Ṛgveda · Maṇḍala 3 · Sūkta 56

Ṛk 3.56.8

Viśvedevās · Prajāpati Vācya Or Prajāpati Vaiśvāmitra

The whole sūkta Link

Saṃhitā

त्रिरु॑त्त॒मा दू॒णशा॑ रोच॒नानि॒ त्रयो॑ राजं॒त्यसु॑रस्य वी॒राः ।
ऋ॒तावा॑न इषि॒रा दू॒ळभा॑स॒स्त्रिरा दि॒वो वि॒दथे॑ संतु दे॒वाः ॥

त्रिर् उत्तमा दूणशा रोचनानि त्रयो राजन्त्य् असुरस्य वीराः |
ऋतावान इषिरा दूऌअभासस् त्रिर् आ दिवो विदथे सन्तु देवाः ||

tríruttamā́ dūṇáśā rocanā́ni tráyo rājantyásurasya vīrā́ḥ ǀ
ṛtā́vāna iṣirā́ dūḷábhāsastrírā́ divó vidáthe santu devā́ḥ ǁ

trir uttamā dūṇaśā rocanāni trayo rājanty asurasya vīrāḥ |
ṛtāvāna iṣirā dūḷabhāsas trir ā divo vidathe santu devāḥ ||

Padapāṭha

त्रिः । उ॒त्ऽत॒मा । दुः॒ऽनशा॑ । रो॒च॒नानि॑ । त्रयः॑ । रा॒ज॒न्ति॒ । असु॑रस्य । वी॒राः ।
ऋ॒तऽवा॑नः । इ॒षि॒राः । दुः॒ऽदभा॑सः । त्रिः । आ । दि॒वः । वि॒दथे॑ । स॒न्तु॒ । दे॒वाः ॥

त्रिः । उत्ऽतमा । दुःऽनशा । रोचनानि । त्रयः । राजन्ति । असुरस्य । वीराः ।
ऋतऽवानः । इषिराः । दुःऽदभासः । त्रिः । आ । दिवः । विदथे । सन्तु । देवाः ॥

tríḥ ǀ ut-tamā́ ǀ duḥ-náśā ǀ rocanā́ni ǀ tráyaḥ ǀ rājanti ǀ ásurasya ǀ vīrā́ḥ ǀ
ṛtá-vānaḥ ǀ iṣirā́ḥ ǀ duḥ-dábhāsaḥ ǀ tríḥ ǀ ā́ ǀ diváḥ ǀ vidáthe ǀ santu ǀ devā́ḥ ǁ

triḥ ǀ ut-tamā ǀ duḥ-naśā ǀ rocanāni ǀ trayaḥ ǀ rājanti ǀ asurasya ǀ vīrāḥ ǀ
ṛta-vānaḥ ǀ iṣirāḥ ǀ duḥ-dabhāsaḥ ǀ triḥ ǀ ā ǀ divaḥ ǀ vidathe ǀ santu ǀ devāḥ ǁ

References

Maṇḍala · Sūkta · Ṛk
03.056.08
Aṣṭaka · Adhyāya · Varga · Ṛk
3.4.01.08
Maṇḍala · Anuvāka · Ṛk
03.05.052
Devatā देवता
Viśvedevās
Ṛṣi ऋषि
Prajāpati Vācya Or Prajāpati Vaiśvāmitra
Chandas छन्दस्
Triṣṭubh
Svara स्वरः
धैवतः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 3.56.8

Interpretations

Sāyaṇa

दूणशा दुर्नशा केनापि विनाशयितुमशक्यानि रोचनानि दीप्यमानानि त्रिस्त्रीण्युत्तमानि स्थानानि सन्ति । एतेषु त्रिषु स्थानेष्वसुरस्य । अस्यति क्षिपति सर्वमित्यसुरः कालात्मा संवत्सरः । तस्य वीराः पुत्रास्त्रयोऽग्निवायुसूर्यरूपा राजन्ति शोभन्ते । तानेव विशिनष्टि । ऋतावान ऋतं सत्यभूतमग्निहोत्रादिकं कर्म तद्वन्तः । इषिरा यज्ञार्थं शीघ्रगतिमन्तो दूळभासो दुर्दभासः केनापि स्वतेजसा तिरस्कर्तुमशक्या एते सर्वे देवा विदथेऽस्मदीये यज्ञे दिवोऽह्नः सम्बन्धिषु त्रिस्त्रिषु सवनेष्वा सन्तु । समन्ताद्यजनीयतया भवन्तु । उत्तमा । उत्तमशश्वत्तमौ सर्वत्रेत्युञ्छादिषु पाठादन्तोदात्तत्वं । दूणशा । नशेः कृच्छ्रार्थे खल् । दुरो दाशनाशदभेषूत्वं वक्तव्यमिति रेफस्योत्वं । उत्तरपदादेः ष्टुत्वं । लित्स्वरः । दूळभासः । पूर्ववदुत्वष्टुत्वे ॥ ८ ॥