Ṛk 3.5.4
Saṃhitā
मि॒त्रो अ॒ग्निर्भ॑वति॒ यत्समि॑द्धो मि॒त्रो होता॒ वरु॑णो जा॒तवे॑दाः ।
मि॒त्रो अ॑ध्व॒र्युरि॑षि॒रो दमू॑ना मि॒त्रः सिंधू॑नामु॒त पर्व॑तानां ॥
मित्रो अग्निर् भवति यत् समिद्धो मित्रो होता वरुणो जातवेदाः |
मित्रो अध्वर्युर् इषिरो दमूना मित्रः सिन्धूनाम् उत पर्वतानाम् ||
mitró agnírbhavati yátsámiddho mitró hótā váruṇo jātávedāḥ ǀ
mitró adhvaryúriṣiró dámūnā mitráḥ síndhūnāmutá párvatānām ǁ
mitro agnir bhavati yat samiddho mitro hotā varuṇo jātavedāḥ |
mitro adhvaryur iṣiro damūnā mitraḥ sindhūnām uta parvatānām ||
Padapāṭha
मि॒त्रः । अ॒ग्निः । भ॒व॒ति॒ । यत् । सम्ऽइ॑द्धः । मि॒त्रः । होता॑ । वरु॑णः । जा॒तऽवे॑दाः ।
मि॒त्रः । अ॒ध्व॒र्युः । इ॒षि॒रः । दमू॑नाः । मि॒त्रः । सिन्धू॑नाम् । उ॒त । पर्व॑तानाम् ॥
मित्रः । अग्निः । भवति । यत् । सम्ऽइद्धः । मित्रः । होता । वरुणः । जातऽवेदाः ।
मित्रः । अध्वर्युः । इषिरः । दमूनाः । मित्रः । सिन्धूनाम् । उत । पर्वतानाम् ॥
mitráḥ ǀ agníḥ ǀ bhavati ǀ yát ǀ sám-iddhaḥ ǀ mitráḥ ǀ hótā ǀ váruṇaḥ ǀ jātá-vedāḥ ǀ
mitráḥ ǀ adhvaryúḥ ǀ iṣiráḥ ǀ dámūnāḥ ǀ mitráḥ ǀ síndhūnām ǀ utá ǀ párvatānām ǁ
mitraḥ ǀ agniḥ ǀ bhavati ǀ yat ǀ sam-iddhaḥ ǀ mitraḥ ǀ hotā ǀ varuṇaḥ ǀ jāta-vedāḥ ǀ
mitraḥ ǀ adhvaryuḥ ǀ iṣiraḥ ǀ damūnāḥ ǀ mitraḥ ǀ sindhūnām ǀ uta ǀ parvatānām ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 03.005.04
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.8.24.04
- Maṇḍala · Anuvāka · Ṛk
- 03.01.064
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Viśvāmitra Gāthina
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.