीँ॑रसनोदं॒तरि॑क्षं ।
    बि॒भेद॑ व॒लं नु॑नु॒दे विवा॒चोऽथा॑भवद्दमि॒ताभिक्र॑तूनां ॥

    इन्द्र ओषधीर् असनोद् अहानि वनस्पतींर् असनोद् अन्तरिक्षम् |
    बिभेद वलं नुनुदे विवाचो ऽथाभवद् दमिताभिक्रतूनाम् ||

    índra óṣadhīrasanodáhāni vánaspátīm̐rasanodantárikṣam ǀ
    bibhéda valám nunudé vívācó’thābhavaddamitā́bhíkratūnām ǁ

    indra oṣadhīr asanod ahāni vanaspatīṃr asanod antarikṣam |
    bibheda valaṃ nunude vivāco 'thābhavad damitābhikratūnām ||

    इन्द्रः॑ । ओष॑धीः । अ॒स॒नो॒त् । अहा॑नि । वन॒स्पती॑न् । अ॒स॒नो॒त् । अ॒न्तरि॑क्षम् ।
    बि॒भेद॑ । व॒लम् । नु॒नु॒दे । विऽवा॑चः । अथ॑ । अ॒भ॒व॒त् । द॒मि॒ता । अ॒भिऽक्र॑तूनाम् ॥

    इन्द्रः । ओषधीः । असनोत् । अहानि । वनस्पतीन् । असनोत् । अन्तरिक्षम् ।
    बिभेद । वलम् । नुनुदे । विऽवाचः । अथ । अभवत् । दमिता । अभिऽक्रतूनाम् ॥

    índraḥ ǀ óṣadhīḥ ǀ asanot ǀ áhāni ǀ vánaspátīn ǀ asanot ǀ antárikṣam ǀ
    bibhéda ǀ valám ǀ nunudé ǀ ví-vācaḥ ǀ átha ǀ abhavat ǀ damitā́ ǀ abhí-kratūnām ǁ

    indraḥ ǀ oṣadhīḥ ǀ asanot ǀ ahāni ǀ vanaspatīn ǀ asanot ǀ antarikṣam ǀ
    bibheda ǀ valam ǀ nunude ǀ vi-vācaḥ ǀ atha ǀ abhavat ǀ damitā ǀ abhi-kratūnām ǁ

    3.34.10 Aṣṭaka 3.2.16.5Anuvāka 3.3.84

  11. Ṛk 11

    शु॒नं हु॑वेम म॒घवा॑न॒मिंद्र॑म॒स्मिन्भरे॒ नृत॑मं॒ वाज॑सातौ ।
    शृ॒ण्वंत॑मु॒ग्रमू॒तये॑ स॒मत्सु॒ घ्नंतं॑ वृ॒त्राणि॑ सं॒जितं॒ धना॑नां ॥

    शुनं हुवेम मघवानम् इन्द्रम् अस्मिन् भरे नृतमं वाजसातौ |
    शृण्वन्तम् उग्रम् ऊतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ||

    śunám huvema maghávānamíndramasmínbháre nṛ́tamam vā́jasātau ǀ
    śṛṇvántamugrámūtáye samátsu ghnántam vṛtrā́ṇi saṃjítam dhánānām ǁ

    śunaṃ huvema maghavānam indram asmin bhare nṛtamaṃ vājasātau |
    śṛṇvantam ugram ūtaye samatsu ghnantaṃ vṛtrāṇi saṃjitaṃ dhanānām ||

    शु॒नम् । हु॒वे॒म॒ । म॒घऽवा॑नम् । इन्द्र॑म् । अ॒स्मिन् । भरे॑ । नृऽत॑मम् । वाज॑ऽसातौ ।
    शृ॒ण्वन्त॑म् । उ॒ग्रम् । ऊ॒तये॑ । स॒मत्ऽसु॑ । घ्नन्त॑म् । वृ॒त्राणि॑ । स॒म्ऽजित॑म् । धना॑नाम् ॥

    शुनम् । हुवेम । मघऽवानम् । इन्द्रम् । अस्मिन् । भरे । नृऽतमम् । वाजऽसातौ ।
    शृण्वन्तम् । उग्रम् । ऊतये । समत्ऽसु । घ्नन्तम् । वृत्राणि । सम्ऽजितम् । धनानाम् ॥

    śunám ǀ huvema ǀ maghá-vānam ǀ índram ǀ asmín ǀ bháre ǀ nṛ́-tamam ǀ vā́ja-sātau ǀ
    śṛṇvántam ǀ ugrám ǀ ūtáye ǀ samát-su ǀ ghnántam ǀ vṛtrā́ṇi ǀ sam-jítam ǀ dhánānām ǁ

    śunam ǀ huvema ǀ magha-vānam ǀ indram ǀ asmin ǀ bhare ǀ nṛ-tamam ǀ vāja-sātau ǀ
    śṛṇvantam ǀ ugram ǀ ūtaye ǀ samat-su ǀ ghnantam ǀ vṛtrāṇi ǀ sam-jitam ǀ dhanānām ǁ

    3.34.11 Aṣṭaka 3.2.16.6Anuvāka 3.3.85

Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 3.34 · Indra

Interpretations

Sri Aurobindo

Ṛk 4

Indra who winneth Swar, bringing to birth the days, has conquered by those who desire (uQigbhiU, a word applied like nr to express men and gods, but, like nr also, sometimes especilly indicating the Angirasas) the armies he attacks, and he has made to shine out for man the vision of the days (ketum ahnDm) and formed the Light for the great bliss, avindaj jyotir brhate raKDya. (SABCL, Vol. 10, p.144)

Indra, Swar conquring, bringing to birth the days assailed and conqured by the desires (the Angirasas) these armies (of the Dasyuas); he made to shine for man the knowledge-vision of the days (ketum ahnDm), he found the Light for the vast enjoyment;… (SABCL, Vol. 10, p.220)

Ṛk 8

“(They hymn) the supremely desirable, the ever overcoming, the giver of strength who wins possession of Swar and the divine waters; the thinkers have joy in the wake of Indra who takes possession of the earth and the heaven. (SABCL, Vol. 10, p. 220)

Ṛk 9

Indra wins possession of the Steeds, wins the Sun, wins the Cow of the many enjoyments; he wins the golden enjoyment, having slain the Dasyus he fosters (or protects) the Aryan varKa; (SABCL, Vol. 10, p. 220)

Ṛk 10

They set in action (or, praise) many great and perfect works of the great Indra; by his strength he crushes, in his overwhelming energy, by his workings of knowledge (mDyDbhiU) the crooked Dasyus.” (SABCL, Vol. 10, p. 220)