Sūkta 32
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Viśvāmitra Gāthina
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles triṣṭup (1-3, 7-9, 17); nicṛttriṣṭup (11-15); bhurikpaṅkti (4, 10); nicṛtpaṅkti (5); virāṭpaṅkti (6); virāṭtrisṭup (16)
2nd set of styles triṣṭubh
-
Ṛk 1
इंद्र॒ सोमं॑ सोमपते॒ पिबे॒मं माध्यं॑दिनं॒ सव॑नं॒ चारु॒ यत्ते॑ ।
प्र॒प्रुथ्या॒ शिप्रे॑ मघवन्नृजीषिन्वि॒मुच्या॒ हरी॑ इ॒ह मा॑दयस्व ॥इन्द्र सोमं सोमपते पिबेमम् माध्यन्दिनं सवनं चारु यत् ते |
प्रप्रुथ्या शिप्रे मघवन्न् ऋजीषिन् विमुच्या हरी इह मादयस्व ||índra sómam somapate píbemám mā́dhyaṃdinam sávanam cā́ru yátte ǀ
praprúthyā śípre maghavannṛjīṣinvimúcyā hárī ihá mādayasva ǁindra somaṃ somapate pibemam mādhyandinaṃ savanaṃ cāru yat te |
prapruthyā śipre maghavann ṛjīṣin vimucyā harī iha mādayasva ||इन्द्र॑ । सोम॑म् । सो॒म॒ऽप॒ते॒ । पिब॑ । इ॒मम् । माध्य॑न्दिनम् । सव॑नम् । चारु॑ । यत् । ते॒ ।
प्र॒ऽप्रुथ्य॑ । शिप्रे॒ इति॑ । म॒घ॒ऽव॒न् । ऋ॒जी॒षि॒न् । वि॒ऽमुच्य॑ । हरी॒ इति॑ । इ॒ह । मा॒द॒य॒स्व॒ ॥इन्द्र । सोमम् । सोमऽपते । पिब । इमम् । माध्यन्दिनम् । सवनम् । चारु । यत् । ते ।
प्रऽप्रुथ्य । शिप्रे इति । मघऽवन् । ऋजीषिन् । विऽमुच्य । हरी इति । इह । मादयस्व ॥índra ǀ sómam ǀ soma-pate ǀ píba ǀ imám ǀ mā́dhyandinam ǀ sávanam ǀ cā́ru ǀ yát ǀ te ǀ
pra-prúthya ǀ śípre íti ǀ magha-van ǀ ṛjīṣin ǀ vi-múcya ǀ hárī íti ǀ ihá ǀ mādayasva ǁindra ǀ somam ǀ soma-pate ǀ piba ǀ imam ǀ mādhyandinam ǀ savanam ǀ cāru ǀ yat ǀ te ǀ
pra-pruthya ǀ śipre iti ǀ magha-van ǀ ṛjīṣin ǀ vi-mucya ǀ harī iti ǀ iha ǀ mādayasva ǁ3.32.1 Aṣṭaka 3.2.9.1Anuvāka 3.3.45
-
Ṛk 2
गवा॑शिरं मं॒थिन॑मिंद्र शु॒क्रं पिबा॒ सोमं॑ ररि॒मा ते॒ मदा॑य ।
ब्र॒ह्म॒कृता॒ मारु॑तेना ग॒णेन॑ स॒जोषा॑ रु॒द्रैस्तृ॒पदा वृ॑षस्व ॥गवाशिरम् मन्थिनम् इन्द्र शुक्रम् पिबा सोमं ररिमा ते मदाय |
ब्रह्मकृता मारुतेना गणेन सजोषा रुद्रैस् तृपद् आ वृषस्व ||gávāśiram manthínamindra śukrám píbā sómam rarimā́ te mádāya ǀ
brahmakṛ́tā mā́rutenā gaṇéna sajóṣā rudráistṛpádā́ vṛṣasva ǁgavāśiram manthinam indra śukram pibā somaṃ rarimā te madāya |
brahmakṛtā mārutenā gaṇena sajoṣā rudrais tṛpad ā vṛṣasva ||गोऽआ॑शिरम् । म॒न्थिन॑म् । इ॒न्द्र॒ । शु॒क्रम् । पिब॑ । सोम॑म् । र॒रि॒म । ते॒ । मदा॑य ।
ब्र॒ह्म॒ऽकृता॑ । मारु॑तेन । ग॒णेन॑ । स॒ऽजोषाः॑ । रु॒द्रैः । तृ॒पत् । आ । वृ॒ष॒स्व॒ ॥गोऽआशिरम् । मन्थिनम् । इन्द्र । शुक्रम् । पिब । सोमम् । ररिम । ते । मदाय ।
ब्रह्मऽकृता । मारुतेन । गणेन । सऽजोषाः । रुद्रैः । तृपत् । आ । वृषस्व ॥gó-āśiram ǀ manthínam ǀ indra ǀ śukrám ǀ píba ǀ sómam ǀ rarimá ǀ te ǀ mádāya ǀ
brahma-kṛ́tā ǀ mā́rutena ǀ gaṇéna ǀ sa-jóṣāḥ ǀ rudráiḥ ǀ tṛpát ǀ ā́ ǀ vṛṣasva ǁgo-āśiram ǀ manthinam ǀ indra ǀ śukram ǀ piba ǀ somam ǀ rarima ǀ te ǀ madāya ǀ
brahma-kṛtā ǀ mārutena ǀ gaṇena ǀ sa-joṣāḥ ǀ rudraiḥ ǀ tṛpat ǀ ā ǀ vṛṣasva ǁ3.32.2 Aṣṭaka 3.2.9.2Anuvāka 3.3.46
-
Ṛk 3
ये ते॒ शुष्मं॒ ये तवि॑षी॒मव॑र्ध॒न्नर्चं॑त इंद्र म॒रुत॑स्त॒ ओजः॑ ।
माध्यं॑दिने॒ सव॑ने वज्रहस्त॒ पिबा॑ रु॒द्रेभिः॒ सग॑णः सुशिप्र ॥ये ते शुष्मं ये तविषीम् अवर्धन्न् अर्चन्त इन्द्र मरुतस् त ओजः |
माध्यन्दिने सवने वज्रहस्त पिबा रुद्रेभिः सगणः सुशिप्र ||yé te śúṣmam yé táviṣīmávardhannárcanta indra marútasta ójaḥ ǀ
mā́dhyaṃdine sávane vajrahasta píbā rudrébhiḥ ságaṇaḥ suśipra ǁye te śuṣmaṃ ye taviṣīm avardhann arcanta indra marutas ta ojaḥ |
mādhyandine savane vajrahasta pibā rudrebhiḥ sagaṇaḥ suśipra ||ये । ते॒ । शुष्म॑म् । ये । तवि॑षीम् । अव॑र्धन् । अर्च॑न्तः । इ॒न्द्र॒ । म॒रुतः॑ । ते॒ । ओजः॑ ।
माध्य॑न्दिने । सव॑ने । व॒ज्र॒ऽह॒स्त॒ । पिब॑ । रु॒द्रेभिः॑ । सऽग॑णः । सु॒ऽशि॒प्र॒ ॥ये । ते । शुष्मम् । ये । तविषीम् । अवर्धन् । अर्चन्तः । इन्द्र । मरुतः । ते । ओजः ।
माध्यन्दिने । सवने । वज्रऽहस्त । पिब । रुद्रेभिः । सऽगणः । सुऽशिप्र ॥yé ǀ te ǀ śúṣmam ǀ yé ǀ táviṣīm ǀ ávardhan ǀ árcantaḥ ǀ indra ǀ marútaḥ ǀ te ǀ ójaḥ ǀ
mā́dhyandine ǀ sávane ǀ vajra-hasta ǀ píba ǀ rudrébhiḥ ǀ sá-gaṇaḥ ǀ su-śipra ǁye ǀ te ǀ śuṣmam ǀ ye ǀ taviṣīm ǀ avardhan ǀ arcantaḥ ǀ indra ǀ marutaḥ ǀ te ǀ ojaḥ ǀ
mādhyandine ǀ savane ǀ vajra-hasta ǀ piba ǀ rudrebhiḥ ǀ sa-gaṇaḥ ǀ su-śipra ǁ3.32.3 Aṣṭaka 3.2.9.3Anuvāka 3.3.47
-
Ṛk 4
त इन्न्व॑स्य॒ मधु॑मद्विविप्र॒ इंद्र॑स्य॒ शर्धो॑ म॒रुतो॒ य आस॑न् ।
येभि॑र्वृ॒त्रस्ये॑षि॒तो वि॒वेदा॑म॒र्मणो॒ मन्य॑मानस्य॒ मर्म॑ ॥त इन् न्व् अस्य मधुमद् विविप्र इन्द्रस्य शर्धो मरुतो य आसन् |
येभिर् वृत्रस्येषितो विवेदामर्मणो मन्यमानस्य मर्म ||tá ínnvásya mádhumadvivipra índrasya śárdho marúto yá ā́san ǀ
yébhirvṛtrásyeṣitó vivédāmarmáṇo mányamānasya márma ǁta in nv asya madhumad vivipra indrasya śardho maruto ya āsan |
yebhir vṛtrasyeṣito vivedāmarmaṇo manyamānasya marma ||ते । इत् । नु । अ॒स्य॒ । मधु॑ऽमत् । वि॒वि॒प्रे॒ । इन्द्र॑स्य । शर्धः॑ । म॒रुतः॑ । ये । आस॑न् ।
येभिः॑ । वृ॒त्रस्य॑ । इ॒षि॒तः । वि॒वेद॑ । अ॒म॒र्मणः॑ । मन्य॑मानस्य । मर्म॑ ॥ते । इत् । नु । अस्य । मधुऽमत् । विविप्रे । इन्द्रस्य । शर्धः । मरुतः । ये । आसन् ।
येभिः । वृत्रस्य । इषितः । विवेद । अमर्मणः । मन्यमानस्य । मर्म ॥té ǀ ít ǀ nú ǀ asya ǀ mádhu-mat ǀ vivipre ǀ índrasya ǀ śárdhaḥ ǀ marútaḥ ǀ yé ǀ ā́san ǀ
yébhiḥ ǀ vṛtrásya ǀ iṣitáḥ ǀ vivéda ǀ amarmáṇaḥ ǀ mányamānasya ǀ márma ǁte ǀ it ǀ nu ǀ asya ǀ madhu-mat ǀ vivipre ǀ indrasya ǀ śardhaḥ ǀ marutaḥ ǀ ye ǀ āsan ǀ
yebhiḥ ǀ vṛtrasya ǀ iṣitaḥ ǀ viveda ǀ amarmaṇaḥ ǀ manyamānasya ǀ marma ǁ3.32.4 Aṣṭaka 3.2.9.4Anuvāka 3.3.48
-
Ṛk 5
म॒नु॒ष्वदिं॑द्र॒ सव॑नं जुषा॒णः पिबा॒ सोमं॒ शश्व॑ते वी॒र्या॑य ।
स आ व॑वृत्स्व हर्यश्व य॒ज्ञैः स॑र॒ण्युभि॑र॒पो अर्णा॑ सिसर्षि ॥मनुष्वद् इन्द्र सवनं जुषाणः पिबा सोमं शश्वते वीर्याय |
स आ ववृत्स्व हर्यश्व यज्ञैः सरण्युभिर् अपो अर्णा सिसर्षि ||manuṣvádindra sávanam juṣāṇáḥ píbā sómam śáśvate vīryā́ya ǀ
sá ā́ vavṛtsva haryaśva yajñáiḥ saraṇyúbhirapó árṇā sisarṣi ǁmanuṣvad indra savanaṃ juṣāṇaḥ pibā somaṃ śaśvate vīryāya |
sa ā vavṛtsva haryaśva yajñaiḥ saraṇyubhir apo arṇā sisarṣi ||म॒नु॒ष्वत् । इ॒न्द्र॒ । सव॑नम् । जु॒षा॒णः । पिब॑ । सोम॑म् । शश्व॑ते । वी॒र्या॑य ।
सः । आ । व॒वृ॒त्स्व॒ । ह॒रि॒ऽअ॒श्व॒ । य॒ज्ञैः । स॒र॒ण्युऽभिः॑ । अ॒पः । अर्णा॑ । सि॒स॒र्षि॒ ॥मनुष्वत् । इन्द्र । सवनम् । जुषाणः । पिब । सोमम् । शश्वते । वीर्याय ।
सः । आ । ववृत्स्व । हरिऽअश्व । यज्ञैः । सरण्युऽभिः । अपः । अर्णा । सिसर्षि ॥manuṣvát ǀ indra ǀ sávanam ǀ juṣāṇáḥ ǀ píba ǀ sómam ǀ śáśvate ǀ vīryā́ya ǀ
sáḥ ǀ ā́ ǀ vavṛtsva ǀ hari-aśva ǀ yajñáiḥ ǀ saraṇyú-bhiḥ ǀ apáḥ ǀ árṇā ǀ sisarṣi ǁmanuṣvat ǀ indra ǀ savanam ǀ juṣāṇaḥ ǀ piba ǀ somam ǀ śaśvate ǀ vīryāya ǀ
saḥ ǀ ā ǀ vavṛtsva ǀ hari-aśva ǀ yajñaiḥ ǀ saraṇyu-bhiḥ ǀ apaḥ ǀ arṇā ǀ sisarṣi ǁ3.32.5 Aṣṭaka 3.2.9.5Anuvāka 3.3.49
-
Ṛk 6
त्वम॒पो यद्ध॑ वृ॒त्रं ज॑घ॒न्वाँ अत्याँ॑ इव॒ प्रासृ॑जः॒ सर्त॒वाजौ ।
शया॑नमिंद्र॒ चर॑ता व॒धेन॑ वव्रि॒वांसं॒ परि॑ दे॒वीरदे॑वं ॥त्वम् अपो यद् ध वृत्रं जघन्वां अत्यां इव प्रासृजः सर्तवाजौ |
शयानम् इन्द्र चरता वधेन वव्रिवांसम् परि देवीर् अदेवम् ||tvámapó yáddha vṛtrám jaghanvā́m̐ átyām̐ iva prā́sṛjaḥ sártavā́jáu ǀ
śáyānamindra cáratā vadhéna vavrivā́ṃsam pári devī́rádevam ǁtvam apo yad dha vṛtraṃ jaghanvāṃ atyāṃ iva prāsṛjaḥ sartavājau |
śayānam indra caratā vadhena vavrivāṃsam pari devīr adevam ||त्वम् । अ॒पः । यत् । ह॒ । वृ॒त्रम् । ज॒घ॒न्वान् । अत्या॑न्ऽइव । प्र । असृ॑जः । सर्त॒वै । आ॒जौ ।
शया॑नम् । इ॒न्द्र॒ । चर॑ता । व॒धेन॑ । व॒व्रि॒ऽवांस॑म् । परि॑ । दे॒वीः । अदे॑वम् ॥त्वम् । अपः । यत् । ह । वृत्रम् । जघन्वान् । अत्यान्ऽइव । प्र । असृजः । सर्तवै । आजौ ।
शयानम् । इन्द्र । चरता । वधेन । वव्रिऽवांसम् । परि । देवीः । अदेवम् ॥tvám ǀ apáḥ ǀ yát ǀ ha ǀ vṛtrám ǀ jaghanvā́n ǀ átyān-iva ǀ prá ǀ ásṛjaḥ ǀ sártavái ǀ ājáu ǀ
śáyānam ǀ indra ǀ cáratā ǀ vadhéna ǀ vavri-vā́ṃsam ǀ pári ǀ devī́ḥ ǀ ádevam ǁtvam ǀ apaḥ ǀ yat ǀ ha ǀ vṛtram ǀ jaghanvān ǀ atyān-iva ǀ pra ǀ asṛjaḥ ǀ sartavai ǀ ājau ǀ
śayānam ǀ indra ǀ caratā ǀ vadhena ǀ vavri-vāṃsam ǀ pari ǀ devīḥ ǀ adevam ǁ3.32.6 Aṣṭaka 3.2.10.1Anuvāka 3.3.50
-
Ṛk 7
यजा॑म॒ इन्नम॑सा वृ॒द्धमिंद्रं॑ बृ॒हंत॑मृ॒ष्वम॒जरं॒ युवा॑नं ।
यस्य॑ प्रि॒ये म॒मतु॑र्य॒ज्ञिय॑स्य॒ न रोद॑सी महि॒मानं॑ म॒माते॑ ॥यजाम इन् नमसा वृद्धम् इन्द्रम् बृहन्तम् ऋष्वम् अजरं युवानम् |
यस्य प्रिये ममतुर् यज्ञियस्य न रोदसी महिमानम् ममाते ||yájāma ínnámasā vṛddhámíndram bṛhántamṛṣvámajáram yúvānam ǀ
yásya priyé mamáturyajñíyasya ná ródasī mahimā́nam mamā́te ǁyajāma in namasā vṛddham indram bṛhantam ṛṣvam ajaraṃ yuvānam |
yasya priye mamatur yajñiyasya na rodasī mahimānam mamāte ||यजा॑मः । इत् । नम॑सा । वृ॒द्धम् । इन्द्र॑म् । बृ॒हन्त॑म् । ऋ॒ष्वम् । अ॒जर॑म् । युवा॑नम् ।
यस्य॑ । प्रि॒ये इति॑ । म॒मतुः॑ । य॒ज्ञिय॑स्य । न । रोद॑सी॒ इति॑ । म॒हि॒मान॑म् । म॒माते॒ इति॑ ॥यजामः । इत् । नमसा । वृद्धम् । इन्द्रम् । बृहन्तम् । ऋष्वम् । अजरम् । युवानम् ।
यस्य । प्रिये इति । ममतुः । यज्ञियस्य । न । रोदसी इति । महिमानम् । ममाते इति ॥yájāmaḥ ǀ ít ǀ námasā ǀ vṛddhám ǀ índram ǀ bṛhántam ǀ ṛṣvám ǀ ajáram ǀ yúvānam ǀ
yásya ǀ priyé íti ǀ mamátuḥ ǀ yajñíyasya ǀ ná ǀ ródasī íti ǀ mahimā́nam ǀ mamā́te íti ǁyajāmaḥ ǀ it ǀ namasā ǀ vṛddham ǀ indram ǀ bṛhantam ǀ ṛṣvam ǀ ajaram ǀ yuvānam ǀ
yasya ǀ priye iti ǀ mamatuḥ ǀ yajñiyasya ǀ na ǀ rodasī iti ǀ mahimānam ǀ mamāte iti ǁ3.32.7 Aṣṭaka 3.2.10.2Anuvāka 3.3.51
-
Ṛk 8
इंद्र॑स्य॒ कर्म॒ सुकृ॑ता पु॒रूणि॑ व्र॒तानि॑ दे॒वा न मि॑नंति॒ विश्वे॑ ।
दा॒धार॒ यः पृ॑थि॒वीं द्यामु॒तेमां ज॒जान॒ सूर्य॑मु॒षसं॑ सु॒दंसाः॑ ॥इन्द्रस्य कर्म सुकृता पुरूणि व्रतानि देवा न मिनन्ति विश्वे |
दाधार यः पृथिवीं द्याम् उतेमां जजान सूर्यम् उषसं सुदंसाः ||índrasya kárma súkṛtā purū́ṇi vratā́ni devā́ ná minanti víśve ǀ
dādhā́ra yáḥ pṛthivī́m dyā́mutémā́m jajā́na sū́ryamuṣásam sudáṃsāḥ ǁindrasya karma sukṛtā purūṇi vratāni devā na minanti viśve |
dādhāra yaḥ pṛthivīṃ dyām utemāṃ jajāna sūryam uṣasaṃ sudaṃsāḥ ||इन्द्र॑स्य । कर्म॑ । सुऽकृ॑ता । पु॒रूणि॑ । व्र॒तानि॑ । दे॒वाः । न । मि॒न॒न्ति॒ । विश्वे॑ ।
दा॒धार॑ । यः । पृ॒थि॒वीम् । द्याम् । उ॒त । इ॒माम् । ज॒जान॑ । सूर्य॑म् । उ॒षस॑म् । सु॒ऽदंसाः॑ ॥इन्द्रस्य । कर्म । सुऽकृता । पुरूणि । व्रतानि । देवाः । न । मिनन्ति । विश्वे ।
दाधार । यः । पृथिवीम् । द्याम् । उत । इमाम् । जजान । सूर्यम् । उषसम् । सुऽदंसाः ॥índrasya ǀ kárma ǀ sú-kṛtā ǀ purū́ṇi ǀ vratā́ni ǀ devā́ḥ ǀ ná ǀ minanti ǀ víśve ǀ
dādhā́ra ǀ yáḥ ǀ pṛthivī́m ǀ dyā́m ǀ utá ǀ imā́m ǀ jajā́na ǀ sū́ryam ǀ uṣásam ǀ su-dáṃsāḥ ǁindrasya ǀ karma ǀ su-kṛtā ǀ purūṇi ǀ vratāni ǀ devāḥ ǀ na ǀ minanti ǀ viśve ǀ
dādhāra ǀ yaḥ ǀ pṛthivīm ǀ dyām ǀ uta ǀ imām ǀ jajāna ǀ sūryam ǀ uṣasam ǀ su-daṃsāḥ ǁ3.32.8 Aṣṭaka 3.2.10.3Anuvāka 3.3.52
-
Ṛk 9
अद्रो॑घ स॒त्यं तव॒ तन्म॑हि॒त्वं स॒द्यो यज्जा॒तो अपि॑बो ह॒ सोमं॑ ।
न द्याव॑ इंद्र त॒वस॑स्त॒ ओजो॒ नाहा॒ न मासाः॑ श॒रदो॑ वरंत ॥अद्रोघ सत्यं तव तन् महित्वं सद्यो यज् जातो अपिबो ह सोमम् |
न द्याव इन्द्र तवसस् त ओजो नाहा न मासाः शरदो वरन्त ||ádrogha satyám táva tánmahitvám sadyó yájjātó ápibo ha sómam ǀ
ná dyā́va indra tavásasta ójo nā́hā ná mā́sāḥ śarádo varanta ǁadrogha satyaṃ tava tan mahitvaṃ sadyo yaj jāto apibo ha somam |
na dyāva indra tavasas ta ojo nāhā na māsāḥ śarado varanta ||अद्रो॑घ । स॒त्यम् । तव॑ । तत् । म॒हि॒ऽत्वम् । स॒द्यः । यत् । जा॒तः । अपि॑बः । ह॒ । सोम॑म् ।
न । द्यावः॑ । इ॒न्द्र॒ । त॒वसः॑ । ते॒ । ओजः॑ । न । अहा॑ । न । मासाः॑ । श॒रदः॑ । व॒र॒न्त॒ ॥अद्रोघ । सत्यम् । तव । तत् । महिऽत्वम् । सद्यः । यत् । जातः । अपिबः । ह । सोमम् ।
न । द्यावः । इन्द्र । तवसः । ते । ओजः । न । अहा । न । मासाः । शरदः । वरन्त ॥ádrogha ǀ satyám ǀ táva ǀ tát ǀ mahi-tvám ǀ sadyáḥ ǀ yát ǀ jātáḥ ǀ ápibaḥ ǀ ha ǀ sómam ǀ
ná ǀ dyā́vaḥ ǀ indra ǀ tavásaḥ ǀ te ǀ ójaḥ ǀ ná ǀ áhā ǀ ná ǀ mā́sāḥ ǀ śarádaḥ ǀ varanta ǁadrogha ǀ satyam ǀ tava ǀ tat ǀ mahi-tvam ǀ sadyaḥ ǀ yat ǀ jātaḥ ǀ apibaḥ ǀ ha ǀ somam ǀ
na ǀ dyāvaḥ ǀ indra ǀ tavasaḥ ǀ te ǀ ojaḥ ǀ na ǀ ahā ǀ na ǀ māsāḥ ǀ śaradaḥ ǀ varanta ǁ3.32.9 Aṣṭaka 3.2.10.4Anuvāka 3.3.53
-
Ṛk 10
त्वं स॒द्यो अ॑पिबो जा॒त इं॑द्र॒ मदा॑य॒ सोमं॑ पर॒मे व्यो॑मन् ।
यद्ध॒ द्यावा॑पृथि॒वी आवि॑वेशी॒रथा॑भवः पू॒र्व्यः का॒रुधा॑याः ॥त्वं सद्यो अपिबो जात इन्द्र मदाय सोमम् परमे व्योमन् |
यद् ध द्यावापृथिवी आविवेशीर् अथाभवः पूर्व्यः कारुधायाः ||tvám sadyó apibo jātá indra mádāya sómam paramé vyoman ǀ
yáddha dyā́vāpṛthivī́ ā́viveśīráthābhavaḥ pūrvyáḥ kārúdhāyāḥ ǁtvaṃ sadyo apibo jāta indra madāya somam parame vyoman |
yad dha dyāvāpṛthivī āviveśīr athābhavaḥ pūrvyaḥ kārudhāyāḥ ||त्वम् । स॒द्यः । अ॒पि॒बः॒ । जा॒तः । इ॒न्द्र॒ । मदा॑य । सोम॑म् । प॒र॒मे । विऽओ॑मन् ।
यत् । ह॒ । द्यावा॑पृथि॒वी इति॑ । आ । अवि॑वेशीः । अथ॑ । अ॒भ॒वः॒ । पू॒र्व्यः । का॒रुऽधा॑याः ॥त्वम् । सद्यः । अपिबः । जातः । इन्द्र । मदाय । सोमम् । परमे । विऽओमन् ।
यत् । ह । द्यावापृथिवी इति । आ । अविवेशीः । अथ । अभवः । पूर्व्यः । कारुऽधायाः ॥tvám ǀ sadyáḥ ǀ apibaḥ ǀ jātáḥ ǀ indra ǀ mádāya ǀ sómam ǀ paramé ǀ ví-oman ǀ
yát ǀ ha ǀ dyā́vāpṛthivī́ íti ǀ ā́ ǀ áviveśīḥ ǀ átha ǀ abhavaḥ ǀ pūrvyáḥ ǀ kārú-dhāyāḥ ǁtvam ǀ sadyaḥ ǀ apibaḥ ǀ jātaḥ ǀ indra ǀ madāya ǀ somam ǀ parame ǀ vi-oman ǀ
yat ǀ ha ǀ dyāvāpṛthivī iti ǀ ā ǀ aviveśīḥ ǀ atha ǀ abhavaḥ ǀ pūrvyaḥ ǀ kāru-dhāyāḥ ǁ3.32.10 Aṣṭaka 3.2.10.5Anuvāka 3.3.54
-
Ṛk 11
अह॒न्नहिं॑ परि॒शया॑न॒मर्ण॑ ओजा॒यमा॑नं तुविजात॒ तव्या॑न् ।
न ते॑ महि॒त्वमनु॑ भू॒दध॒ द्यौर्यद॒न्यया॑ स्फि॒ग्या॒३॒॑क्षामव॑स्थाः ॥अहन्न् अहिम् परिशयानम् अर्ण ओजायमानं तुविजात तव्यान् |
न ते महित्वम् अनु भूद् अध द्यौर् यद् अन्यया स्फिग्या क्षाम् अवस्थाः ||áhannáhim pariśáyānamárṇa ojāyámānam tuvijāta távyān ǀ
ná te mahitvámánu bhūdádha dyáuryádanyáyā sphigyā́kṣā́mávasthāḥ ǁahann ahim pariśayānam arṇa ojāyamānaṃ tuvijāta tavyān |
na te mahitvam anu bhūd adha dyaur yad anyayā sphigyā kṣām avasthāḥ ||अह॑न् । अहि॑म् । प॒रि॒ऽशया॑नम् । अर्णः॑ । ओ॒जा॒यमा॑नम् । तु॒वि॒ऽजा॒त॒ । तव्या॑न् ।
न । ते॒ । म॒हि॒ऽत्वम् । अनु॑ । भू॒त् । अध॑ । द्यौः । यत् । अ॒न्यया॑ । स्फि॒ग्या॑ । क्षाम् । अव॑स्थाः ॥अहन् । अहिम् । परिऽशयानम् । अर्णः । ओजायमानम् । तुविऽजात । तव्यान् ।
न । ते । महिऽत्वम् । अनु । भूत् । अध । द्यौः । यत् । अन्यया । स्फिग्या । क्षाम् । अवस्थाः ॥áhan ǀ áhim ǀ pari-śáyānam ǀ árṇaḥ ǀ ojāyámānam ǀ tuvi-jāta ǀ távyān ǀ
ná ǀ te ǀ mahi-tvám ǀ ánu ǀ bhūt ǀ ádha ǀ dyáuḥ ǀ yát ǀ anyáyā ǀ sphigyā́ ǀ kṣā́m ǀ ávasthāḥ ǁahan ǀ ahim ǀ pari-śayānam ǀ arṇaḥ ǀ ojāyamānam ǀ tuvi-jāta ǀ tavyān ǀ
na ǀ te ǀ mahi-tvam ǀ anu ǀ bhūt ǀ adha ǀ dyauḥ ǀ yat ǀ anyayā ǀ sphigyā ǀ kṣām ǀ avasthāḥ ǁ3.32.11 Aṣṭaka 3.2.11.1Anuvāka 3.3.55
-
Ṛk 12
य॒ज्ञो हि त॑ इंद्र॒ वर्ध॑नो॒ भूदु॒त प्रि॒यः सु॒तसो॑मो मि॒येधः॑ ।
य॒ज्ञेन॑ य॒ज्ञम॑व य॒ज्ञियः॒ सन्य॒ज्ञस्ते॒ वज्र॑महि॒हत्य॑ आवत् ॥यज्ञो हि त इन्द्र वर्धनो भूद् उत प्रियः सुतसोमो मियेधः |
यज्ञेन यज्ञम् अव यज्ञियः सन् यज्ञस् ते वज्रम् अहिहत्य आवत् ||yajñó hí ta indra várdhano bhū́dutá priyáḥ sutásomo miyédhaḥ ǀ
yajñéna yajñámava yajñíyaḥ sányajñáste vájramahihátya āvat ǁyajño hi ta indra vardhano bhūd uta priyaḥ sutasomo miyedhaḥ |
yajñena yajñam ava yajñiyaḥ san yajñas te vajram ahihatya āvat ||य॒ज्ञः । हि । ते॒ । इ॒न्द्र॒ । वर्ध॑नः । भूत् । उ॒त । प्रि॒यः । सु॒तऽसो॑मः । मि॒येधः॑ ।
य॒ज्ञेन॑ । य॒ज्ञम् । अ॒व॒ । य॒ज्ञियः॑ । सन् । य॒ज्ञः । ते॒ । वज्र॑म् । अ॒हि॒ऽहत्ये॑ । आ॒व॒त् ॥यज्ञः । हि । ते । इन्द्र । वर्धनः । भूत् । उत । प्रियः । सुतऽसोमः । मियेधः ।
यज्ञेन । यज्ञम् । अव । यज्ञियः । सन् । यज्ञः । ते । वज्रम् । अहिऽहत्ये । आवत् ॥yajñáḥ ǀ hí ǀ te ǀ indra ǀ várdhanaḥ ǀ bhū́t ǀ utá ǀ priyáḥ ǀ sutá-somaḥ ǀ miyédhaḥ ǀ
yajñéna ǀ yajñám ǀ ava ǀ yajñíyaḥ ǀ sán ǀ yajñáḥ ǀ te ǀ vájram ǀ ahi-hátye ǀ āvat ǁyajñaḥ ǀ hi ǀ te ǀ indra ǀ vardhanaḥ ǀ bhūt ǀ uta ǀ priyaḥ ǀ suta-somaḥ ǀ miyedhaḥ ǀ
yajñena ǀ yajñam ǀ ava ǀ yajñiyaḥ ǀ san ǀ yajñaḥ ǀ te ǀ vajram ǀ ahi-hatye ǀ āvat ǁ3.32.12 Aṣṭaka 3.2.11.2Anuvāka 3.3.56
-
Ṛk 13
य॒ज्ञेनेंद्र॒मव॒सा च॑क्रे अ॒र्वागैनं॑ सु॒म्नाय॒ नव्य॑से ववृत्यां ।
यः स्तोमे॑भिर्वावृ॒धे पू॒र्व्येभि॒र्यो म॑ध्य॒मेभि॑रु॒त नूत॑नेभिः ॥यज्ञेनेन्द्रम् अवसा चक्रे अर्वाग् ऐनं सुम्नाय नव्यसे ववृत्याम् |
य स्तोमेभिर् वावृधे पूर्व्येभिर् यो मध्यमेभिर् उत नूतनेभिः ||yajñénéndramávasā́ cakre arvā́gáinam sumnā́ya návyase vavṛtyām ǀ
yáḥ stómebhirvāvṛdhé pūrvyébhiryó madhyamébhirutá nū́tanebhiḥ ǁyajñenendram avasā cakre arvāg ainaṃ sumnāya navyase vavṛtyām |
ya stomebhir vāvṛdhe pūrvyebhir yo madhyamebhir uta nūtanebhiḥ ||य॒ज्ञेन॑ । इन्द्र॑म् । अव॑सा । आ । च॒क्रे॒ । अ॒र्वाक् । आ । ए॒न॒म् । सु॒म्नाय॑ । नव्य॑से । व॒वृ॒त्या॒म् ।
यः । स्तोमे॑भिः । व॒वृ॒धे । पू॒र्व्येभिः॑ । यः । म॒ध्य॒मेभिः॑ । उ॒त । नूत॑नेभिः ॥यज्ञेन । इन्द्रम् । अवसा । आ । चक्रे । अर्वाक् । आ । एनम् । सुम्नाय । नव्यसे । ववृत्याम् ।
यः । स्तोमेभिः । ववृधे । पूर्व्येभिः । यः । मध्यमेभिः । उत । नूतनेभिः ॥yajñéna ǀ índram ǀ ávasā ǀ ā́ ǀ cakre ǀ arvā́k ǀ ā́ ǀ enam ǀ sumnā́ya ǀ návyase ǀ vavṛtyām ǀ
yáḥ ǀ stómebhiḥ ǀ vavṛdhé ǀ pūrvyébhiḥ ǀ yáḥ ǀ madhyamébhiḥ ǀ utá ǀ nū́tanebhiḥ ǁyajñena ǀ indram ǀ avasā ǀ ā ǀ cakre ǀ arvāk ǀ ā ǀ enam ǀ sumnāya ǀ navyase ǀ vavṛtyām ǀ
yaḥ ǀ stomebhiḥ ǀ vavṛdhe ǀ pūrvyebhiḥ ǀ yaḥ ǀ madhyamebhiḥ ǀ uta ǀ nūtanebhiḥ ǁ3.32.13 Aṣṭaka 3.2.11.3Anuvāka 3.3.57
-
Ṛk 14
वि॒वेष॒ यन्मा॑ धि॒षणा॑ ज॒जान॒ स्तवै॑ पु॒रा पार्या॒दिंद्र॒मह्नः॑ ।
अंह॑सो॒ यत्र॑ पी॒पर॒द्यथा॑ नो ना॒वेव॒ यांत॑मु॒भये॑ हवंते ॥विवेष यन् मा धिषणा जजान स्तवै पुरा पार्याद् इन्द्रम् अह्नः |
अंहसो यत्र पीपरद् यथा नो नावेव यान्तम् उभये हवन्ते ||vivéṣa yánmā dhiṣáṇā jajā́na stávai purā́ pā́ryādíndramáhnaḥ ǀ
áṃhaso yátra pīpáradyáthā no nāvéva yā́ntamubháye havante ǁviveṣa yan mā dhiṣaṇā jajāna stavai purā pāryād indram ahnaḥ |
aṃhaso yatra pīparad yathā no nāveva yāntam ubhaye havante ||वि॒वेष॑ । यत् । मा॒ । धि॒षणा॑ । ज॒जान॑ । स्तवै॑ । पु॒रा । पार्या॑त् । इन्द्र॑म् । अह्नः॑ ।
अंह॑सः । यत्र॑ । पी॒पर॑त् । यथा॑ । नः॒ । ना॒वाऽइ॑व । यान्त॑म् । उ॒भये॑ । ह॒व॒न्ते॒ ॥विवेष । यत् । मा । धिषणा । जजान । स्तवै । पुरा । पार्यात् । इन्द्रम् । अह्नः ।
अंहसः । यत्र । पीपरत् । यथा । नः । नावाऽइव । यान्तम् । उभये । हवन्ते ॥vivéṣa ǀ yát ǀ mā ǀ dhiṣáṇā ǀ jajā́na ǀ stávai ǀ purā́ ǀ pā́ryāt ǀ índram ǀ áhnaḥ ǀ
áṃhasaḥ ǀ yátra ǀ pīpárat ǀ yáthā ǀ naḥ ǀ nāvā́-iva ǀ yā́ntam ǀ ubháye ǀ havante ǁviveṣa ǀ yat ǀ mā ǀ dhiṣaṇā ǀ jajāna ǀ stavai ǀ purā ǀ pāryāt ǀ indram ǀ ahnaḥ ǀ
aṃhasaḥ ǀ yatra ǀ pīparat ǀ yathā ǀ naḥ ǀ nāvā-iva ǀ yāntam ǀ ubhaye ǀ havante ǁ3.32.14 Aṣṭaka 3.2.11.4Anuvāka 3.3.58
-
Ṛk 15
आपू॑र्णो अस्य क॒लशः॒ स्वाहा॒ सेक्ते॑व॒ कोशं॑ सिसिचे॒ पिब॑ध्यै ।
समु॑ प्रि॒या आव॑वृत्र॒न्मदा॑य प्रदक्षि॒णिद॒भि सोमा॑स॒ इंद्रं॑ ॥आपूर्णो अस्य कलशः स्वाहा सेक्तेव कोशं सिसिचे पिबध्यै |
सम् उ प्रिया आववृत्रन् मदाय प्रदक्षिणिद् अभि सोमास इन्द्रम् ||ā́pūrṇo asya kaláśaḥ svā́hā sékteva kóśam sisice píbadhyai ǀ
sámu priyā́ ā́vavṛtranmádāya pradakṣiṇídabhí sómāsa índram ǁāpūrṇo asya kalaśaḥ svāhā sekteva kośaṃ sisice pibadhyai |
sam u priyā āvavṛtran madāya pradakṣiṇid abhi somāsa indram ||आऽपू॑र्णः । अ॒स्य॒ । क॒लशः॑ । स्वाहा॑ । सेक्ता॑ऽइव । कोश॑म् । सि॒सि॒चे॒ । पिब॑ध्यै ।
सम् । ऊं॒ इति॑ । प्रि॒याः । आ । अ॒व॒वृ॒त्र॒न् । मदा॑य । प्र॒ऽद॒क्षि॒णित् । अ॒भि । सोमा॑सः । इन्द्र॑म् ॥आऽपूर्णः । अस्य । कलशः । स्वाहा । सेक्ताऽइव । कोशम् । सिसिचे । पिबध्यै ।
सम् । ऊं इति । प्रियाः । आ । अववृत्रन् । मदाय । प्रऽदक्षिणित् । अभि । सोमासः । इन्द्रम् ॥ā́-pūrṇaḥ ǀ asya ǀ kaláśaḥ ǀ svā́hā ǀ séktā-iva ǀ kóśam ǀ sisice ǀ píbadhyai ǀ
sám ǀ ūṃ íti ǀ priyā́ḥ ǀ ā́ ǀ avavṛtran ǀ mádāya ǀ pra-dakṣiṇít ǀ abhí ǀ sómāsaḥ ǀ índram ǁā-pūrṇaḥ ǀ asya ǀ kalaśaḥ ǀ svāhā ǀ sektā-iva ǀ kośam ǀ sisice ǀ pibadhyai ǀ
sam ǀ ūṃ iti ǀ priyāḥ ǀ ā ǀ avavṛtran ǀ madāya ǀ pra-dakṣiṇit ǀ abhi ǀ somāsaḥ ǀ indram ǁ3.32.15 Aṣṭaka 3.2.11.5Anuvāka 3.3.59
-
Ṛk 16
न त्वा॑ गभी॒रः पु॑रुहूत॒ सिंधु॒र्नाद्र॑यः॒ परि॒ षंतो॑ वरंत ।
इ॒त्था सखि॑भ्य इषि॒तो यदिं॒द्रा दृ॒ळ्हं चि॒दरु॑जो॒ गव्य॑मू॒र्वं ॥न त्वा गभीरः पुरुहूत सिन्धुर् नाद्रयः परि षन्तो वरन्त |
इत्था सखिभ्य इषितो यद् इन्द्रा दृऌहं चिद् अरुजो गव्यम् ऊर्वम् ||ná tvā gabhīráḥ puruhūta síndhurnā́drayaḥ pári ṣánto varanta ǀ
itthā́ sákhibhya iṣitó yádindrā́ dṛḷhám cidárujo gávyamūrvám ǁna tvā gabhīraḥ puruhūta sindhur nādrayaḥ pari ṣanto varanta |
itthā sakhibhya iṣito yad indrā dṛḷhaṃ cid arujo gavyam ūrvam ||न । त्वा॒ । ग॒भी॒रः । पु॒रु॒ऽहू॒त॒ । सिन्धुः॑ । न । अद्र॑यः । परि॑ । सन्तः॑ । व॒र॒न्त॒ ।
इ॒त्था । सखि॑ऽभ्यः । इ॒षि॒तः । यत् । इ॒न्द्र॒ । आ । दृ॒ळ्हम् । चि॒त् । अरु॑जः । गव्य॑म् । ऊ॒र्वम् ॥न । त्वा । गभीरः । पुरुऽहूत । सिन्धुः । न । अद्रयः । परि । सन्तः । वरन्त ।
इत्था । सखिऽभ्यः । इषितः । यत् । इन्द्र । आ । दृळ्हम् । चित् । अरुजः । गव्यम् । ऊर्वम् ॥ná ǀ tvā ǀ gabhīráḥ ǀ puru-hūta ǀ síndhuḥ ǀ ná ǀ ádrayaḥ ǀ pári ǀ sántaḥ ǀ varanta ǀ
itthā́ ǀ sákhi-bhyaḥ ǀ iṣitáḥ ǀ yát ǀ indra ǀ ā́ ǀ dṛḷhám ǀ cit ǀ árujaḥ ǀ gávyam ǀ ūrvám ǁna ǀ tvā ǀ gabhīraḥ ǀ puru-hūta ǀ sindhuḥ ǀ na ǀ adrayaḥ ǀ pari ǀ santaḥ ǀ varanta ǀ
itthā ǀ sakhi-bhyaḥ ǀ iṣitaḥ ǀ yat ǀ indra ǀ ā ǀ dṛḷham ǀ cit ǀ arujaḥ ǀ gavyam ǀ ūrvam ǁ3.32.16 Aṣṭaka 3.2.11.6Anuvāka 3.3.60
-
Ṛk 17
शु॒नं हु॑वेम म॒घवा॑न॒मिंद्र॑म॒स्मिन्भरे॒ नृत॑मं॒ वाज॑सातौ ।
शृ॒ण्वंत॑मु॒ग्रमू॒तये॑ स॒मत्सु॒ घ्नंतं॑ वृ॒त्राणि॑ सं॒जितं॒ धना॑नां ॥शुनं हुवेम मघवानम् इन्द्रम् अस्मिन् भरे नृतमं वाजसातौ |
शृण्वन्तम् उग्रम् ऊतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ||śunám huvema maghávānamíndramasmínbháre nṛ́tamam vā́jasātau ǀ
śṛṇvántamugrámūtáye samátsu ghnántam vṛtrā́ṇi saṃjítam dhánānām ǁśunaṃ huvema maghavānam indram asmin bhare nṛtamaṃ vājasātau |
śṛṇvantam ugram ūtaye samatsu ghnantaṃ vṛtrāṇi saṃjitaṃ dhanānām ||शु॒नम् । हु॒वे॒म॒ । म॒घऽवा॑नम् । इन्द्र॑म् । अ॒स्मिन् । भरे॑ । नृऽत॑मम् । वाज॑ऽसातौ ।
शृ॒ण्वन्त॑म् । उ॒ग्रम् । ऊ॒तये॑ । स॒मत्ऽसु॑ । घ्नन्त॑म् । वृ॒त्राणि॑ । स॒म्ऽजित॑म् । धना॑नाम् ॥शुनम् । हुवेम । मघऽवानम् । इन्द्रम् । अस्मिन् । भरे । नृऽतमम् । वाजऽसातौ ।
शृण्वन्तम् । उग्रम् । ऊतये । समत्ऽसु । घ्नन्तम् । वृत्राणि । सम्ऽजितम् । धनानाम् ॥śunám ǀ huvema ǀ maghá-vānam ǀ índram ǀ asmín ǀ bháre ǀ nṛ́-tamam ǀ vā́ja-sātau ǀ
śṛṇvántam ǀ ugrám ǀ ūtáye ǀ samát-su ǀ ghnántam ǀ vṛtrā́ṇi ǀ sam-jítam ǀ dhánānām ǁśunam ǀ huvema ǀ magha-vānam ǀ indram ǀ asmin ǀ bhare ǀ nṛ-tamam ǀ vāja-sātau ǀ
śṛṇvantam ǀ ugram ǀ ūtaye ǀ samat-su ǀ ghnantam ǀ vṛtrāṇi ǀ sam-jitam ǀ dhanānām ǁ3.32.17 Aṣṭaka 3.2.11.7Anuvāka 3.3.61
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.