Ṛk 3.32.14
Saṃhitā
वि॒वेष॒ यन्मा॑ धि॒षणा॑ ज॒जान॒ स्तवै॑ पु॒रा पार्या॒दिंद्र॒मह्नः॑ ।
अंह॑सो॒ यत्र॑ पी॒पर॒द्यथा॑ नो ना॒वेव॒ यांत॑मु॒भये॑ हवंते ॥
विवेष यन् मा धिषणा जजान स्तवै पुरा पार्याद् इन्द्रम् अह्नः |
अंहसो यत्र पीपरद् यथा नो नावेव यान्तम् उभये हवन्ते ||
vivéṣa yánmā dhiṣáṇā jajā́na stávai purā́ pā́ryādíndramáhnaḥ ǀ
áṃhaso yátra pīpáradyáthā no nāvéva yā́ntamubháye havante ǁ
viveṣa yan mā dhiṣaṇā jajāna stavai purā pāryād indram ahnaḥ |
aṃhaso yatra pīparad yathā no nāveva yāntam ubhaye havante ||
Padapāṭha
वि॒वेष॑ । यत् । मा॒ । धि॒षणा॑ । ज॒जान॑ । स्तवै॑ । पु॒रा । पार्या॑त् । इन्द्र॑म् । अह्नः॑ ।
अंह॑सः । यत्र॑ । पी॒पर॑त् । यथा॑ । नः॒ । ना॒वाऽइ॑व । यान्त॑म् । उ॒भये॑ । ह॒व॒न्ते॒ ॥
विवेष । यत् । मा । धिषणा । जजान । स्तवै । पुरा । पार्यात् । इन्द्रम् । अह्नः ।
अंहसः । यत्र । पीपरत् । यथा । नः । नावाऽइव । यान्तम् । उभये । हवन्ते ॥
vivéṣa ǀ yát ǀ mā ǀ dhiṣáṇā ǀ jajā́na ǀ stávai ǀ purā́ ǀ pā́ryāt ǀ índram ǀ áhnaḥ ǀ
áṃhasaḥ ǀ yátra ǀ pīpárat ǀ yáthā ǀ naḥ ǀ nāvā́-iva ǀ yā́ntam ǀ ubháye ǀ havante ǁ
viveṣa ǀ yat ǀ mā ǀ dhiṣaṇā ǀ jajāna ǀ stavai ǀ purā ǀ pāryāt ǀ indram ǀ ahnaḥ ǀ
aṃhasaḥ ǀ yatra ǀ pīparat ǀ yathā ǀ naḥ ǀ nāvā-iva ǀ yāntam ǀ ubhaye ǀ havante ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 03.032.14
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.2.11.04
- Maṇḍala · Anuvāka · Ṛk
- 03.03.058
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Viśvāmitra Gāthina
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.