Ṛk 3.9.2
Saṃhitā
काय॑मानो व॒ना त्वं यन्मा॒तॄरज॑गन्न॒पः ।
न तत्ते॑ अग्ने प्र॒मृषे॑ नि॒वर्त॑नं॒ यद्दू॒रे सन्नि॒हाभ॑वः ॥
कायमानो वना त्वं यन् मातॄर् अजगन्न् अपः |
न तत् ते अग्ने प्रमृषे निवर्तनं यद् दूरे सन्न् इहाभवः ||
kā́yamāno vanā́ tvám yánmātṝ́rájagannapáḥ ǀ
ná tátte agne pramṛ́ṣe nivártanam yáddūré sánnihā́bhavaḥ ǁ
kāyamāno vanā tvaṃ yan mātṝr ajagann apaḥ |
na tat te agne pramṛṣe nivartanaṃ yad dūre sann ihābhavaḥ ||
Padapāṭha
काय॑मानः । व॒ना । त्वम् । यत् । मा॒तॄः । अज॑गन् । अ॒पः ।
न । तत् । ते॒ । अ॒ग्ने॒ । प्र॒ऽमृषे॑ । नि॒ऽवर्त॑नम् । यत् । दू॒रे । सन् । इ॒ह । अभ॑वः ॥
कायमानः । वना । त्वम् । यत् । मातॄः । अजगन् । अपः ।
न । तत् । ते । अग्ने । प्रऽमृषे । निऽवर्तनम् । यत् । दूरे । सन् । इह । अभवः ॥
kā́yamānaḥ ǀ vanā́ ǀ tvám ǀ yát ǀ mātṝ́ḥ ǀ ájagan ǀ apáḥ ǀ
ná ǀ tát ǀ te ǀ agne ǀ pra-mṛ́ṣe ǀ ni-vártanam ǀ yát ǀ dūré ǀ sán ǀ ihá ǀ ábhavaḥ ǁ
kāyamānaḥ ǀ vanā ǀ tvam ǀ yat ǀ mātṝḥ ǀ ajagan ǀ apaḥ ǀ
na ǀ tat ǀ te ǀ agne ǀ pra-mṛṣe ǀ ni-vartanam ǀ yat ǀ dūre ǀ san ǀ iha ǀ abhavaḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 03.009.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.1.05.02
- Maṇḍala · Anuvāka · Ṛk
- 03.01.106
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Viśvāmitra Gāthina
- Chandas छन्दस्
- Bṛhatī, Triṣṭubh
- Svara स्वरः
- मध्यमः
Text and interpretations from the Ṛgveda database of theveda.org.in.