Sūkta 41
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Viśvāmitra Gāthina
- Chandas छन्दस्
- Gāyatrī
Metres by ṛk
1st set of styles gāyatrī (2, 3, 5, 9); nicṛdgāyatrī (4, 7, 8); yavamadhyāgāyatrī (1); virāḍgāyatrī (6)
2nd set of styles gāyatrī
-
Ṛk 1
आ तू न॑ इंद्र म॒द्र्य॑ग्घुवा॒नः सोम॑पीतये ।
हरि॑भ्यां याह्यद्रिवः ॥आ तू न इन्द्र मद्र्यग् घुवानः सोमपीतये |
हरिभ्यां याह्य् अद्रिवः ||ā́ tū́ na indra madryágghuvānáḥ sómapītaye ǀ
háribhyām yāhyadrivaḥ ǁā tū na indra madryag ghuvānaḥ somapītaye |
haribhyāṃ yāhy adrivaḥ ||आ । तु । नः॒ । इ॒न्द्र॒ । म॒द्र्य॑क् । हु॒वा॒नः । सोम॑ऽपीतये ।
हरि॑ऽभ्याम् । या॒हि॒ । अ॒द्रि॒ऽवः॒ ॥आ । तु । नः । इन्द्र । मद्र्यक् । हुवानः । सोमऽपीतये ।
हरिऽभ्याम् । याहि । अद्रिऽवः ॥ā́ ǀ tú ǀ naḥ ǀ indra ǀ madryák ǀ huvānáḥ ǀ sóma-pītaye ǀ
hári-bhyām ǀ yāhi ǀ adri-vaḥ ǁā ǀ tu ǀ naḥ ǀ indra ǀ madryak ǀ huvānaḥ ǀ soma-pītaye ǀ
hari-bhyām ǀ yāhi ǀ adri-vaḥ ǁ3.41.1 Aṣṭaka 3.3.3.1Anuvāka 3.4.19
-
Ṛk 2
स॒त्तो होता॑ न ऋ॒त्विय॑स्तिस्ति॒रे ब॒र्हिरा॑नु॒षक् ।
अयु॑ज्रन्प्रा॒तरद्र॑यः ॥सत्तो होता न ऋत्वियस् तिस्तिरे बर्हिर् आनुषक् |
अयुज्रन् प्रातर् अद्रयः ||sattó hótā na ṛtvíyastistiré barhírānuṣák ǀ
áyujranprātárádrayaḥ ǁsatto hotā na ṛtviyas tistire barhir ānuṣak |
ayujran prātar adrayaḥ ||स॒त्तः । होता॑ । नः॒ । ऋ॒त्वियः॑ । ति॒स्ति॒रे । ब॒र्हिः । आ॒नु॒षक् ।
अयु॑ज्रन् । प्रा॒तः । अद्र॑यः ॥सत्तः । होता । नः । ऋत्वियः । तिस्तिरे । बर्हिः । आनुषक् ।
अयुज्रन् । प्रातः । अद्रयः ॥sattáḥ ǀ hótā ǀ naḥ ǀ ṛtvíyaḥ ǀ tistiré ǀ barhíḥ ǀ ānuṣák ǀ
áyujran ǀ prātáḥ ǀ ádrayaḥ ǁsattaḥ ǀ hotā ǀ naḥ ǀ ṛtviyaḥ ǀ tistire ǀ barhiḥ ǀ ānuṣak ǀ
ayujran ǀ prātaḥ ǀ adrayaḥ ǁ3.41.2 Aṣṭaka 3.3.3.2Anuvāka 3.4.20
-
Ṛk 3
इ॒मा ब्रह्म॑ ब्रह्मवाहः क्रि॒यंत॒ आ ब॒र्हिः सी॑द ।
वी॒हि शू॑र पुरो॒ळाशं॑ ॥इमा ब्रह्म ब्रह्मवाहः क्रियन्त आ बर्हिः सीद |
वीहि शूर पुरोऌआशम् ||imā́ bráhma brahmavāhaḥ kriyánta ā́ barhíḥ sīda ǀ
vīhí śūra puroḷā́śam ǁimā brahma brahmavāhaḥ kriyanta ā barhiḥ sīda |
vīhi śūra puroḷāśam ||इ॒मा । ब्रह्म॑ । ब्र॒ह्म॒ऽवा॒हः॒ । क्रि॒यन्ते॑ । आ । ब॒र्हिः । सी॒द॒ ।
वी॒हि । शू॒र॒ । पु॒रो॒ळाश॑म् ॥इमा । ब्रह्म । ब्रह्मऽवाहः । क्रियन्ते । आ । बर्हिः । सीद ।
वीहि । शूर । पुरोळाशम् ॥imā́ ǀ bráhma ǀ brahma-vāhaḥ ǀ kriyánte ǀ ā́ ǀ barhíḥ ǀ sīda ǀ
vīhí ǀ śūra ǀ puroḷā́śam ǁimā ǀ brahma ǀ brahma-vāhaḥ ǀ kriyante ǀ ā ǀ barhiḥ ǀ sīda ǀ
vīhi ǀ śūra ǀ puroḷāśam ǁ3.41.3 Aṣṭaka 3.3.3.3Anuvāka 3.4.21
-
Ṛk 4
रा॒रं॒धि सव॑नेषु ण ए॒षु स्तोमे॑षु वृत्रहन् ।
उ॒क्थेष्विं॑द्र गिर्वणः ॥रारन्धि सवनेषु ण एषु स्तोमेषु वृत्रहन् |
उक्थेष्व् इन्द्र गिर्वणः ||rārandhí sávaneṣu ṇa eṣú stómeṣu vṛtrahan ǀ
ukthéṣvindra girvaṇaḥ ǁrārandhi savaneṣu ṇa eṣu stomeṣu vṛtrahan |
uktheṣv indra girvaṇaḥ ||र॒र॒न्धि । सव॑नेषु । नः॒ । ए॒षु । स्तोमे॑षु । वृ॒त्र॒ऽह॒न् ।
उ॒क्थेषु॑ । इ॒न्द्र॒ । गि॒र्व॒णः॒ ॥ररन्धि । सवनेषु । नः । एषु । स्तोमेषु । वृत्रऽहन् ।
उक्थेषु । इन्द्र । गिर्वणः ॥rarandhí ǀ sávaneṣu ǀ naḥ ǀ eṣú ǀ stómeṣu ǀ vṛtra-han ǀ
ukthéṣu ǀ indra ǀ girvaṇaḥ ǁrarandhi ǀ savaneṣu ǀ naḥ ǀ eṣu ǀ stomeṣu ǀ vṛtra-han ǀ
uktheṣu ǀ indra ǀ girvaṇaḥ ǁ3.41.4 Aṣṭaka 3.3.3.4Anuvāka 3.4.22
-
Ṛk 5
म॒तयः॑ सोम॒पामु॒रुं रि॒हंति॒ शव॑स॒स्पतिं॑ ।
इंद्रं॑ व॒त्सं न मा॒तरः॑ ॥मतयः सोमपाम् उरुं रिहन्ति शवसस् पतिम् |
इन्द्रं वत्सं न मातरः ||matáyaḥ somapā́murúm rihánti śávasaspátim ǀ
índram vatsám ná mātáraḥ ǁmatayaḥ somapām uruṃ rihanti śavasas patim |
indraṃ vatsaṃ na mātaraḥ ||म॒तयः॑ । सो॒म॒ऽपाम् । उ॒रुम् । रि॒हन्ति॑ । शव॑सः । पति॑म् ।
इन्द्र॑म् । व॒त्सम् । न । मा॒तरः॑ ॥मतयः । सोमऽपाम् । उरुम् । रिहन्ति । शवसः । पतिम् ।
इन्द्रम् । वत्सम् । न । मातरः ॥matáyaḥ ǀ soma-pā́m ǀ urúm ǀ rihánti ǀ śávasaḥ ǀ pátim ǀ
índram ǀ vatsám ǀ ná ǀ mātáraḥ ǁmatayaḥ ǀ soma-pām ǀ urum ǀ rihanti ǀ śavasaḥ ǀ patim ǀ
indram ǀ vatsam ǀ na ǀ mātaraḥ ǁ3.41.5 Aṣṭaka 3.3.3.5Anuvāka 3.4.23
-
Ṛk 6
स मं॑दस्वा॒ ह्यंध॑सो॒ राध॑से त॒न्वा॑ म॒हे ।
न स्तो॒तारं॑ नि॒दे क॑रः ॥स मन्दस्वा ह्य् अन्धसो राधसे तन्वा महे |
न स्तोतारं निदे करः ||sá mandasvā hyándhaso rā́dhase tanvā́ mahé ǀ
ná stotā́ram nidé karaḥ ǁsa mandasvā hy andhaso rādhase tanvā mahe |
na stotāraṃ nide karaḥ ||सः । म॒न्द॒स्व॒ । हि । अन्ध॑सः । राध॑से । त॒न्वा॑ । म॒हे ।
न । स्तो॒तार॑म् । नि॒दे । क॒रः॒ ॥सः । मन्दस्व । हि । अन्धसः । राधसे । तन्वा । महे ।
न । स्तोतारम् । निदे । करः ॥sáḥ ǀ mandasva ǀ hí ǀ ándhasaḥ ǀ rā́dhase ǀ tanvā́ ǀ mahé ǀ
ná ǀ stotā́ram ǀ nidé ǀ karaḥ ǁsaḥ ǀ mandasva ǀ hi ǀ andhasaḥ ǀ rādhase ǀ tanvā ǀ mahe ǀ
na ǀ stotāram ǀ nide ǀ karaḥ ǁ3.41.6 Aṣṭaka 3.3.4.1Anuvāka 3.4.24
-
Ṛk 7
व॒यमिं॑द्र त्वा॒यवो॑ ह॒विष्मं॑तो जरामहे ।
उ॒त त्वम॑स्म॒युर्व॑सो ॥वयम् इन्द्र त्वायवो हविष्मन्तो जरामहे |
उत त्वम् अस्मयुर् वसो ||vayámindra tvāyávo havíṣmanto jarāmahe ǀ
utá tvámasmayúrvaso ǁvayam indra tvāyavo haviṣmanto jarāmahe |
uta tvam asmayur vaso ||व॒यम् । इ॒न्द्र॒ । त्वा॒ऽयवः॑ । ह॒विष्म॑न्तः । ज॒रा॒म॒हे॒ ।
उ॒त । त्वम् । अ॒स्म॒ऽयुः । व॒सो॒ इति॑ ॥वयम् । इन्द्र । त्वाऽयवः । हविष्मन्तः । जरामहे ।
उत । त्वम् । अस्मऽयुः । वसो इति ॥vayám ǀ indra ǀ tvā-yávaḥ ǀ havíṣmantaḥ ǀ jarāmahe ǀ
utá ǀ tvám ǀ asma-yúḥ ǀ vaso íti ǁvayam ǀ indra ǀ tvā-yavaḥ ǀ haviṣmantaḥ ǀ jarāmahe ǀ
uta ǀ tvam ǀ asma-yuḥ ǀ vaso iti ǁ3.41.7 Aṣṭaka 3.3.4.2Anuvāka 3.4.25
-
Ṛk 8
मारे अ॒स्मद्वि मु॑मुचो॒ हरि॑प्रिया॒र्वाङ्या॑हि ।
इंद्र॑ स्वधावो॒ मत्स्वे॒ह ॥मारे अस्मद् वि मुमुचो हरिप्रियार्वाङ् याहि |
इन्द्र स्वधावो मत्स्वेह ||mā́ré asmádví mumuco háripriyārvā́ṅyāhi ǀ
índra svadhāvo mátsvehá ǁmāre asmad vi mumuco haripriyārvāṅ yāhi |
indra svadhāvo matsveha ||मा । आ॒रे । अ॒स्मत् । वि । मु॒मु॒चः॒ । हरि॑ऽप्रिय । अ॒र्वाङ् । या॒हि॒ ।
इन्द्र॑ । स्व॒धा॒ऽवः॒ । मत्स्व॑ । इ॒ह ॥मा । आरे । अस्मत् । वि । मुमुचः । हरिऽप्रिय । अर्वाङ् । याहि ।
इन्द्र । स्वधाऽवः । मत्स्व । इह ॥mā́ ǀ āré ǀ asmát ǀ ví ǀ mumucaḥ ǀ hári-priya ǀ arvā́ṅ ǀ yāhi ǀ
índra ǀ svadhā-vaḥ ǀ mátsva ǀ ihá ǁmā ǀ āre ǀ asmat ǀ vi ǀ mumucaḥ ǀ hari-priya ǀ arvāṅ ǀ yāhi ǀ
indra ǀ svadhā-vaḥ ǀ matsva ǀ iha ǁ3.41.8 Aṣṭaka 3.3.4.3Anuvāka 3.4.26
-
Ṛk 9
अ॒र्वांचं॑ त्वा सु॒खे रथे॒ वह॑तामिंद्र के॒शिना॑ ।
घृ॒तस्नू॑ ब॒र्हिरा॒सदे॑ ॥अर्वाञ्चं त्वा सुखे रथे वहताम् इन्द्र केशिना |
घृतस्नू बर्हिर् आसदे ||arvā́ñcam tvā sukhé ráthe váhatāmindra keśínā ǀ
ghṛtásnū barhírāsáde ǁarvāñcaṃ tvā sukhe rathe vahatām indra keśinā |
ghṛtasnū barhir āsade ||अ॒र्वाञ्च॑म् । त्वा॒ । सु॒ऽखे । रथे॑ । वह॑ताम् । इ॒न्द्र॒ । के॒शिना॑ ।
घृ॒तस्नू॒ इति॑ घृ॒तऽस्नू॑ । ब॒र्हिः । आ॒ऽसदे॑ ॥अर्वाञ्चम् । त्वा । सुऽखे । रथे । वहताम् । इन्द्र । केशिना ।
घृतस्नू इति घृतऽस्नू । बर्हिः । आऽसदे ॥arvā́ñcam ǀ tvā ǀ su-khé ǀ ráthe ǀ váhatām ǀ indra ǀ keśínā ǀ
ghṛtásnū íti ghṛtá-snū ǀ barhíḥ ǀ ā-sáde ǁarvāñcam ǀ tvā ǀ su-khe ǀ rathe ǀ vahatām ǀ indra ǀ keśinā ǀ
ghṛtasnū iti ghṛta-snū ǀ barhiḥ ǀ ā-sade ǁ3.41.9 Aṣṭaka 3.3.4.4Anuvāka 3.4.27
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.