Sūkta 56
- Devatā देवता
- Viśvedevās
- Ṛṣi ऋषि
- Prajāpati Vācya Or Prajāpati Vaiśvāmitra
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles nicṛttriṣṭup (1, 6, 8); virāṭtrisṭup (3, 4); triṣṭup (5, 7); bhurikpaṅkti (2)
2nd set of styles triṣṭubh
-
Ṛk 1
न ता मि॑नंति मा॒यिनो॒ न धीरा॑ व्र॒ता दे॒वानां॑ प्रथ॒मा ध्रु॒वाणि॑ ।
न रोद॑सी अ॒द्रुहा॑ वे॒द्याभि॒र्न पर्व॑ता नि॒नमे॑ तस्थि॒वांसः॑ ॥न ता मिनन्ति मायिनो न धीरा व्रता देवानाम् प्रथमा ध्रुवाणि |
न रोदसी अद्रुहा वेद्याभिर् न पर्वता निनमे तस्थिवांसः ||ná tā́ minanti māyíno ná dhī́rā vratā́ devā́nām prathamā́ dhruvā́ṇi ǀ
ná ródasī adrúhā vedyā́bhirná párvatā nináme tasthivā́ṃsaḥ ǁna tā minanti māyino na dhīrā vratā devānām prathamā dhruvāṇi |
na rodasī adruhā vedyābhir na parvatā niname tasthivāṃsaḥ ||न । ता । मि॒न॒न्ति॒ । मा॒यिनः॑ । न । धीराः॑ । व्र॒ता । दे॒वाना॑म् । प्र॒थ॒मा । ध्रु॒वाणि॑ ।
न । रोद॑सी॒ इति॑ । अ॒द्रुहा॑ । वे॒द्याभिः॑ । न । पर्व॑ताः । नि॒ऽनमे॑ । त॒स्थि॒ऽवांसः॑ ॥न । ता । मिनन्ति । मायिनः । न । धीराः । व्रता । देवानाम् । प्रथमा । ध्रुवाणि ।
न । रोदसी इति । अद्रुहा । वेद्याभिः । न । पर्वताः । निऽनमे । तस्थिऽवांसः ॥ná ǀ tā́ ǀ minanti ǀ māyínaḥ ǀ ná ǀ dhī́rāḥ ǀ vratā́ ǀ devā́nām ǀ prathamā́ ǀ dhruvā́ṇi ǀ
ná ǀ ródasī íti ǀ adrúhā ǀ vedyā́bhiḥ ǀ ná ǀ párvatāḥ ǀ ni-náme ǀ tasthi-vā́ṃsaḥ ǁna ǀ tā ǀ minanti ǀ māyinaḥ ǀ na ǀ dhīrāḥ ǀ vratā ǀ devānām ǀ prathamā ǀ dhruvāṇi ǀ
na ǀ rodasī iti ǀ adruhā ǀ vedyābhiḥ ǀ na ǀ parvatāḥ ǀ ni-name ǀ tasthi-vāṃsaḥ ǁ3.56.1 Aṣṭaka 3.4.1.1Anuvāka 3.5.45
-
Ṛk 2
षड्भा॒राँ एको॒ अच॑रन्बिभर्त्यृ॒तं वर्षि॑ष्ठ॒मुप॒ गाव॒ आगुः॑ ।
ति॒स्रो म॒हीरुप॑रास्तस्थु॒रत्या॒ गुहा॒ द्वे निहि॑ते॒ दर्श्येका॑ ॥षड् भारां एको अचरन् बिभर्त्य् ऋतं वर्षिष्ठम् उप गाव आगुः |
तिस्रो महीर् उपरास् तस्थुर् अत्या गुहा द्वे निहिते दर्श्य् एका ||ṣáḍbhārā́m̐ éko ácaranbibhartyṛtám várṣiṣṭhamúpa gā́va ā́guḥ ǀ
tisró mahī́rúparāstasthurátyā gúhā dvé níhite dárśyékā ǁṣaḍ bhārāṃ eko acaran bibharty ṛtaṃ varṣiṣṭham upa gāva āguḥ |
tisro mahīr uparās tasthur atyā guhā dve nihite darśy ekā ||षट् । भा॒रान् । एकः॑ । अच॑रन् । बि॒भ॒र्ति॒ । ऋ॒तम् । वर्षि॑ष्ठम् । उप॑ । गावः॑ । आ । अ॒गुः॒ ।
ति॒स्रः । म॒हीः । उप॑राः । त॒स्थुः॒ । अत्याः॑ । गुहा॑ । द्वे इति॑ । निहि॑ते॒ इति॒ निऽहि॑ते । दर्शि॑ । एका॑ ॥षट् । भारान् । एकः । अचरन् । बिभर्ति । ऋतम् । वर्षिष्ठम् । उप । गावः । आ । अगुः ।
तिस्रः । महीः । उपराः । तस्थुः । अत्याः । गुहा । द्वे इति । निहिते इति निऽहिते । दर्शि । एका ॥ṣáṭ ǀ bhārā́n ǀ ékaḥ ǀ ácaran ǀ bibharti ǀ ṛtám ǀ várṣiṣṭham ǀ úpa ǀ gā́vaḥ ǀ ā́ ǀ aguḥ ǀ
tisráḥ ǀ mahī́ḥ ǀ úparāḥ ǀ tasthuḥ ǀ átyāḥ ǀ gúhā ǀ dvé íti ǀ níhite íti ní-hite ǀ dárśi ǀ ékā ǁṣaṭ ǀ bhārān ǀ ekaḥ ǀ acaran ǀ bibharti ǀ ṛtam ǀ varṣiṣṭham ǀ upa ǀ gāvaḥ ǀ ā ǀ aguḥ ǀ
tisraḥ ǀ mahīḥ ǀ uparāḥ ǀ tasthuḥ ǀ atyāḥ ǀ guhā ǀ dve iti ǀ nihite iti ni-hite ǀ darśi ǀ ekā ǁ3.56.2 Aṣṭaka 3.4.1.2Anuvāka 3.5.46
-
Ṛk 3
त्रि॒पा॒ज॒स्यो वृ॑ष॒भो वि॒श्वरू॑प उ॒त त्र्यु॒धा पु॑रु॒ध प्र॒जावा॑न् ।
त्र्य॒नी॒कः प॑त्यते॒ माहि॑नावा॒न्त्स रे॑तो॒धा वृ॑ष॒भः शश्व॑तीनां ॥त्रिपाजस्यो वृषभो विश्वरूप उत त्र्युधा पुरुध प्रजावान् |
त्र्यनीकः पत्यते माहिनावान् स रेतोधा वृषभः शश्वतीनाम् ||tripājasyó vṛṣabhó viśvárūpa utá tryudhā́ purudhá prajā́vān ǀ
tryanīkáḥ patyate mā́hināvāntsá retodhā́ vṛṣabháḥ śáśvatīnām ǁtripājasyo vṛṣabho viśvarūpa uta tryudhā purudha prajāvān |
tryanīkaḥ patyate māhināvān sa retodhā vṛṣabhaḥ śaśvatīnām ||त्रि॒ऽपा॒ज॒स्यः । वृ॒ष॒भः । वि॒श्वऽरू॑पः । उ॒त । त्रि॒ऽउ॒धा । पु॒रु॒ध । प्र॒जाऽवा॑न् ।
त्रि॒ऽअ॒नी॒कः । प॒त्य॒ते॒ । माहि॑नऽवान् । सः । रे॒तः॒ऽधाः । वृ॒ष॒भः । शश्व॑तीनाम् ॥त्रिऽपाजस्यः । वृषभः । विश्वऽरूपः । उत । त्रिऽउधा । पुरुध । प्रजाऽवान् ।
त्रिऽअनीकः । पत्यते । माहिनऽवान् । सः । रेतःऽधाः । वृषभः । शश्वतीनाम् ॥tri-pājasyáḥ ǀ vṛṣabháḥ ǀ viśvá-rūpaḥ ǀ utá ǀ tri-udhā́ ǀ purudhá ǀ prajā́-vān ǀ
tri-anīkáḥ ǀ patyate ǀ mā́hina-vān ǀ sáḥ ǀ retaḥ-dhā́ḥ ǀ vṛṣabháḥ ǀ śáśvatīnām ǁtri-pājasyaḥ ǀ vṛṣabhaḥ ǀ viśva-rūpaḥ ǀ uta ǀ tri-udhā ǀ purudha ǀ prajā-vān ǀ
tri-anīkaḥ ǀ patyate ǀ māhina-vān ǀ saḥ ǀ retaḥ-dhāḥ ǀ vṛṣabhaḥ ǀ śaśvatīnām ǁ3.56.3 Aṣṭaka 3.4.1.3Anuvāka 3.5.47
-
Ṛk 4
अ॒भीक॑ आसां पद॒वीर॑बोध्यादि॒त्याना॑मह्वे॒ चारु॒ नाम॑ ।
आप॑श्चिदस्मा अरमंत दे॒वीः पृथ॒ग्व्रजं॑तीः॒ परि॑ षीमवृंजन् ॥अभीक आसाम् पदवीर् अबोध्य् आदित्यानाम् अह्वे चारु नाम |
आपश् चिद् अस्मा अरमन्त देवीः पृथग् व्रजन्तीः परि षीम् अवृञ्जन् ||abhī́ka āsām padavī́rabodhyādityā́nāmahve cā́ru nā́ma ǀ
ā́paścidasmā aramanta devī́ḥ pṛ́thagvrájantīḥ pári ṣīmavṛñjan ǁabhīka āsām padavīr abodhy ādityānām ahve cāru nāma |
āpaś cid asmā aramanta devīḥ pṛthag vrajantīḥ pari ṣīm avṛñjan ||अ॒भीके॑ । आ॒सा॒म् । प॒द॒ऽवीः । अ॒बो॒धि॒ । आ॒दि॒त्याना॑म् । अ॒ह्वे॒ । चारु॑ । नाम॑ ।
आपः॑ । चि॒त् । अ॒स्मै॒ । अ॒र॒म॒न्त॒ । दे॒वीः । पृथ॑क् । व्रज॑न्तीः । परि॑ । सी॒म् । अ॒वृ॒ञ्ज॒न् ॥अभीके । आसाम् । पदऽवीः । अबोधि । आदित्यानाम् । अह्वे । चारु । नाम ।
आपः । चित् । अस्मै । अरमन्त । देवीः । पृथक् । व्रजन्तीः । परि । सीम् । अवृञ्जन् ॥abhī́ke ǀ āsām ǀ pada-vī́ḥ ǀ abodhi ǀ ādityā́nām ǀ ahve ǀ cā́ru ǀ nā́ma ǀ
ā́paḥ ǀ cit ǀ asmai ǀ aramanta ǀ devī́ḥ ǀ pṛ́thak ǀ vrájantīḥ ǀ pári ǀ sīm ǀ avṛñjan ǁabhīke ǀ āsām ǀ pada-vīḥ ǀ abodhi ǀ ādityānām ǀ ahve ǀ cāru ǀ nāma ǀ
āpaḥ ǀ cit ǀ asmai ǀ aramanta ǀ devīḥ ǀ pṛthak ǀ vrajantīḥ ǀ pari ǀ sīm ǀ avṛñjan ǁ3.56.4 Aṣṭaka 3.4.1.4Anuvāka 3.5.48
-
Ṛk 5
त्री ष॒धस्था॑ सिंधव॒स्त्रिः क॑वी॒नामु॒त त्रि॑मा॒ता वि॒दथे॑षु स॒म्राट् ।
ऋ॒ताव॑री॒र्योष॑णास्ति॒स्रो अप्या॒स्त्रिरा दि॒वो वि॒दथे॒ पत्य॑मानाः ॥त्री षधस्था सिन्धवस् त्रिः कवीनाम् उत त्रिमाता विदथेषु सम्राट् |
ऋतावरीर् योषणास् तिस्रो अप्यास् त्रिर् आ दिवो विदथे पत्यमानाः ||trī́ ṣadhásthā sindhavastríḥ kavīnā́mutá trimātā́ vidátheṣu samrā́ṭ ǀ
ṛtā́varīryóṣaṇāstisró ápyāstrírā́ divó vidáthe pátyamānāḥ ǁtrī ṣadhasthā sindhavas triḥ kavīnām uta trimātā vidatheṣu samrāṭ |
ṛtāvarīr yoṣaṇās tisro apyās trir ā divo vidathe patyamānāḥ ||त्री । स॒धऽस्था॑ । सि॒न्ध॒वः॒ । त्रिः । क॒वी॒नाम् । उ॒त । त्रि॒ऽमा॒ता । वि॒दथे॑षु । स॒म्ऽराट् ।
ऋ॒तऽव॑रीः । योष॑णाः । ति॒स्रः । अप्याः॑ । त्रिः । आ । दि॒वः । वि॒दथे॑ । पत्य॑मानाः ॥त्री । सधऽस्था । सिन्धवः । त्रिः । कवीनाम् । उत । त्रिऽमाता । विदथेषु । सम्ऽराट् ।
ऋतऽवरीः । योषणाः । तिस्रः । अप्याः । त्रिः । आ । दिवः । विदथे । पत्यमानाः ॥trī́ ǀ sadhá-sthā ǀ sindhavaḥ ǀ tríḥ ǀ kavīnā́m ǀ utá ǀ tri-mātā́ ǀ vidátheṣu ǀ sam-rā́ṭ ǀ
ṛtá-varīḥ ǀ yóṣaṇāḥ ǀ tisráḥ ǀ ápyāḥ ǀ tríḥ ǀ ā́ ǀ diváḥ ǀ vidáthe ǀ pátyamānāḥ ǁtrī ǀ sadha-sthā ǀ sindhavaḥ ǀ triḥ ǀ kavīnām ǀ uta ǀ tri-mātā ǀ vidatheṣu ǀ sam-rāṭ ǀ
ṛta-varīḥ ǀ yoṣaṇāḥ ǀ tisraḥ ǀ apyāḥ ǀ triḥ ǀ ā ǀ divaḥ ǀ vidathe ǀ patyamānāḥ ǁ3.56.5 Aṣṭaka 3.4.1.5Anuvāka 3.5.49
-
Ṛk 6
त्रिरा दि॒वः स॑वित॒र्वार्या॑णि दि॒वेदि॑व॒ आ सु॑व॒ त्रिर्नो॒ अह्नः॑ ।
त्रि॒धातु॑ रा॒य आ सु॑वा॒ वसू॑नि॒ भग॑ त्रातर्धिषणे सा॒तये॑ धाः ॥त्रिर् आ दिवः सवितर् वार्याणि दिवे-दिव आ सुव त्रिर् नो अह्नः |
त्रिधातु राय आ सुवा वसूनि भग त्रातर् धिषणे सातये धाः ||trírā́ diváḥ savitarvā́ryāṇi divédiva ā́ suva trírno áhnaḥ ǀ
tridhā́tu rāyá ā́ suvā vásūni bhága trātardhiṣaṇe sātáye dhāḥ ǁtrir ā divaḥ savitar vāryāṇi dive-diva ā suva trir no ahnaḥ |
tridhātu rāya ā suvā vasūni bhaga trātar dhiṣaṇe sātaye dhāḥ ||त्रिः । आ । दि॒वः । स॒वि॒तः॒ । वार्या॑णि । दि॒वेऽदि॑वे । आ । सु॒व॒ । त्रिः । नः॒ । अह्नः॑ ।
त्रि॒ऽधातु॑ । रा॒यः । आ । सु॒व॒ । वसू॑नि । भग॑ । त्रा॒तः॒ । धि॒ष॒णे॒ । सा॒तये॑ । धाः॒ ॥त्रिः । आ । दिवः । सवितः । वार्याणि । दिवेऽदिवे । आ । सुव । त्रिः । नः । अह्नः ।
त्रिऽधातु । रायः । आ । सुव । वसूनि । भग । त्रातः । धिषणे । सातये । धाः ॥tríḥ ǀ ā́ ǀ diváḥ ǀ savitaḥ ǀ vā́ryāṇi ǀ divé-dive ǀ ā́ ǀ suva ǀ tríḥ ǀ naḥ ǀ áhnaḥ ǀ
tri-dhā́tu ǀ rāyáḥ ǀ ā́ ǀ suva ǀ vásūni ǀ bhága ǀ trātaḥ ǀ dhiṣaṇe ǀ sātáye ǀ dhāḥ ǁtriḥ ǀ ā ǀ divaḥ ǀ savitaḥ ǀ vāryāṇi ǀ dive-dive ǀ ā ǀ suva ǀ triḥ ǀ naḥ ǀ ahnaḥ ǀ
tri-dhātu ǀ rāyaḥ ǀ ā ǀ suva ǀ vasūni ǀ bhaga ǀ trātaḥ ǀ dhiṣaṇe ǀ sātaye ǀ dhāḥ ǁ3.56.6 Aṣṭaka 3.4.1.6Anuvāka 3.5.50
-
Ṛk 7
त्रिरा दि॒वः स॑वि॒ता सो॑षवीति॒ राजा॑ना मि॒त्रावरु॑णा सुपा॒णी ।
आप॑श्चिदस्य॒ रोद॑सी चिदु॒र्वी रत्नं॑ भिक्षंत सवि॒तुः स॒वाय॑ ॥त्रिर् आ दिवः सविता सोषवीति राजाना मित्रावरुणा सुपाणी |
आपश् चिद् अस्य रोदसी चिद् उर्वी रत्नम् भिक्षन्त सवितुः सवाय ||trírā́ diváḥ savitā́ soṣavīti rā́jānā mitrā́váruṇā supāṇī́ ǀ
ā́paścidasya ródasī cidurvī́ rátnam bhikṣanta savitúḥ savā́ya ǁtrir ā divaḥ savitā soṣavīti rājānā mitrāvaruṇā supāṇī |
āpaś cid asya rodasī cid urvī ratnam bhikṣanta savituḥ savāya ||त्रिः । आ । दि॒वः । स॒वि॒ता । सो॒स॒वी॒ति॒ । राजा॑ना । मि॒त्रावरु॑णा । सु॒पा॒णी इति॑ सु॒ऽपा॒णी ।
आपः॑ । चि॒त् । अ॒स्य॒ । रोद॑सी॒ इति॑ । चि॒त् । उ॒र्वी इति॑ । रत्न॑म् । भि॒क्ष॒न्त॒ । स॒वि॒तुः । स॒वाय॑ ॥त्रिः । आ । दिवः । सविता । सोसवीति । राजाना । मित्रावरुणा । सुपाणी इति सुऽपाणी ।
आपः । चित् । अस्य । रोदसी इति । चित् । उर्वी इति । रत्नम् । भिक्षन्त । सवितुः । सवाय ॥tríḥ ǀ ā́ ǀ diváḥ ǀ savitā́ ǀ sosavīti ǀ rā́jānā ǀ mitrā́váruṇā ǀ supāṇī́ íti su-pāṇī́ ǀ
ā́paḥ ǀ cit ǀ asya ǀ ródasī íti ǀ cit ǀ urvī́ íti ǀ rátnam ǀ bhikṣanta ǀ savitúḥ ǀ savā́ya ǁtriḥ ǀ ā ǀ divaḥ ǀ savitā ǀ sosavīti ǀ rājānā ǀ mitrāvaruṇā ǀ supāṇī iti su-pāṇī ǀ
āpaḥ ǀ cit ǀ asya ǀ rodasī iti ǀ cit ǀ urvī iti ǀ ratnam ǀ bhikṣanta ǀ savituḥ ǀ savāya ǁ3.56.7 Aṣṭaka 3.4.1.7Anuvāka 3.5.51
-
Ṛk 8
त्रिरु॑त्त॒मा दू॒णशा॑ रोच॒नानि॒ त्रयो॑ राजं॒त्यसु॑रस्य वी॒राः ।
ऋ॒तावा॑न इषि॒रा दू॒ळभा॑स॒स्त्रिरा दि॒वो वि॒दथे॑ संतु दे॒वाः ॥त्रिर् उत्तमा दूणशा रोचनानि त्रयो राजन्त्य् असुरस्य वीराः |
ऋतावान इषिरा दूऌअभासस् त्रिर् आ दिवो विदथे सन्तु देवाः ||tríruttamā́ dūṇáśā rocanā́ni tráyo rājantyásurasya vīrā́ḥ ǀ
ṛtā́vāna iṣirā́ dūḷábhāsastrírā́ divó vidáthe santu devā́ḥ ǁtrir uttamā dūṇaśā rocanāni trayo rājanty asurasya vīrāḥ |
ṛtāvāna iṣirā dūḷabhāsas trir ā divo vidathe santu devāḥ ||त्रिः । उ॒त्ऽत॒मा । दुः॒ऽनशा॑ । रो॒च॒नानि॑ । त्रयः॑ । रा॒ज॒न्ति॒ । असु॑रस्य । वी॒राः ।
ऋ॒तऽवा॑नः । इ॒षि॒राः । दुः॒ऽदभा॑सः । त्रिः । आ । दि॒वः । वि॒दथे॑ । स॒न्तु॒ । दे॒वाः ॥त्रिः । उत्ऽतमा । दुःऽनशा । रोचनानि । त्रयः । राजन्ति । असुरस्य । वीराः ।
ऋतऽवानः । इषिराः । दुःऽदभासः । त्रिः । आ । दिवः । विदथे । सन्तु । देवाः ॥tríḥ ǀ ut-tamā́ ǀ duḥ-náśā ǀ rocanā́ni ǀ tráyaḥ ǀ rājanti ǀ ásurasya ǀ vīrā́ḥ ǀ
ṛtá-vānaḥ ǀ iṣirā́ḥ ǀ duḥ-dábhāsaḥ ǀ tríḥ ǀ ā́ ǀ diváḥ ǀ vidáthe ǀ santu ǀ devā́ḥ ǁtriḥ ǀ ut-tamā ǀ duḥ-naśā ǀ rocanāni ǀ trayaḥ ǀ rājanti ǀ asurasya ǀ vīrāḥ ǀ
ṛta-vānaḥ ǀ iṣirāḥ ǀ duḥ-dabhāsaḥ ǀ triḥ ǀ ā ǀ divaḥ ǀ vidathe ǀ santu ǀ devāḥ ǁ3.56.8 Aṣṭaka 3.4.1.8Anuvāka 3.5.52
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.