Ṛk 3.5.3
Saṃhitā
अधा॑य्य॒ग्निर्मानु॑षीषु वि॒क्ष्व१॒॑पां गर्भो॑ मि॒त्र ऋ॒तेन॒ साध॑न् ।
आ ह॑र्य॒तो य॑ज॒तः सान्व॑स्था॒दभू॑दु॒ विप्रो॒ हव्यो॑ मती॒नां ॥
अधाय्य् अग्निर् मानुषीषु विक्ष्व् अपां गर्भो मित्र ऋतेन साधन् |
आ हर्यतो यजतः सान्व् अस्थाद् अभूद् उ विप्रो हव्यो मतीनाम् ||
ádhāyyagnírmā́nuṣīṣu vikṣvápā́m gárbho mitrá ṛténa sā́dhan ǀ
ā́ haryató yajatáḥ sā́nvasthādábhūdu vípro hávyo matīnā́m ǁ
adhāyy agnir mānuṣīṣu vikṣv apāṃ garbho mitra ṛtena sādhan |
ā haryato yajataḥ sānv asthād abhūd u vipro havyo matīnām ||
Padapāṭha
अधा॑यि । अ॒ग्निः । मानु॑षीषु । वि॒क्षु । अ॒पाम् । गर्भः॑ । मि॒त्रः । ऋ॒तेन॑ । साध॑न् ।
आ । ह॒र्य॒तः । य॒ज॒तः । सानु॑ । अ॒स्था॒त् । अभू॑त् । ऊं॒ इति॑ । विप्रः॑ । हव्यः॑ । म॒ती॒नाम् ॥
अधायि । अग्निः । मानुषीषु । विक्षु । अपाम् । गर्भः । मित्रः । ऋतेन । साधन् ।
आ । हर्यतः । यजतः । सानु । अस्थात् । अभूत् । ऊं इति । विप्रः । हव्यः । मतीनाम् ॥
ádhāyi ǀ agníḥ ǀ mā́nuṣīṣu ǀ vikṣú ǀ apā́m ǀ gárbhaḥ ǀ mitráḥ ǀ ṛténa ǀ sā́dhan ǀ
ā́ ǀ haryatáḥ ǀ yajatáḥ ǀ sā́nu ǀ asthāt ǀ ábhūt ǀ ūṃ íti ǀ vípraḥ ǀ hávyaḥ ǀ matīnā́m ǁ
adhāyi ǀ agniḥ ǀ mānuṣīṣu ǀ vikṣu ǀ apām ǀ garbhaḥ ǀ mitraḥ ǀ ṛtena ǀ sādhan ǀ
ā ǀ haryataḥ ǀ yajataḥ ǀ sānu ǀ asthāt ǀ abhūt ǀ ūṃ iti ǀ vipraḥ ǀ havyaḥ ǀ matīnām ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 03.005.03
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.8.24.03
- Maṇḍala · Anuvāka · Ṛk
- 03.01.063
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Viśvāmitra Gāthina
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.