Ṛk 3.43.1
Saṃhitā
आ या॑ह्य॒र्वाङुप॑ वंधुरे॒ष्ठास्तवेदनु॑ प्र॒दिवः॑ सोम॒पेयं॑ ।
प्रि॒या सखा॑या॒ वि मु॒चोप॑ ब॒र्हिस्त्वामि॒मे ह॑व्य॒वाहो॑ हवंते ॥
आ याह्य् अर्वाङ् उप वन्धुरेष्ठास् तवेद् अनु प्रदिवः सोमपेयम् |
प्रिया सखाया वि मुचोप बर्हिस् त्वाम् इमे हव्यवाहो हवन्ते ||
ā́ yāhyarvā́ṅúpa vandhureṣṭhā́stávédánu pradívaḥ somapéyam ǀ
priyā́ sákhāyā ví mucópa barhístvā́mimé havyavā́ho havante ǁ
ā yāhy arvāṅ upa vandhureṣṭhās taved anu pradivaḥ somapeyam |
priyā sakhāyā vi mucopa barhis tvām ime havyavāho havante ||
Padapāṭha
आ । या॒हि॒ । अ॒र्वाङ् । उप॑ । व॒न्धु॒रे॒ऽस्थाः । तव॑ । इत् । अनु॑ । प्र॒ऽदिवः॑ । सो॒म॒ऽपेय॑म् ।
प्रि॒या । सखा॑या । वि । मु॒च॒ । उप॑ । ब॒र्हिः । त्वाम् । इ॒मे । ह॒व्य॒ऽवाहः॑ । ह॒व॒न्ते॒ ॥
आ । याहि । अर्वाङ् । उप । वन्धुरेऽस्थाः । तव । इत् । अनु । प्रऽदिवः । सोमऽपेयम् ।
प्रिया । सखाया । वि । मुच । उप । बर्हिः । त्वाम् । इमे । हव्यऽवाहः । हवन्ते ॥
ā́ ǀ yāhi ǀ arvā́ṅ ǀ úpa ǀ vandhure-sthā́ḥ ǀ táva ǀ ít ǀ ánu ǀ pra-dívaḥ ǀ soma-péyam ǀ
priyā́ ǀ sákhāyā ǀ ví ǀ muca ǀ úpa ǀ barhíḥ ǀ tvā́m ǀ imé ǀ havya-vā́haḥ ǀ havante ǁ
ā ǀ yāhi ǀ arvāṅ ǀ upa ǀ vandhure-sthāḥ ǀ tava ǀ it ǀ anu ǀ pra-divaḥ ǀ soma-peyam ǀ
priyā ǀ sakhāyā ǀ vi ǀ muca ǀ upa ǀ barhiḥ ǀ tvām ǀ ime ǀ havya-vāhaḥ ǀ havante ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 03.043.01
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.3.07.01
- Maṇḍala · Anuvāka · Ṛk
- 03.04.037
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Viśvāmitra Gāthina
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.