Ṛgveda · Maṇḍala 3

Sūkta 5

Agni · Viśvāmitra Gāthina · 11 ṛks

Link
Devatā देवता
Agni
Ṛṣi ऋषि
Viśvāmitra Gāthina
Chandas छन्दस्
Triṣṭubh
Metres by ṛk

1st set of styles bhurikpaṅkti (1, 2, 11); nicṛttriṣṭup (5, 7, 10); virāṭtrisṭup (8, 9); paṅktiḥ (3); triṣṭup (4); svarāṭpaṅkti (6)

2nd set of styles triṣṭubh

  1. Ṛk 1

    प्रत्य॒ग्निरु॒षस॒श्चेकि॑ता॒नोऽबो॑धि॒ विप्रः॑ पद॒वीः क॑वी॒नां ।
    पृ॒थु॒पाजा॑ देव॒यद्भिः॒ समि॒द्धोऽप॒ द्वारा॒ तम॑सो॒ वह्नि॑रावः ॥

    प्रत्य् अग्निर् उषसश् चेकितानो ऽबोधि विप्रः पदवीः कवीनाम् |
    पृथुपाजा देवयद्भिः समिद्धो ऽप द्वारा तमसो वह्निर् आवः ||

    prátyagníruṣásaścékitānó’bodhi vípraḥ padavī́ḥ kavīnā́m ǀ
    pṛthupā́jā devayádbhiḥ sámiddhó’pa dvā́rā támaso váhnirāvaḥ ǁ

    praty agnir uṣasaś cekitāno 'bodhi vipraḥ padavīḥ kavīnām |
    pṛthupājā devayadbhiḥ samiddho 'pa dvārā tamaso vahnir āvaḥ ||

    प्रति॑ । अ॒ग्निः । उ॒षसः॑ । चेकि॑तानः । अबो॑धि । विप्रः॑ । प॒द॒ऽवीः । क॒वी॒नाम् ।
    पृ॒थु॒ऽपाजाः॑ । दे॒व॒यत्ऽभिः॑ । सम्ऽइ॑द्धः । अप॑ । द्वारा॑ । तम॑सः । वह्निः॑ । आ॒व॒रित्या॑वः ॥

    प्रति । अग्निः । उषसः । चेकितानः । अबोधि । विप्रः । पदऽवीः । कवीनाम् ।
    पृथुऽपाजाः । देवयत्ऽभिः । सम्ऽइद्धः । अप । द्वारा । तमसः । वह्निः । आवरित्यावः ॥

    práti ǀ agníḥ ǀ uṣásaḥ ǀ cékitānaḥ ǀ ábodhi ǀ vípraḥ ǀ pada-vī́ḥ ǀ kavīnā́m ǀ
    pṛthu-pā́jāḥ ǀ devayát-bhiḥ ǀ sám-iddhaḥ ǀ ápa ǀ dvā́rā ǀ támasaḥ ǀ váhniḥ ǀ āvarítyāvaḥ ǁ

    prati ǀ agniḥ ǀ uṣasaḥ ǀ cekitānaḥ ǀ abodhi ǀ vipraḥ ǀ pada-vīḥ ǀ kavīnām ǀ
    pṛthu-pājāḥ ǀ devayat-bhiḥ ǀ sam-iddhaḥ ǀ apa ǀ dvārā ǀ tamasaḥ ǀ vahniḥ ǀ āvarityāvaḥ ǁ

    3.5.1 Aṣṭaka 2.8.24.1Anuvāka 3.1.61

  2. Ṛk 2

    प्रेद्व॒ग्निर्वा॑वृधे॒ स्तोमे॑भिर्गी॒र्भिः स्तो॑तॄ॒णां न॑म॒स्य॑ उ॒क्थैः ।
    पू॒र्वीर्ऋ॒तस्य॑ सं॒दृश॑श्चका॒नः सं दू॒तो अ॑द्यौदु॒षसो॑ विरो॒के ॥

    प्रेद् व् अग्निर् वावृधे स्तोमेभिर् गीर्भि स्तोतॄणां नमस्य उक्थैः |
    पूर्वीर् ऋतस्य संदृशश् चकानः सं दूतो अद्यौद् उषसो विरोके ||

    prédvagnírvāvṛdhe stómebhirgīrbhíḥ stotṝṇā́m namasyá uktháiḥ ǀ
    pūrvī́rṛtásya saṃdṛ́śaścakānáḥ sám dūtó adyauduṣáso viroké ǁ

    pred v agnir vāvṛdhe stomebhir gīrbhi stotṝṇāṃ namasya ukthaiḥ |
    pūrvīr ṛtasya saṃdṛśaś cakānaḥ saṃ dūto adyaud uṣaso viroke ||

    प्र । इत् । ऊं॒ इति॑ । अ॒ग्निः । व॒वृ॒धे॒ । स्तोमे॑भिः । गीः॒ऽभिः । स्तो॒तॄ॒णाम् । न॒म॒स्यः॑ । उ॒क्थैः ।
    पू॒र्वीः । ऋ॒तस्य॑ । स॒म्ऽदृशः॑ । च॒का॒नः । सम् । दू॒तः । अ॒द्यौ॒त् । उ॒षसः॑ । वि॒ऽरो॒के ॥

    प्र । इत् । ऊं इति । अग्निः । ववृधे । स्तोमेभिः । गीःऽभिः । स्तोतॄणाम् । नमस्यः । उक्थैः ।
    पूर्वीः । ऋतस्य । सम्ऽदृशः । चकानः । सम् । दूतः । अद्यौत् । उषसः । विऽरोके ॥

    prá ǀ ít ǀ ūṃ íti ǀ agníḥ ǀ vavṛdhe ǀ stómebhiḥ ǀ gīḥ-bhíḥ ǀ stotṝṇā́m ǀ namasyáḥ ǀ uktháiḥ ǀ
    pūrvī́ḥ ǀ ṛtásya ǀ sam-dṛ́śaḥ ǀ cakānáḥ ǀ sám ǀ dūtáḥ ǀ adyaut ǀ uṣásaḥ ǀ vi-roké ǁ

    pra ǀ it ǀ ūṃ iti ǀ agniḥ ǀ vavṛdhe ǀ stomebhiḥ ǀ gīḥ-bhiḥ ǀ stotṝṇām ǀ namasyaḥ ǀ ukthaiḥ ǀ
    pūrvīḥ ǀ ṛtasya ǀ sam-dṛśaḥ ǀ cakānaḥ ǀ sam ǀ dūtaḥ ǀ adyaut ǀ uṣasaḥ ǀ vi-roke ǁ

    3.5.2 Aṣṭaka 2.8.24.2Anuvāka 3.1.62

  3. Ṛk 3

    अधा॑य्य॒ग्निर्मानु॑षीषु वि॒क्ष्व१॒॑पां गर्भो॑ मि॒त्र ऋ॒तेन॒ साध॑न् ।
    आ ह॑र्य॒तो य॑ज॒तः सान्व॑स्था॒दभू॑दु॒ विप्रो॒ हव्यो॑ मती॒नां ॥

    अधाय्य् अग्निर् मानुषीषु विक्ष्व् अपां गर्भो मित्र ऋतेन साधन् |
    आ हर्यतो यजतः सान्व् अस्थाद् अभूद् उ विप्रो हव्यो मतीनाम् ||

    ádhāyyagnírmā́nuṣīṣu vikṣvápā́m gárbho mitrá ṛténa sā́dhan ǀ
    ā́ haryató yajatáḥ sā́nvasthādábhūdu vípro hávyo matīnā́m ǁ

    adhāyy agnir mānuṣīṣu vikṣv apāṃ garbho mitra ṛtena sādhan |
    ā haryato yajataḥ sānv asthād abhūd u vipro havyo matīnām ||

    अधा॑यि । अ॒ग्निः । मानु॑षीषु । वि॒क्षु । अ॒पाम् । गर्भः॑ । मि॒त्रः । ऋ॒तेन॑ । साध॑न् ।
    आ । ह॒र्य॒तः । य॒ज॒तः । सानु॑ । अ॒स्था॒त् । अभू॑त् । ऊं॒ इति॑ । विप्रः॑ । हव्यः॑ । म॒ती॒नाम् ॥

    अधायि । अग्निः । मानुषीषु । विक्षु । अपाम् । गर्भः । मित्रः । ऋतेन । साधन् ।
    आ । हर्यतः । यजतः । सानु । अस्थात् । अभूत् । ऊं इति । विप्रः । हव्यः । मतीनाम् ॥

    ádhāyi ǀ agníḥ ǀ mā́nuṣīṣu ǀ vikṣú ǀ apā́m ǀ gárbhaḥ ǀ mitráḥ ǀ ṛténa ǀ sā́dhan ǀ
    ā́ ǀ haryatáḥ ǀ yajatáḥ ǀ sā́nu ǀ asthāt ǀ ábhūt ǀ ūṃ íti ǀ vípraḥ ǀ hávyaḥ ǀ matīnā́m ǁ

    adhāyi ǀ agniḥ ǀ mānuṣīṣu ǀ vikṣu ǀ apām ǀ garbhaḥ ǀ mitraḥ ǀ ṛtena ǀ sādhan ǀ
    ā ǀ haryataḥ ǀ yajataḥ ǀ sānu ǀ asthāt ǀ abhūt ǀ ūṃ iti ǀ vipraḥ ǀ havyaḥ ǀ matīnām ǁ

    3.5.3 Aṣṭaka 2.8.24.3Anuvāka 3.1.63

  4. Ṛk 4

    मि॒त्रो अ॒ग्निर्भ॑वति॒ यत्समि॑द्धो मि॒त्रो होता॒ वरु॑णो जा॒तवे॑दाः ।
    मि॒त्रो अ॑ध्व॒र्युरि॑षि॒रो दमू॑ना मि॒त्रः सिंधू॑नामु॒त पर्व॑तानां ॥

    मित्रो अग्निर् भवति यत् समिद्धो मित्रो होता वरुणो जातवेदाः |
    मित्रो अध्वर्युर् इषिरो दमूना मित्रः सिन्धूनाम् उत पर्वतानाम् ||

    mitró agnírbhavati yátsámiddho mitró hótā váruṇo jātávedāḥ ǀ
    mitró adhvaryúriṣiró dámūnā mitráḥ síndhūnāmutá párvatānām ǁ

    mitro agnir bhavati yat samiddho mitro hotā varuṇo jātavedāḥ |
    mitro adhvaryur iṣiro damūnā mitraḥ sindhūnām uta parvatānām ||

    मि॒त्रः । अ॒ग्निः । भ॒व॒ति॒ । यत् । सम्ऽइ॑द्धः । मि॒त्रः । होता॑ । वरु॑णः । जा॒तऽवे॑दाः ।
    मि॒त्रः । अ॒ध्व॒र्युः । इ॒षि॒रः । दमू॑नाः । मि॒त्रः । सिन्धू॑नाम् । उ॒त । पर्व॑तानाम् ॥

    मित्रः । अग्निः । भवति । यत् । सम्ऽइद्धः । मित्रः । होता । वरुणः । जातऽवेदाः ।
    मित्रः । अध्वर्युः । इषिरः । दमूनाः । मित्रः । सिन्धूनाम् । उत । पर्वतानाम् ॥

    mitráḥ ǀ agníḥ ǀ bhavati ǀ yát ǀ sám-iddhaḥ ǀ mitráḥ ǀ hótā ǀ váruṇaḥ ǀ jātá-vedāḥ ǀ
    mitráḥ ǀ adhvaryúḥ ǀ iṣiráḥ ǀ dámūnāḥ ǀ mitráḥ ǀ síndhūnām ǀ utá ǀ párvatānām ǁ

    mitraḥ ǀ agniḥ ǀ bhavati ǀ yat ǀ sam-iddhaḥ ǀ mitraḥ ǀ hotā ǀ varuṇaḥ ǀ jāta-vedāḥ ǀ
    mitraḥ ǀ adhvaryuḥ ǀ iṣiraḥ ǀ damūnāḥ ǀ mitraḥ ǀ sindhūnām ǀ uta ǀ parvatānām ǁ

    3.5.4 Aṣṭaka 2.8.24.4Anuvāka 3.1.64

  5. Ṛk 5

    पाति॑ प्रि॒यं रि॒पो अग्रं॑ प॒दं वेः पाति॑ य॒ह्वश्चर॑णं॒ सूर्य॑स्य ।
    पाति॒ नाभा॑ स॒प्तशी॑र्षाणम॒ग्निः पाति॑ दे॒वाना॑मुप॒माद॑मृ॒ष्वः ॥

    पाति प्रियं रिपो अग्रम् पदं वेः पाति यह्वश् चरणं सूर्यस्य |
    पाति नाभा सप्तशीर्षाणम् अग्निः पाति देवानाम् उपमादम् ऋष्वः ||

    pā́ti priyám ripó ágram padám véḥ pā́ti yahváścáraṇam sū́ryasya ǀ
    pā́ti nā́bhā saptáśīrṣāṇamagníḥ pā́ti devā́nāmupamā́damṛṣváḥ ǁ

    pāti priyaṃ ripo agram padaṃ veḥ pāti yahvaś caraṇaṃ sūryasya |
    pāti nābhā saptaśīrṣāṇam agniḥ pāti devānām upamādam ṛṣvaḥ ||

    पाति॑ । प्रि॒यम् । रि॒पः । अग्र॑म् । प॒दम् । वेः । पाति॑ । य॒ह्वः । चर॑णम् । सूर्य॑स्य ।
    पाति॑ । नाभा॑ । स॒प्तऽशी॑र्षाणम् । अ॒ग्निः । पाति॑ । दे॒वाना॑म् । उ॒प॒ऽमाद॑म् । ऋ॒ष्वः ॥

    पाति । प्रियम् । रिपः । अग्रम् । पदम् । वेः । पाति । यह्वः । चरणम् । सूर्यस्य ।
    पाति । नाभा । सप्तऽशीर्षाणम् । अग्निः । पाति । देवानाम् । उपऽमादम् । ऋष्वः ॥

    pā́ti ǀ priyám ǀ ripáḥ ǀ ágram ǀ padám ǀ véḥ ǀ pā́ti ǀ yahváḥ ǀ cáraṇam ǀ sū́ryasya ǀ
    pā́ti ǀ nā́bhā ǀ saptá-śīrṣāṇam ǀ agníḥ ǀ pā́ti ǀ devā́nām ǀ upa-mā́dam ǀ ṛṣváḥ ǁ

    pāti ǀ priyam ǀ ripaḥ ǀ agram ǀ padam ǀ veḥ ǀ pāti ǀ yahvaḥ ǀ caraṇam ǀ sūryasya ǀ
    pāti ǀ nābhā ǀ sapta-śīrṣāṇam ǀ agniḥ ǀ pāti ǀ devānām ǀ upa-mādam ǀ ṛṣvaḥ ǁ

    3.5.5 Aṣṭaka 2.8.24.5Anuvāka 3.1.65

  6. Ṛk 6

    ऋ॒भुश्च॑क्र॒ ईड्यं॒ चारु॒ नाम॒ विश्वा॑नि दे॒वो व॒युना॑नि वि॒द्वान् ।
    स॒सस्य॒ चर्म॑ घृ॒तव॑त्प॒दं वेस्तदिद॒ग्नी र॑क्ष॒त्यप्र॑युच्छन् ॥

    ऋभुश् चक्र ईड्यं चारु नाम विश्वानि देवो वयुनानि विद्वान् |
    ससस्य चर्म घृतवत् पदं वेस् तद् इद् अग्नी रक्षत्य् अप्रयुच्छन् ||

    ṛbhúścakra ī́ḍyam cā́ru nā́ma víśvāni devó vayúnāni vidvā́n ǀ
    sasásya cárma ghṛtávatpadám véstádídagnī́ rakṣatyáprayucchan ǁ

    ṛbhuś cakra īḍyaṃ cāru nāma viśvāni devo vayunāni vidvān |
    sasasya carma ghṛtavat padaṃ ves tad id agnī rakṣaty aprayucchan ||

    ऋ॒भुः । च॒क्रे॒ । ईड्य॑म् । चारु॑ । नाम॑ । विश्वा॑नि । दे॒वः । व॒युना॑नि । वि॒द्वान् ।
    स॒सस्य॑ । चर्म॑ । घृ॒तऽव॑त् । प॒दम् । वेः । तत् । इत् । अ॒ग्निः । र॒क्ष॒ति॒ । अप्र॑ऽयुच्छन् ॥

    ऋभुः । चक्रे । ईड्यम् । चारु । नाम । विश्वानि । देवः । वयुनानि । विद्वान् ।
    ससस्य । चर्म । घृतऽवत् । पदम् । वेः । तत् । इत् । अग्निः । रक्षति । अप्रऽयुच्छन् ॥

    ṛbhúḥ ǀ cakre ǀ ī́ḍyam ǀ cā́ru ǀ nā́ma ǀ víśvāni ǀ deváḥ ǀ vayúnāni ǀ vidvā́n ǀ
    sasásya ǀ cárma ǀ ghṛtá-vat ǀ padám ǀ véḥ ǀ tát ǀ ít ǀ agníḥ ǀ rakṣati ǀ ápra-yucchan ǁ

    ṛbhuḥ ǀ cakre ǀ īḍyam ǀ cāru ǀ nāma ǀ viśvāni ǀ devaḥ ǀ vayunāni ǀ vidvān ǀ
    sasasya ǀ carma ǀ ghṛta-vat ǀ padam ǀ veḥ ǀ tat ǀ it ǀ agniḥ ǀ rakṣati ǀ apra-yucchan ǁ

    3.5.6 Aṣṭaka 2.8.25.1Anuvāka 3.1.66

  7. Ṛk 7

    आ योनि॑म॒ग्निर्घृ॒तवं॑तमस्थात्पृ॒थुप्र॑गाणमु॒शंत॑मुशा॒नः ।
    दीद्या॑नः॒ शुचि॑र्ऋ॒ष्वः पा॑व॒कः पुनः॑पुनर्मा॒तरा॒ नव्य॑सी कः ॥

    आ योनिम् अग्निर् घृतवन्तम् अस्थात् पृथुप्रगाणम् उशन्तम् उशानः |
    दीद्यानः शुचिर् ऋष्वः पावकः पुनः-पुनर् मातरा नव्यसी कः ||

    ā́ yónimagnírghṛtávantamasthātpṛthúpragāṇamuśántamuśānáḥ ǀ
    dī́dyānaḥ śúcirṛṣváḥ pāvakáḥ púnaḥpunarmātárā návyasī kaḥ ǁ

    ā yonim agnir ghṛtavantam asthāt pṛthupragāṇam uśantam uśānaḥ |
    dīdyānaḥ śucir ṛṣvaḥ pāvakaḥ punaḥ-punar mātarā navyasī kaḥ ||

    आ । योनि॑म् । अ॒ग्निः । घृ॒तऽव॑न्तम् । अ॒स्था॒त् । पृ॒थुऽप्र॑गानम् । उ॒शन्त॑म् । उ॒शा॒नः ।
    दीद्या॑नः । शुचिः॑ । ऋ॒ष्वः । पा॒व॒कः । पुनः॑ऽपुनः । मा॒तरा॑ । नव्य॑सी॒ इति॑ । क॒रिति॑ कः ॥

    आ । योनिम् । अग्निः । घृतऽवन्तम् । अस्थात् । पृथुऽप्रगानम् । उशन्तम् । उशानः ।
    दीद्यानः । शुचिः । ऋष्वः । पावकः । पुनःऽपुनः । मातरा । नव्यसी इति । करिति कः ॥

    ā́ ǀ yónim ǀ agníḥ ǀ ghṛtá-vantam ǀ asthāt ǀ pṛthú-pragānam ǀ uśántam ǀ uśānáḥ ǀ
    dī́dyānaḥ ǀ śúciḥ ǀ ṛṣváḥ ǀ pāvakáḥ ǀ púnaḥ-punaḥ ǀ mātárā ǀ návyasī íti ǀ karíti kaḥ ǁ

    ā ǀ yonim ǀ agniḥ ǀ ghṛta-vantam ǀ asthāt ǀ pṛthu-pragānam ǀ uśantam ǀ uśānaḥ ǀ
    dīdyānaḥ ǀ śuciḥ ǀ ṛṣvaḥ ǀ pāvakaḥ ǀ punaḥ-punaḥ ǀ mātarā ǀ navyasī iti ǀ kariti kaḥ ǁ

    3.5.7 Aṣṭaka 2.8.25.2Anuvāka 3.1.67

  8. Ṛk 8

    स॒द्यो जा॒त ओष॑धीभिर्ववक्षे॒ यदी॒ वर्धं॑ति प्र॒स्वो॑ घृ॒तेन॑ ।
    आप॑ इव प्र॒वता॒ शुंभ॑माना उरु॒ष्यद॒ग्निः पि॒त्रोरु॒पस्थे॑ ॥

    सद्यो जात ओषधीभिर् ववक्षे यदी वर्धन्ति प्रस्वो घृतेन |
    आप इव प्रवता शुम्भमाना उरुष्यद् अग्निः पित्रोर् उपस्थे ||

    sadyó jātá óṣadhībhirvavakṣe yádī várdhanti prasvo ghṛténa ǀ
    ā́pa iva pravátā śúmbhamānā uruṣyádagníḥ pitrórupásthe ǁ

    sadyo jāta oṣadhībhir vavakṣe yadī vardhanti prasvo ghṛtena |
    āpa iva pravatā śumbhamānā uruṣyad agniḥ pitror upasthe ||

    स॒द्यः । जा॒तः । ओष॑धीभिः । व॒व॒क्षे॒ । यदि॑ । वर्ध॑न्ति । प्र॒ऽस्वः॑ । घृ॒तेन॑ ।
    आपः॑ऽइव । प्र॒ऽवता॑ । शुम्भ॑मानाः । उ॒रु॒ष्यत् । अ॒ग्निः । पि॒त्रोः । उ॒पऽस्थे॑ ॥

    सद्यः । जातः । ओषधीभिः । ववक्षे । यदि । वर्धन्ति । प्रऽस्वः । घृतेन ।
    आपःऽइव । प्रऽवता । शुम्भमानाः । उरुष्यत् । अग्निः । पित्रोः । उपऽस्थे ॥

    sadyáḥ ǀ jātáḥ ǀ óṣadhībhiḥ ǀ vavakṣe ǀ yádi ǀ várdhanti ǀ pra-sváḥ ǀ ghṛténa ǀ
    ā́paḥ-iva ǀ pra-vátā ǀ śúmbhamānāḥ ǀ uruṣyát ǀ agníḥ ǀ pitróḥ ǀ upá-sthe ǁ

    sadyaḥ ǀ jātaḥ ǀ oṣadhībhiḥ ǀ vavakṣe ǀ yadi ǀ vardhanti ǀ pra-svaḥ ǀ ghṛtena ǀ
    āpaḥ-iva ǀ pra-vatā ǀ śumbhamānāḥ ǀ uruṣyat ǀ agniḥ ǀ pitroḥ ǀ upa-sthe ǁ

    3.5.8 Aṣṭaka 2.8.25.3Anuvāka 3.1.68

  9. Ṛk 9

    उदु॑ ष्टु॒तः स॒मिधा॑ य॒ह्वो अ॑द्यौ॒द्वर्ष्मं॑दि॒वो अधि॒ नाभा॑ पृथि॒व्याः ।
    मि॒त्रो अ॒ग्निरीड्यो॑ मात॒रिश्वा दू॒तो व॑क्षद्य॒जथा॑य दे॒वान् ॥

    उद् उ ष्टुतः समिधा यह्वो अद्यौद् वर्ष्मन् दिवो अधि नाभा पृथिव्याः |
    मित्रो अग्निर् ईड्यो मातरिश्वा दूतो वक्षद् यजथाय देवान् ||

    údu ṣṭutáḥ samídhā yahvó adyaudvárṣmandivó ádhi nā́bhā pṛthivyā́ḥ ǀ
    mitró agnírī́ḍyo mātaríśvā́ dūtó vakṣadyajáthāya devā́n ǁ

    ud u ṣṭutaḥ samidhā yahvo adyaud varṣman divo adhi nābhā pṛthivyāḥ |
    mitro agnir īḍyo mātariśvā dūto vakṣad yajathāya devān ||

    उत् । ऊं॒ इति॑ । स्तु॒तः । स॒म्ऽइधा॑ । य॒ह्वः । अ॒द्यौ॒त् । वर्ष्म॑न् । दि॒वः । अधि॑ । नाभा॑ । पृ॒थि॒व्याः ।
    मि॒त्रः । अ॒ग्निः । ईड्यः॑ । मा॒त॒रिश्वा॑ । आ । दू॒तः । व॒क्ष॒त् । य॒जथा॑य । दे॒वान् ॥

    उत् । ऊं इति । स्तुतः । सम्ऽइधा । यह्वः । अद्यौत् । वर्ष्मन् । दिवः । अधि । नाभा । पृथिव्याः ।
    मित्रः । अग्निः । ईड्यः । मातरिश्वा । आ । दूतः । वक्षत् । यजथाय । देवान् ॥

    út ǀ ūṃ íti ǀ stutáḥ ǀ sam-ídhā ǀ yahváḥ ǀ adyaut ǀ várṣman ǀ diváḥ ǀ ádhi ǀ nā́bhā ǀ pṛthivyā́ḥ ǀ
    mitráḥ ǀ agníḥ ǀ ī́ḍyaḥ ǀ mātaríśvā ǀ ā́ ǀ dūtáḥ ǀ vakṣat ǀ yajáthāya ǀ devā́n ǁ

    ut ǀ ūṃ iti ǀ stutaḥ ǀ sam-idhā ǀ yahvaḥ ǀ adyaut ǀ varṣman ǀ divaḥ ǀ adhi ǀ nābhā ǀ pṛthivyāḥ ǀ
    mitraḥ ǀ agniḥ ǀ īḍyaḥ ǀ mātariśvā ǀ ā ǀ dūtaḥ ǀ vakṣat ǀ yajathāya ǀ devān ǁ

    3.5.9 Aṣṭaka 2.8.25.4Anuvāka 3.1.69

  10. Ṛk 10

    उद॑स्तंभीत्स॒मिधा॒ नाक॑मृ॒ष्वो॒३॒॑ऽग्निर्भव॑न्नुत्त॒मो रो॑च॒नानां॑ ।
    यदी॒ भृगु॑भ्यः॒ परि॑ मात॒रिश्वा॒ गुहा॒ संतं॑ हव्य॒वाहं॑ समी॒धे ॥

    उद् अस्तम्भीत् समिधा नाकम् ऋष्वो ऽग्निर् भवन्न् उत्तमो रोचनानाम् |
    यदी भृगुभ्यः परि मातरिश्वा गुहा सन्तं हव्यवाहं समीधे ||

    údastambhītsamídhā nā́kamṛṣvo’gnírbhávannuttamó rocanā́nām ǀ
    yádī bhṛ́gubhyaḥ pári mātaríśvā gúhā sántam havyavā́ham samīdhé ǁ

    ud astambhīt samidhā nākam ṛṣvo 'gnir bhavann uttamo rocanānām |
    yadī bhṛgubhyaḥ pari mātariśvā guhā santaṃ havyavāhaṃ samīdhe ||

    उत् । अ॒स्त॒म्भी॒त् । स॒म्ऽइधा॑ । नाक॑म् । ऋ॒ष्वः । अ॒ग्निः । भव॑न् । उ॒त्ऽत॒मः । रो॒च॒नाना॑म् ।
    यदि॑ । भृगु॑ऽभ्यः । परि॑ । मा॒त॒रिश्वा॑ । गुहा॑ । सन्त॑म् । ह॒व्य॒ऽवाह॑म् । स॒म्ऽई॒धे ॥

    उत् । अस्तम्भीत् । सम्ऽइधा । नाकम् । ऋष्वः । अग्निः । भवन् । उत्ऽतमः । रोचनानाम् ।
    यदि । भृगुऽभ्यः । परि । मातरिश्वा । गुहा । सन्तम् । हव्यऽवाहम् । सम्ऽईधे ॥

    út ǀ astambhīt ǀ sam-ídhā ǀ nā́kam ǀ ṛṣváḥ ǀ agníḥ ǀ bhávan ǀ ut-tamáḥ ǀ rocanā́nām ǀ
    yádi ǀ bhṛ́gu-bhyaḥ ǀ pári ǀ mātaríśvā ǀ gúhā ǀ sántam ǀ havya-vā́ham ǀ sam-īdhé ǁ

    ut ǀ astambhīt ǀ sam-idhā ǀ nākam ǀ ṛṣvaḥ ǀ agniḥ ǀ bhavan ǀ ut-tamaḥ ǀ rocanānām ǀ
    yadi ǀ bhṛgu-bhyaḥ ǀ pari ǀ mātariśvā ǀ guhā ǀ santam ǀ havya-vāham ǀ sam-īdhe ǁ

    3.5.10 Aṣṭaka 2.8.25.5Anuvāka 3.1.70

  11. Ṛk 11

    इळा॑मग्ने पुरु॒दंसं॑ स॒निं गोः श॑श्वत्त॒मं हव॑मानाय साध ।
    स्यान्नः॑ सू॒नुस्तन॑यो वि॒जावाग्ने॒ सा ते॑ सुम॒तिर्भू॑त्व॒स्मे ॥

    इऌआम् अग्ने पुरुदंसं सनिं गोः शश्वत्तमं हवमानाय साध |
    स्यान् नः सूनुस् तनयो विजावाग्ने सा ते सुमतिर् भूत्व् अस्मे ||

    íḷāmagne purudáṃsam saním góḥ śaśvattamám hávamānāya sādha ǀ
    syā́nnaḥ sūnústánayo vijā́vā́gne sā́ te sumatírbhūtvasmé ǁ

    iḷām agne purudaṃsaṃ saniṃ goḥ śaśvattamaṃ havamānāya sādha |
    syān naḥ sūnus tanayo vijāvāgne sā te sumatir bhūtv asme ||

    इळा॑म् । अ॒ग्ने॒ । पु॒रु॒ऽदंस॑म् । स॒निम् । गोः । श॒श्व॒त्ऽत॒मम् । हव॑मानाय । सा॒ध॒ ।
    स्यात् । नः॒ । सू॒नुः । तन॑यः । वि॒जाऽवा॑ । अ॒ग्ने॒ । सा । ते॒ । सु॒ऽम॒तिः । भू॒तु॒ । अ॒स्मे इति॑ ॥

    इळाम् । अग्ने । पुरुऽदंसम् । सनिम् । गोः । शश्वत्ऽतमम् । हवमानाय । साध ।
    स्यात् । नः । सूनुः । तनयः । विजाऽवा । अग्ने । सा । ते । सुऽमतिः । भूतु । अस्मे इति ॥

    íḷām ǀ agne ǀ puru-dáṃsam ǀ saním ǀ góḥ ǀ śaśvat-tamám ǀ hávamānāya ǀ sādha ǀ
    syā́t ǀ naḥ ǀ sūnúḥ ǀ tánayaḥ ǀ vijā́-vā ǀ agne ǀ sā́ ǀ te ǀ su-matíḥ ǀ bhūtu ǀ asmé íti ǁ

    iḷām ǀ agne ǀ puru-daṃsam ǀ sanim ǀ goḥ ǀ śaśvat-tamam ǀ havamānāya ǀ sādha ǀ
    syāt ǀ naḥ ǀ sūnuḥ ǀ tanayaḥ ǀ vijā-vā ǀ agne ǀ sā ǀ te ǀ su-matiḥ ǀ bhūtu ǀ asme iti ǁ

    3.5.11 Aṣṭaka 2.8.25.6Anuvāka 3.1.71

Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 3.5 · Agni

Interpretations

Sri Aurobindo

Ṛk 1

The Fire is awake fronting the dawns; one illumined, he becomes aware of the paths of the seers: kindled into a wide might by the seekers of godhead, the upbearing flame opens the gates of the Darkness. (170)

Ṛk 2

Ever the Fire increases by the lauds, the words of those who hymn him by their utterances, one to be adored with prostrations; the Messenger who desires the many seeing of the Truth has shone out in the wide flaming of the Dawn. (171)

Ṛk 3

The Fire has been set in the human peoples, child of the Waters, the Friend who achieves by the Truth; luminous, a power for sacrifice,20 he has risen to the summits; he has become the illumined seer who must be called by our thoughts. (171)

Ṛk 4

The Fire when he has been kindled high becomes Mitra, the Friend—Mitra the priest of the call, Varuna, the knower of the births, Mitra, the friend, the priest of the pilgrim sacrifice, one rapid in his impulsions, the dweller in the house, the friend of the Rivers, the friend of the Mountains. (171)

Ṛk 5

He guards from hurt the beloved21 summit-seat of the being, mighty, he guards the course22 of the Sun; Fire guards in the navel-centre the seven-headed thought, sublime, he guards the ecstasy of the gods. (171)

Ṛk 6

A skilful craftsman, a god knowing all the manifestations of knowledge, he forms the beautiful and desirable Name, the luminous seat of the being in the movement of the peace; that the Fire guards, not deviating from his work.(172)

Ṛk 7

Desiring it as it desired him, the Fire entered into that luminous native abode wide in its approach; shining forth, pure, purifying, sublime, again and again he makes new the father and the mother. (172)

Ṛk 8

Suddenly born he is carried by the growths of the earth when the mothers who bore him make him grow by the light. The Fire in the lap of the father and the mother is as one who defends the waters gliding happily23 down a slope. (172)

Ṛk 9

Lauded by us mighty he shone with his high flaming in the largeness24 of heaven, in the navel-centre of earth. The Fire is Mitra the friend, the desirable one, he is life growing in the mother;25 may he as our messenger bring the gods for the sacrifice. (172)

Ṛk 10

The Fire with his high flaming up-pillared, sublime, the firmament and became the highest of the luminous kingdoms,26 when for the flame-seers life, that grows in the mother, kindled all around the carrier of the offerings who was hidden in the Secrecy. (173)

Ṛk 11

O Fire, achieve at my call the Revealing Speech, the many actioned, the lasting conquest of the Light. May there be for us a Son of our begetting pervading in his birth;27 O Fire, may there be created in us that true thinking of thine. (173)