Sūkta 43
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Viśvāmitra Gāthina
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles nicṛttriṣṭup (2, 4, 6); virāṭpaṅkti (1, 3); triṣṭup (7, 8); bhuriktriṣṭup (5)
2nd set of styles triṣṭubh
-
Ṛk 1
आ या॑ह्य॒र्वाङुप॑ वंधुरे॒ष्ठास्तवेदनु॑ प्र॒दिवः॑ सोम॒पेयं॑ ।
प्रि॒या सखा॑या॒ वि मु॒चोप॑ ब॒र्हिस्त्वामि॒मे ह॑व्य॒वाहो॑ हवंते ॥आ याह्य् अर्वाङ् उप वन्धुरेष्ठास् तवेद् अनु प्रदिवः सोमपेयम् |
प्रिया सखाया वि मुचोप बर्हिस् त्वाम् इमे हव्यवाहो हवन्ते ||ā́ yāhyarvā́ṅúpa vandhureṣṭhā́stávédánu pradívaḥ somapéyam ǀ
priyā́ sákhāyā ví mucópa barhístvā́mimé havyavā́ho havante ǁā yāhy arvāṅ upa vandhureṣṭhās taved anu pradivaḥ somapeyam |
priyā sakhāyā vi mucopa barhis tvām ime havyavāho havante ||आ । या॒हि॒ । अ॒र्वाङ् । उप॑ । व॒न्धु॒रे॒ऽस्थाः । तव॑ । इत् । अनु॑ । प्र॒ऽदिवः॑ । सो॒म॒ऽपेय॑म् ।
प्रि॒या । सखा॑या । वि । मु॒च॒ । उप॑ । ब॒र्हिः । त्वाम् । इ॒मे । ह॒व्य॒ऽवाहः॑ । ह॒व॒न्ते॒ ॥आ । याहि । अर्वाङ् । उप । वन्धुरेऽस्थाः । तव । इत् । अनु । प्रऽदिवः । सोमऽपेयम् ।
प्रिया । सखाया । वि । मुच । उप । बर्हिः । त्वाम् । इमे । हव्यऽवाहः । हवन्ते ॥ā́ ǀ yāhi ǀ arvā́ṅ ǀ úpa ǀ vandhure-sthā́ḥ ǀ táva ǀ ít ǀ ánu ǀ pra-dívaḥ ǀ soma-péyam ǀ
priyā́ ǀ sákhāyā ǀ ví ǀ muca ǀ úpa ǀ barhíḥ ǀ tvā́m ǀ imé ǀ havya-vā́haḥ ǀ havante ǁā ǀ yāhi ǀ arvāṅ ǀ upa ǀ vandhure-sthāḥ ǀ tava ǀ it ǀ anu ǀ pra-divaḥ ǀ soma-peyam ǀ
priyā ǀ sakhāyā ǀ vi ǀ muca ǀ upa ǀ barhiḥ ǀ tvām ǀ ime ǀ havya-vāhaḥ ǀ havante ǁ3.43.1 Aṣṭaka 3.3.7.1Anuvāka 3.4.37
-
Ṛk 2
आ या॑हि पू॒र्वीरति॑ चर्ष॒णीराँ अ॒र्य आ॒शिष॒ उप॑ नो॒ हरि॑भ्यां ।
इ॒मा हि त्वा॑ म॒तयः॒ स्तोम॑तष्टा॒ इंद्र॒ हवं॑ते स॒ख्यं जु॑षा॒णाः ॥आ याहि पूर्वीर् अति चर्षणीर् आं अर्य आशिष उप नो हरिभ्याम् |
इमा हि त्वा मतय स्तोमतष्टा इन्द्र हवन्ते सख्यं जुषाणाः ||ā́ yāhi pūrvī́ráti carṣaṇī́rā́m̐ aryá āśíṣa úpa no háribhyām ǀ
imā́ hí tvā matáyaḥ stómataṣṭā índra hávante sakhyám juṣāṇā́ḥ ǁā yāhi pūrvīr ati carṣaṇīr āṃ arya āśiṣa upa no haribhyām |
imā hi tvā mataya stomataṣṭā indra havante sakhyaṃ juṣāṇāḥ ||आ । या॒हि॒ । पू॒र्वीः । अति॑ । च॒र्ष॒णीः । आ । अ॒र्यः । आ॒ऽशिषः॑ । उप॑ । नः॒ । हरि॑ऽभ्याम् ।
इ॒माः । हि । त्वा॒ । म॒तयः॑ । स्तोम॑ऽतष्टाः । इन्द्र॑ । हव॑न्ते । स॒ख्यम् । जु॒षा॒णाः ॥आ । याहि । पूर्वीः । अति । चर्षणीः । आ । अर्यः । आऽशिषः । उप । नः । हरिऽभ्याम् ।
इमाः । हि । त्वा । मतयः । स्तोमऽतष्टाः । इन्द्र । हवन्ते । सख्यम् । जुषाणाः ॥ā́ ǀ yāhi ǀ pūrvī́ḥ ǀ áti ǀ carṣaṇī́ḥ ǀ ā́ ǀ aryáḥ ǀ ā-śíṣaḥ ǀ úpa ǀ naḥ ǀ hári-bhyām ǀ
imā́ḥ ǀ hí ǀ tvā ǀ matáyaḥ ǀ stóma-taṣṭāḥ ǀ índra ǀ hávante ǀ sakhyám ǀ juṣāṇā́ḥ ǁā ǀ yāhi ǀ pūrvīḥ ǀ ati ǀ carṣaṇīḥ ǀ ā ǀ aryaḥ ǀ ā-śiṣaḥ ǀ upa ǀ naḥ ǀ hari-bhyām ǀ
imāḥ ǀ hi ǀ tvā ǀ matayaḥ ǀ stoma-taṣṭāḥ ǀ indra ǀ havante ǀ sakhyam ǀ juṣāṇāḥ ǁ3.43.2 Aṣṭaka 3.3.7.2Anuvāka 3.4.38
-
Ṛk 3
आ नो॑ य॒ज्ञं न॑मो॒वृधं॑ स॒जोषा॒ इंद्र॑ देव॒ हरि॑भिर्याहि॒ तूयं॑ ।
अ॒हं हि त्वा॑ म॒तिभि॒र्जोह॑वीमि घृ॒तप्र॑याः सध॒मादे॒ मधू॑नां ॥आ नो यज्ञं नमोवृधं सजोषा इन्द्र देव हरिभिर् याहि तूयम् |
अहं हि त्वा मतिभिर् जोहवीमि घृतप्रयाः सधमादे मधूनाम् ||ā́ no yajñám namovṛ́dham sajóṣā índra deva háribhiryāhi tū́yam ǀ
ahám hí tvā matíbhirjóhavīmi ghṛtáprayāḥ sadhamā́de mádhūnām ǁā no yajñaṃ namovṛdhaṃ sajoṣā indra deva haribhir yāhi tūyam |
ahaṃ hi tvā matibhir johavīmi ghṛtaprayāḥ sadhamāde madhūnām ||आ । नः॒ । य॒ज्ञम् । न॒मः॒ऽवृध॑म् । स॒ऽजोषाः॑ । इन्द्र॑ । दे॒व॒ । हरि॑ऽभिः । या॒हि॒ । तूय॑म् ।
अ॒हम् । हि । त्वा॒ । म॒तिऽभिः॑ । जोह॑वीमि । घृ॒तऽप्र॑याः । स॒ध॒ऽमादे॑ । मधू॑नाम् ॥आ । नः । यज्ञम् । नमःऽवृधम् । सऽजोषाः । इन्द्र । देव । हरिऽभिः । याहि । तूयम् ।
अहम् । हि । त्वा । मतिऽभिः । जोहवीमि । घृतऽप्रयाः । सधऽमादे । मधूनाम् ॥ā́ ǀ naḥ ǀ yajñám ǀ namaḥ-vṛ́dham ǀ sa-jóṣāḥ ǀ índra ǀ deva ǀ hári-bhiḥ ǀ yāhi ǀ tū́yam ǀ
ahám ǀ hí ǀ tvā ǀ matí-bhiḥ ǀ jóhavīmi ǀ ghṛtá-prayāḥ ǀ sadha-mā́de ǀ mádhūnām ǁā ǀ naḥ ǀ yajñam ǀ namaḥ-vṛdham ǀ sa-joṣāḥ ǀ indra ǀ deva ǀ hari-bhiḥ ǀ yāhi ǀ tūyam ǀ
aham ǀ hi ǀ tvā ǀ mati-bhiḥ ǀ johavīmi ǀ ghṛta-prayāḥ ǀ sadha-māde ǀ madhūnām ǁ3.43.3 Aṣṭaka 3.3.7.3Anuvāka 3.4.39
-
Ṛk 4
आ च॒ त्वामे॒ता वृष॑णा॒ वहा॑तो॒ हरी॒ सखा॑या सु॒धुरा॒ स्वंगा॑ ।
धा॒नाव॒दिंद्रः॒ सव॑नं जुषा॒णः सखा॒ सख्युः॑ शृणव॒द्वंद॑नानि ॥आ च त्वाम् एता वृषणा वहातो हरी सखाया सुधुरा स्वङ्गा |
धानावद् इन्द्रः सवनं जुषाणः सखा सख्युः शृणवद् वन्दनानि ||ā́ ca tvā́metā́ vṛ́ṣaṇā váhāto hárī sákhāyā sudhúrā sváṅgā ǀ
dhānā́vadíndraḥ sávanam juṣāṇáḥ sákhā sákhyuḥ śṛṇavadvándanāni ǁā ca tvām etā vṛṣaṇā vahāto harī sakhāyā sudhurā svaṅgā |
dhānāvad indraḥ savanaṃ juṣāṇaḥ sakhā sakhyuḥ śṛṇavad vandanāni ||आ । च॒ । त्वाम् । ए॒ता । वृष॑णा । वहा॑तः । हरी॒ इति॑ । सखा॑या । सु॒ऽधुरा॑ । सु॒ऽअङ्गा॑ ।
धा॒नाऽव॑त् । इन्द्रः॑ । सव॑नम् । जु॒षा॒णः । सखा॑ । सख्युः॑ । शृ॒ण॒व॒त् । वन्द॑नानि ॥आ । च । त्वाम् । एता । वृषणा । वहातः । हरी इति । सखाया । सुऽधुरा । सुऽअङ्गा ।
धानाऽवत् । इन्द्रः । सवनम् । जुषाणः । सखा । सख्युः । शृणवत् । वन्दनानि ॥ā́ ǀ ca ǀ tvā́m ǀ etā́ ǀ vṛ́ṣaṇā ǀ váhātaḥ ǀ hárī íti ǀ sákhāyā ǀ su-dhúrā ǀ su-áṅgā ǀ
dhānā́-vat ǀ índraḥ ǀ sávanam ǀ juṣāṇáḥ ǀ sákhā ǀ sákhyuḥ ǀ śṛṇavat ǀ vándanāni ǁā ǀ ca ǀ tvām ǀ etā ǀ vṛṣaṇā ǀ vahātaḥ ǀ harī iti ǀ sakhāyā ǀ su-dhurā ǀ su-aṅgā ǀ
dhānā-vat ǀ indraḥ ǀ savanam ǀ juṣāṇaḥ ǀ sakhā ǀ sakhyuḥ ǀ śṛṇavat ǀ vandanāni ǁ3.43.4 Aṣṭaka 3.3.7.4Anuvāka 3.4.40
-
Ṛk 5
कु॒विन्मा॑ गो॒पां कर॑से॒ जन॑स्य कु॒विद्राजा॑नं मघवन्नृजीषिन् ।
कु॒विन्म॒ ऋषिं॑ पपि॒वांसं॑ सु॒तस्य॑ कु॒विन्मे॒ वस्वो॑ अ॒मृत॑स्य॒ शिक्षाः॑ ॥कुविन् मा गोपां करसे जनस्य कुविद् राजानम् मघवन्न् ऋजीषिन् |
कुविन् म ऋषिम् पपिवांसं सुतस्य कुविन् मे वस्वो अमृतस्य शिक्षाः ||kuvínmā gopā́m kárase jánasya kuvídrā́jānam maghavannṛjīṣin ǀ
kuvínma ṛ́ṣim papivā́ṃsam sutásya kuvínme vásvo amṛ́tasya śíkṣāḥ ǁkuvin mā gopāṃ karase janasya kuvid rājānam maghavann ṛjīṣin |
kuvin ma ṛṣim papivāṃsaṃ sutasya kuvin me vasvo amṛtasya śikṣāḥ ||कु॒वित् । मा॒ । गो॒पाम् । कर॑से । जन॑स्य । कु॒वित् । राजा॑नम् । म॒घ॒ऽव॒न् । ऋ॒जी॒षि॒न् ।
कु॒वित् । मा॒ । ऋषि॑म् । प॒पि॒ऽवांस॑म् । सु॒तस्य॑ । कु॒वित् । मे॒ । वस्वः॑ । अ॒मृत॑स्य । शिक्षाः॑ ॥कुवित् । मा । गोपाम् । करसे । जनस्य । कुवित् । राजानम् । मघऽवन् । ऋजीषिन् ।
कुवित् । मा । ऋषिम् । पपिऽवांसम् । सुतस्य । कुवित् । मे । वस्वः । अमृतस्य । शिक्षाः ॥kuvít ǀ mā ǀ gopā́m ǀ kárase ǀ jánasya ǀ kuvít ǀ rā́jānam ǀ magha-van ǀ ṛjīṣin ǀ
kuvít ǀ mā ǀ ṛ́ṣim ǀ papi-vā́ṃsam ǀ sutásya ǀ kuvít ǀ me ǀ vásvaḥ ǀ amṛ́tasya ǀ śíkṣāḥ ǁkuvit ǀ mā ǀ gopām ǀ karase ǀ janasya ǀ kuvit ǀ rājānam ǀ magha-van ǀ ṛjīṣin ǀ
kuvit ǀ mā ǀ ṛṣim ǀ papi-vāṃsam ǀ sutasya ǀ kuvit ǀ me ǀ vasvaḥ ǀ amṛtasya ǀ śikṣāḥ ǁ3.43.5 Aṣṭaka 3.3.7.5Anuvāka 3.4.41
-
Ṛk 6
आ त्वा॑ बृ॒हंतो॒ हर॑यो युजा॒ना अ॒र्वागिं॑द्र सध॒मादो॑ वहंतु ।
प्र ये द्वि॒ता दि॒व ऋं॒जंत्याताः॒ सुस॑म्मृष्टासो वृष॒भस्य॑ मू॒राः ॥आ त्वा बृहन्तो हरयो युजाना अर्वाग् इन्द्र सधमादो वहन्तु |
प्र ये द्विता दिव ऋञ्जन्त्य् आताः सुसम्मृष्टासो वृषभस्य मूराः ||ā́ tvā bṛhánto hárayo yujānā́ arvā́gindra sadhamā́do vahantu ǀ
prá yé dvitā́ divá ṛñjántyā́tāḥ súsammṛṣṭāso vṛṣabhásya mūrā́ḥ ǁā tvā bṛhanto harayo yujānā arvāg indra sadhamādo vahantu |
pra ye dvitā diva ṛñjanty ātāḥ susammṛṣṭāso vṛṣabhasya mūrāḥ ||आ । त्वा॒ । बृ॒हन्तः॑ । हर॑यः । यु॒जा॒नाः । अ॒र्वाक् । इ॒न्द्र॒ । स॒ध॒ऽमादः॑ । व॒ह॒न्तु॒ ।
प्र । ये । द्वि॒ता । दि॒वः । ऋ॒ञ्जन्ति॑ । आताः॑ । सुऽस॑म्मृष्टासः । वृ॒ष॒भस्य॑ । मू॒राः ॥आ । त्वा । बृहन्तः । हरयः । युजानाः । अर्वाक् । इन्द्र । सधऽमादः । वहन्तु ।
प्र । ये । द्विता । दिवः । ऋञ्जन्ति । आताः । सुऽसम्मृष्टासः । वृषभस्य । मूराः ॥ā́ ǀ tvā ǀ bṛhántaḥ ǀ hárayaḥ ǀ yujānā́ḥ ǀ arvā́k ǀ indra ǀ sadha-mā́daḥ ǀ vahantu ǀ
prá ǀ yé ǀ dvitā́ ǀ diváḥ ǀ ṛñjánti ǀ ā́tāḥ ǀ sú-sammṛṣṭāsaḥ ǀ vṛṣabhásya ǀ mūrā́ḥ ǁā ǀ tvā ǀ bṛhantaḥ ǀ harayaḥ ǀ yujānāḥ ǀ arvāk ǀ indra ǀ sadha-mādaḥ ǀ vahantu ǀ
pra ǀ ye ǀ dvitā ǀ divaḥ ǀ ṛñjanti ǀ ātāḥ ǀ su-sammṛṣṭāsaḥ ǀ vṛṣabhasya ǀ mūrāḥ ǁ3.43.6 Aṣṭaka 3.3.7.6Anuvāka 3.4.42
-
Ṛk 7
इंद्र॒ पिब॒ वृष॑धूतस्य॒ वृष्ण॒ आ यं ते॑ श्ये॒न उ॑श॒ते ज॒भार॑ ।
यस्य॒ मदे॑ च्या॒वय॑सि॒ प्र कृ॒ष्टीर्यस्य॒ मदे॒ अप॑ गो॒त्रा व॒वर्थ॑ ॥इन्द्र पिब वृषधूतस्य वृष्ण आ यं ते श्येन उशते जभार |
यस्य मदे च्यावयसि प्र कृष्टीर् यस्य मदे अप गोत्रा ववर्थ ||índra píba vṛ́ṣadhūtasya vṛ́ṣṇa ā́ yám te śyená uśaté jabhā́ra ǀ
yásya máde cyāváyasi prá kṛṣṭī́ryásya máde ápa gotrā́ vavártha ǁindra piba vṛṣadhūtasya vṛṣṇa ā yaṃ te śyena uśate jabhāra |
yasya made cyāvayasi pra kṛṣṭīr yasya made apa gotrā vavartha ||इन्द्र॑ । पिब॑ । वृष॑ऽधूतस्य । वृष्णः॑ । आ । यम् । ते॒ । श्ये॒नः । उ॒श॒ते । ज॒भार॑ ।
यस्य॑ । मदे॑ । च्य॒वय॑सि । प्र । कृ॒ष्टीः । यस्य॑ । मदे॑ । अप॑ । गो॒त्रा । व॒वर्थ॑ ॥इन्द्र । पिब । वृषऽधूतस्य । वृष्णः । आ । यम् । ते । श्येनः । उशते । जभार ।
यस्य । मदे । च्यवयसि । प्र । कृष्टीः । यस्य । मदे । अप । गोत्रा । ववर्थ ॥índra ǀ píba ǀ vṛ́ṣa-dhūtasya ǀ vṛ́ṣṇaḥ ǀ ā́ ǀ yám ǀ te ǀ śyenáḥ ǀ uśaté ǀ jabhā́ra ǀ
yásya ǀ máde ǀ cyaváyasi ǀ prá ǀ kṛṣṭī́ḥ ǀ yásya ǀ máde ǀ ápa ǀ gotrā́ ǀ vavártha ǁindra ǀ piba ǀ vṛṣa-dhūtasya ǀ vṛṣṇaḥ ǀ ā ǀ yam ǀ te ǀ śyenaḥ ǀ uśate ǀ jabhāra ǀ
yasya ǀ made ǀ cyavayasi ǀ pra ǀ kṛṣṭīḥ ǀ yasya ǀ made ǀ apa ǀ gotrā ǀ vavartha ǁ3.43.7 Aṣṭaka 3.3.7.7Anuvāka 3.4.43
-
Ṛk 8
शु॒नं हु॑वेम म॒घवा॑न॒मिंद्र॑म॒स्मिन्भरे॒ नृत॑मं॒ वाज॑सातौ ।
शृ॒ण्वंत॑मु॒ग्रमू॒तये॑ स॒मत्सु॒ घ्नंतं॑ वृ॒त्राणि॑ सं॒जितं॒ धना॑नां ॥शुनं हुवेम मघवानम् इन्द्रम् अस्मिन् भरे नृतमं वाजसातौ |
शृण्वन्तम् उग्रम् ऊतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ||śunám huvema maghávānamíndramasmínbháre nṛ́tamam vā́jasātau ǀ
śṛṇvántamugrámūtáye samátsu ghnántam vṛtrā́ṇi saṃjítam dhánānām ǁśunaṃ huvema maghavānam indram asmin bhare nṛtamaṃ vājasātau |
śṛṇvantam ugram ūtaye samatsu ghnantaṃ vṛtrāṇi saṃjitaṃ dhanānām ||शु॒नम् । हु॒वे॒म॒ । म॒घऽवा॑नम् । इन्द्र॑म् । अ॒स्मिन् । भरे॑ । नृऽत॑मम् । वाज॑ऽसातौ ।
शृ॒ण्वन्त॑म् । उ॒ग्रम् । ऊ॒तये॑ । स॒मत्ऽसु॑ । घ्नन्त॑म् । वृ॒त्राणि॑ । स॒म्ऽजित॑म् । धना॑नाम् ॥शुनम् । हुवेम । मघऽवानम् । इन्द्रम् । अस्मिन् । भरे । नृऽतमम् । वाजऽसातौ ।
शृण्वन्तम् । उग्रम् । ऊतये । समत्ऽसु । घ्नन्तम् । वृत्राणि । सम्ऽजितम् । धनानाम् ॥śunám ǀ huvema ǀ maghá-vānam ǀ índram ǀ asmín ǀ bháre ǀ nṛ́-tamam ǀ vā́ja-sātau ǀ
śṛṇvántam ǀ ugrám ǀ ūtáye ǀ samát-su ǀ ghnántam ǀ vṛtrā́ṇi ǀ sam-jítam ǀ dhánānām ǁśunam ǀ huvema ǀ magha-vānam ǀ indram ǀ asmin ǀ bhare ǀ nṛ-tamam ǀ vāja-sātau ǀ
śṛṇvantam ǀ ugram ǀ ūtaye ǀ samat-su ǀ ghnantam ǀ vṛtrāṇi ǀ sam-jitam ǀ dhanānām ǁ3.43.8 Aṣṭaka 3.3.7.8Anuvāka 3.4.44
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.