Sūkta 9
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Viśvāmitra Gāthina
- Chandas छन्दस्
- Bṛhatī, Triṣṭubh
Metres by ṛk
1st set of styles nicṛdbṛhatī (2, 5-7); bṛhatī (1, 4); virāḍabṛhatī (3, 8); svarāṭpaṅkti (9)
2nd set of styles bṛhatī (1-8); triṣṭubh (9)
-
Ṛk 1
सखा॑यस्त्वा ववृमहे दे॒वं मर्ता॑स ऊ॒तये॑ ।
अ॒पां नपा॑तं सु॒भगं॑ सु॒दीदि॑तिं सु॒प्रतू॑र्तिमने॒हसं॑ ॥सखायस् त्वा ववृमहे देवम् मर्तास ऊतये |
अपां नपातं सुभगं सुदीदितिं सुप्रतूर्तिम् अनेहसम् ||sákhāyastvā vavṛmahe devám mártāsa ūtáye ǀ
apā́m nápātam subhágam sudī́ditim suprátūrtimanehásam ǁsakhāyas tvā vavṛmahe devam martāsa ūtaye |
apāṃ napātaṃ subhagaṃ sudīditiṃ supratūrtim anehasam ||सखा॑यः । त्वा॒ । व॒वृ॒म॒हे॒ । दे॒वम् । मर्ता॑सः । ऊ॒तये॑ ।
अ॒पाम् । नपा॑तम् । सु॒ऽभग॑म् । सु॒ऽदीदि॑तिम् । सु॒ऽप्रतू॑र्तिम् । अ॒ने॒हस॑म् ॥सखायः । त्वा । ववृमहे । देवम् । मर्तासः । ऊतये ।
अपाम् । नपातम् । सुऽभगम् । सुऽदीदितिम् । सुऽप्रतूर्तिम् । अनेहसम् ॥sákhāyaḥ ǀ tvā ǀ vavṛmahe ǀ devám ǀ mártāsaḥ ǀ ūtáye ǀ
apā́m ǀ nápātam ǀ su-bhágam ǀ su-dī́ditim ǀ su-prátūrtim ǀ anehásam ǁsakhāyaḥ ǀ tvā ǀ vavṛmahe ǀ devam ǀ martāsaḥ ǀ ūtaye ǀ
apām ǀ napātam ǀ su-bhagam ǀ su-dīditim ǀ su-pratūrtim ǀ anehasam ǁ3.9.1 Aṣṭaka 3.1.5.1Anuvāka 3.1.105
-
Ṛk 2
काय॑मानो व॒ना त्वं यन्मा॒तॄरज॑गन्न॒पः ।
न तत्ते॑ अग्ने प्र॒मृषे॑ नि॒वर्त॑नं॒ यद्दू॒रे सन्नि॒हाभ॑वः ॥कायमानो वना त्वं यन् मातॄर् अजगन्न् अपः |
न तत् ते अग्ने प्रमृषे निवर्तनं यद् दूरे सन्न् इहाभवः ||kā́yamāno vanā́ tvám yánmātṝ́rájagannapáḥ ǀ
ná tátte agne pramṛ́ṣe nivártanam yáddūré sánnihā́bhavaḥ ǁkāyamāno vanā tvaṃ yan mātṝr ajagann apaḥ |
na tat te agne pramṛṣe nivartanaṃ yad dūre sann ihābhavaḥ ||काय॑मानः । व॒ना । त्वम् । यत् । मा॒तॄः । अज॑गन् । अ॒पः ।
न । तत् । ते॒ । अ॒ग्ने॒ । प्र॒ऽमृषे॑ । नि॒ऽवर्त॑नम् । यत् । दू॒रे । सन् । इ॒ह । अभ॑वः ॥कायमानः । वना । त्वम् । यत् । मातॄः । अजगन् । अपः ।
न । तत् । ते । अग्ने । प्रऽमृषे । निऽवर्तनम् । यत् । दूरे । सन् । इह । अभवः ॥kā́yamānaḥ ǀ vanā́ ǀ tvám ǀ yát ǀ mātṝ́ḥ ǀ ájagan ǀ apáḥ ǀ
ná ǀ tát ǀ te ǀ agne ǀ pra-mṛ́ṣe ǀ ni-vártanam ǀ yát ǀ dūré ǀ sán ǀ ihá ǀ ábhavaḥ ǁkāyamānaḥ ǀ vanā ǀ tvam ǀ yat ǀ mātṝḥ ǀ ajagan ǀ apaḥ ǀ
na ǀ tat ǀ te ǀ agne ǀ pra-mṛṣe ǀ ni-vartanam ǀ yat ǀ dūre ǀ san ǀ iha ǀ abhavaḥ ǁ3.9.2 Aṣṭaka 3.1.5.2Anuvāka 3.1.106
-
Ṛk 3
अति॑ तृ॒ष्टं व॑वक्षि॒थाथै॒व सु॒मना॑ असि ।
प्रप्रा॒न्ये यंति॒ पर्य॒न्य आ॑सते॒ येषां॑ स॒ख्ये असि॑ श्रि॒तः ॥अति तृष्टं ववक्षिथाथैव सुमना असि |
प्र-प्रान्ये यन्ति पर्य् अन्य आसते येषां सख्ये असि श्रितः ||áti tṛṣṭám vavakṣithā́thaivá sumánā asi ǀ
práprānyé yánti páryanyá āsate yéṣām sakhyé ási śritáḥ ǁati tṛṣṭaṃ vavakṣithāthaiva sumanā asi |
pra-prānye yanti pary anya āsate yeṣāṃ sakhye asi śritaḥ ||अति॑ । तृ॒ष्टम् । व॒व॒क्षि॒थ॒ । अथ॑ । ए॒व । सु॒ऽमनाः॑ । अ॒सि॒ ।
प्रऽप्र॑ । अ॒न्ये । यन्ति॑ । परि॑ । अ॒न्ये । आ॒स॒ते॒ । येषा॑म् । स॒ख्ये । असि॑ । श्रि॒तः ॥अति । तृष्टम् । ववक्षिथ । अथ । एव । सुऽमनाः । असि ।
प्रऽप्र । अन्ये । यन्ति । परि । अन्ये । आसते । येषाम् । सख्ये । असि । श्रितः ॥áti ǀ tṛṣṭám ǀ vavakṣitha ǀ átha ǀ evá ǀ su-mánāḥ ǀ asi ǀ
prá-pra ǀ anyé ǀ yánti ǀ pári ǀ anyé ǀ āsate ǀ yéṣām ǀ sakhyé ǀ ási ǀ śritáḥ ǁati ǀ tṛṣṭam ǀ vavakṣitha ǀ atha ǀ eva ǀ su-manāḥ ǀ asi ǀ
pra-pra ǀ anye ǀ yanti ǀ pari ǀ anye ǀ āsate ǀ yeṣām ǀ sakhye ǀ asi ǀ śritaḥ ǁ3.9.3 Aṣṭaka 3.1.5.3Anuvāka 3.1.107
-
Ṛk 4
ई॒यि॒वांस॒मति॒ स्रिधः॒ शश्व॑ती॒रति॑ स॒श्चतः॑ ।
अन्वी॑मविंदन्निचि॒रासो॑ अ॒द्रुहो॒ऽप्सु सिं॒हमि॑व श्रि॒तं ॥ईयिवांसम् अति स्रिधः शश्वतीर् अति सश्चतः |
अन्व् ईम् अविन्दन् निचिरासो अद्रुहो ऽप्सु सिंहम् इव श्रितम् ||īyivā́ṃsamáti srídhaḥ śáśvatīráti saścátaḥ ǀ
ánvīmavindannicirā́so adrúho’psú siṃhámiva śritám ǁīyivāṃsam ati sridhaḥ śaśvatīr ati saścataḥ |
anv īm avindan nicirāso adruho 'psu siṃham iva śritam ||ई॒यि॒ऽवांस॑म् । अति॑ । स्रिधः॑ । शश्व॑तीः । अति॑ । स॒श्चतः॑ ।
अनु॑ । ई॒म् । अ॒वि॒न्द॒न् । नि॒ऽचि॒रासः॑ । अ॒द्रुहः॑ । अ॒प्ऽसु । सिं॒हम्ऽइ॑व । श्रि॒तम् ॥ईयिऽवांसम् । अति । स्रिधः । शश्वतीः । अति । सश्चतः ।
अनु । ईम् । अविन्दन् । निऽचिरासः । अद्रुहः । अप्ऽसु । सिंहम्ऽइव । श्रितम् ॥īyi-vā́ṃsam ǀ áti ǀ srídhaḥ ǀ śáśvatīḥ ǀ áti ǀ saścátaḥ ǀ
ánu ǀ īm ǀ avindan ǀ ni-cirā́saḥ ǀ adrúhaḥ ǀ ap-sú ǀ siṃhám-iva ǀ śritám ǁīyi-vāṃsam ǀ ati ǀ sridhaḥ ǀ śaśvatīḥ ǀ ati ǀ saścataḥ ǀ
anu ǀ īm ǀ avindan ǀ ni-cirāsaḥ ǀ adruhaḥ ǀ ap-su ǀ siṃham-iva ǀ śritam ǁ3.9.4 Aṣṭaka 3.1.5.4Anuvāka 3.1.108
-
Ṛk 5
स॒सृ॒वांस॑मिव॒ त्मना॒ग्निमि॒त्था ति॒रोहि॑तं ।
ऐनं॑ नयन्मात॒रिश्वा॑ परा॒वतो॑ दे॒वेभ्यो॑ मथि॒तं परि॑ ॥ससृवांसम् इव त्मनाग्निम् इत्था तिरोहितम् |
ऐनं नयन् मातरिश्वा परावतो देवेभ्यो मथितम् परि ||sasṛvā́ṃsamiva tmánāgnímitthā́ tiróhitam ǀ
áinam nayanmātaríśvā parāváto devébhyo mathitám pári ǁsasṛvāṃsam iva tmanāgnim itthā tirohitam |
ainaṃ nayan mātariśvā parāvato devebhyo mathitam pari ||स॒सृ॒वांस॑म्ऽइव । त्मना॑ । अ॒ग्निम् । इ॒त्था । ति॒रःऽहि॑तम् ।
आ । ए॒न॒म् । न॒य॒त् । मा॒त॒रिश्वा॑ । प॒रा॒ऽवतः॑ । दे॒वेभ्यः॑ । म॒थि॒तम् । परि॑ ॥ससृवांसम्ऽइव । त्मना । अग्निम् । इत्था । तिरःऽहितम् ।
आ । एनम् । नयत् । मातरिश्वा । पराऽवतः । देवेभ्यः । मथितम् । परि ॥sasṛvā́ṃsam-iva ǀ tmánā ǀ agním ǀ itthā́ ǀ tiráḥ-hitam ǀ
ā́ ǀ enam ǀ nayat ǀ mātaríśvā ǀ parā-vátaḥ ǀ devébhyaḥ ǀ mathitám ǀ pári ǁsasṛvāṃsam-iva ǀ tmanā ǀ agnim ǀ itthā ǀ tiraḥ-hitam ǀ
ā ǀ enam ǀ nayat ǀ mātariśvā ǀ parā-vataḥ ǀ devebhyaḥ ǀ mathitam ǀ pari ǁ3.9.5 Aṣṭaka 3.1.5.5Anuvāka 3.1.109
-
Ṛk 6
तं त्वा॒ मर्ता॑ अगृभ्णत दे॒वेभ्यो॑ हव्यवाहन ।
विश्वा॒न्यद्य॒ज्ञाँ अ॑भि॒पासि॑ मानुष॒ तव॒ क्रत्वा॑ यविष्ठ्य ॥तं त्वा मर्ता अगृभ्णत देवेभ्यो हव्यवाहन |
विश्वान् यद् यज्ञां अभिपासि मानुष तव क्रत्वा यविष्ठ्य ||tám tvā mártā agṛbhṇata devébhyo havyavāhana ǀ
víśvānyádyajñā́m̐ abhipā́si mānuṣa táva krátvā yaviṣṭhya ǁtaṃ tvā martā agṛbhṇata devebhyo havyavāhana |
viśvān yad yajñāṃ abhipāsi mānuṣa tava kratvā yaviṣṭhya ||तम् । त्वा॒ । मर्ताः॑ । अ॒गृ॒भ्ण॒त॒ । दे॒वेभ्यः॑ । ह॒व्य॒ऽवा॒ह॒न॒ ।
विश्वा॑न् । यत् । य॒ज्ञान् । अ॒भि॒ऽपासि॑ । मा॒नु॒ष॒ । तव॑ । क्रत्वा॑ । य॒वि॒ष्ठ्य॒ ॥तम् । त्वा । मर्ताः । अगृभ्णत । देवेभ्यः । हव्यऽवाहन ।
विश्वान् । यत् । यज्ञान् । अभिऽपासि । मानुष । तव । क्रत्वा । यविष्ठ्य ॥tám ǀ tvā ǀ mártāḥ ǀ agṛbhṇata ǀ devébhyaḥ ǀ havya-vāhana ǀ
víśvān ǀ yát ǀ yajñā́n ǀ abhi-pā́si ǀ mānuṣa ǀ táva ǀ krátvā ǀ yaviṣṭhya ǁtam ǀ tvā ǀ martāḥ ǀ agṛbhṇata ǀ devebhyaḥ ǀ havya-vāhana ǀ
viśvān ǀ yat ǀ yajñān ǀ abhi-pāsi ǀ mānuṣa ǀ tava ǀ kratvā ǀ yaviṣṭhya ǁ3.9.6 Aṣṭaka 3.1.6.1Anuvāka 3.1.110
-
Ṛk 7
तद्भ॒द्रं तव॑ दं॒सना॒ पाका॑य चिच्छदयति ।
त्वां यद॑ग्ने प॒शवः॑ स॒मास॑ते॒ समि॑द्धमपिशर्व॒रे ॥तद् भद्रं तव दंसना पाकाय चिच् छदयति |
त्वां यद् अग्ने पशवः समासते समिद्धम् अपिशर्वरे ||tádbhadrám táva daṃsánā pā́kāya cicchadayati ǀ
tvā́m yádagne paśávaḥ samā́sate sámiddhamapiśarvaré ǁtad bhadraṃ tava daṃsanā pākāya cic chadayati |
tvāṃ yad agne paśavaḥ samāsate samiddham apiśarvare ||तत् । भ॒द्रम् । तव॑ । दं॒सना॑ । पाका॑य । चि॒त् । छ॒द॒य॒ति॒ ।
त्वाम् । यत् । अ॒ग्ने॒ । प॒शवः॑ । स॒म्ऽआस॑ते । सम्ऽइ॑द्धम् । अ॒पि॒ऽश॒र्व॒रे ॥तत् । भद्रम् । तव । दंसना । पाकाय । चित् । छदयति ।
त्वाम् । यत् । अग्ने । पशवः । सम्ऽआसते । सम्ऽइद्धम् । अपिऽशर्वरे ॥tát ǀ bhadrám ǀ táva ǀ daṃsánā ǀ pā́kāya ǀ cit ǀ chadayati ǀ
tvā́m ǀ yát ǀ agne ǀ paśávaḥ ǀ sam-ā́sate ǀ sám-iddham ǀ api-śarvaré ǁtat ǀ bhadram ǀ tava ǀ daṃsanā ǀ pākāya ǀ cit ǀ chadayati ǀ
tvām ǀ yat ǀ agne ǀ paśavaḥ ǀ sam-āsate ǀ sam-iddham ǀ api-śarvare ǁ3.9.7 Aṣṭaka 3.1.6.2Anuvāka 3.1.111
-
Ṛk 8
आ जु॑होता स्वध्व॒रं शी॒रं पा॑व॒कशो॑चिषं ।
आ॒शुं दू॒तम॑जि॒रं प्र॒त्नमीड्यं॑ श्रु॒ष्टी दे॒वं स॑पर्यत ॥आ जुहोता स्वध्वरं शीरम् पावकशोचिषम् |
आशुं दूतम् अजिरम् प्रत्नम् ईड्यं श्रुष्टी देवं सपर्यत ||ā́ juhotā svadhvarám śīrám pāvakáśociṣam ǀ
āśúm dūtámajirám pratnámī́ḍyam śruṣṭī́ devám saparyata ǁā juhotā svadhvaraṃ śīram pāvakaśociṣam |
āśuṃ dūtam ajiram pratnam īḍyaṃ śruṣṭī devaṃ saparyata ||आ । जु॒हो॒त॒ । सु॒ऽअ॒ध्व॒रम् । शी॒रम् । पा॒व॒कऽशो॑चिषम् ।
आ॒शुम् । दू॒तम् । अ॒जि॒रम् । प्र॒त्नम् । ईड्य॑म् । श्रु॒ष्टी । दे॒वम् । स॒प॒र्य॒त॒ ॥आ । जुहोत । सुऽअध्वरम् । शीरम् । पावकऽशोचिषम् ।
आशुम् । दूतम् । अजिरम् । प्रत्नम् । ईड्यम् । श्रुष्टी । देवम् । सपर्यत ॥ā́ ǀ juhota ǀ su-adhvarám ǀ śīrám ǀ pāvaká-śociṣam ǀ
āśúm ǀ dūtám ǀ ajirám ǀ pratnám ǀ ī́ḍyam ǀ śruṣṭī́ ǀ devám ǀ saparyata ǁā ǀ juhota ǀ su-adhvaram ǀ śīram ǀ pāvaka-śociṣam ǀ
āśum ǀ dūtam ǀ ajiram ǀ pratnam ǀ īḍyam ǀ śruṣṭī ǀ devam ǀ saparyata ǁ3.9.8 Aṣṭaka 3.1.6.3Anuvāka 3.1.112
-
Ṛk 9
त्रीणि॑ श॒ता त्री स॒हस्रा॑ण्य॒ग्निं त्रिं॒शच्च॑ दे॒वा नव॑ चासपर्यन् ।
औक्ष॑न्घृ॒तैरस्तृ॑णन्ब॒र्हिर॑स्मा॒ आदिद्धोता॑रं॒ न्य॑सादयंत ॥त्रीणि शता त्री सहस्राण्य् अग्निं त्रिंशच् च देवा नव चासपर्यन् |
औक्षन् घृतैर् अस्तृणन् बर्हिर् अस्मा आद् इद् धोतारं न्य् असादयन्त ||trī́ṇi śatā́ trī́ sahásrāṇyagním triṃśácca devā́ náva cāsaparyan ǀ
áukṣanghṛtáirástṛṇanbarhírasmā ā́díddhótāram nyásādayanta ǁtrīṇi śatā trī sahasrāṇy agniṃ triṃśac ca devā nava cāsaparyan |
aukṣan ghṛtair astṛṇan barhir asmā ād id dhotāraṃ ny asādayanta ||त्रीणि॑ । श॒ता । त्री । स॒हस्रा॑णि । अ॒ग्निम् । त्रिं॒शत् । च॒ । दे॒वाः । नव॑ । च॒ । अ॒स॒प॒र्य॒न् ।
औक्ष॑न् । घृ॒तैः । अस्तृ॑णन् । ब॒र्हिः । अ॒स्मै॒ । आत् । इत् । होता॑रम् । नि । अ॒सा॒द॒य॒न्त॒ ॥त्रीणि । शता । त्री । सहस्राणि । अग्निम् । त्रिंशत् । च । देवाः । नव । च । असपर्यन् ।
औक्षन् । घृतैः । अस्तृणन् । बर्हिः । अस्मै । आत् । इत् । होतारम् । नि । असादयन्त ॥trī́ṇi ǀ śatā́ ǀ trī́ ǀ sahásrāṇi ǀ agním ǀ triṃśát ǀ ca ǀ devā́ḥ ǀ náva ǀ ca ǀ asaparyan ǀ
áukṣan ǀ ghṛtáiḥ ǀ ástṛṇan ǀ barhíḥ ǀ asmai ǀ ā́t ǀ ít ǀ hótāram ǀ ní ǀ asādayanta ǁtrīṇi ǀ śatā ǀ trī ǀ sahasrāṇi ǀ agnim ǀ triṃśat ǀ ca ǀ devāḥ ǀ nava ǀ ca ǀ asaparyan ǀ
aukṣan ǀ ghṛtaiḥ ǀ astṛṇan ǀ barhiḥ ǀ asmai ǀ āt ǀ it ǀ hotāram ǀ ni ǀ asādayanta ǁ3.9.9 Aṣṭaka 3.1.6.4Anuvāka 3.1.113
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.