Ṛk 3.56.7
Saṃhitā
त्रिरा दि॒वः स॑वि॒ता सो॑षवीति॒ राजा॑ना मि॒त्रावरु॑णा सुपा॒णी ।
आप॑श्चिदस्य॒ रोद॑सी चिदु॒र्वी रत्नं॑ भिक्षंत सवि॒तुः स॒वाय॑ ॥
त्रिर् आ दिवः सविता सोषवीति राजाना मित्रावरुणा सुपाणी |
आपश् चिद् अस्य रोदसी चिद् उर्वी रत्नम् भिक्षन्त सवितुः सवाय ||
trírā́ diváḥ savitā́ soṣavīti rā́jānā mitrā́váruṇā supāṇī́ ǀ
ā́paścidasya ródasī cidurvī́ rátnam bhikṣanta savitúḥ savā́ya ǁ
trir ā divaḥ savitā soṣavīti rājānā mitrāvaruṇā supāṇī |
āpaś cid asya rodasī cid urvī ratnam bhikṣanta savituḥ savāya ||
Padapāṭha
त्रिः । आ । दि॒वः । स॒वि॒ता । सो॒स॒वी॒ति॒ । राजा॑ना । मि॒त्रावरु॑णा । सु॒पा॒णी इति॑ सु॒ऽपा॒णी ।
आपः॑ । चि॒त् । अ॒स्य॒ । रोद॑सी॒ इति॑ । चि॒त् । उ॒र्वी इति॑ । रत्न॑म् । भि॒क्ष॒न्त॒ । स॒वि॒तुः । स॒वाय॑ ॥
त्रिः । आ । दिवः । सविता । सोसवीति । राजाना । मित्रावरुणा । सुपाणी इति सुऽपाणी ।
आपः । चित् । अस्य । रोदसी इति । चित् । उर्वी इति । रत्नम् । भिक्षन्त । सवितुः । सवाय ॥
tríḥ ǀ ā́ ǀ diváḥ ǀ savitā́ ǀ sosavīti ǀ rā́jānā ǀ mitrā́váruṇā ǀ supāṇī́ íti su-pāṇī́ ǀ
ā́paḥ ǀ cit ǀ asya ǀ ródasī íti ǀ cit ǀ urvī́ íti ǀ rátnam ǀ bhikṣanta ǀ savitúḥ ǀ savā́ya ǁ
triḥ ǀ ā ǀ divaḥ ǀ savitā ǀ sosavīti ǀ rājānā ǀ mitrāvaruṇā ǀ supāṇī iti su-pāṇī ǀ
āpaḥ ǀ cit ǀ asya ǀ rodasī iti ǀ cit ǀ urvī iti ǀ ratnam ǀ bhikṣanta ǀ savituḥ ǀ savāya ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 03.056.07
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.4.01.07
- Maṇḍala · Anuvāka · Ṛk
- 03.05.051
- Devatā देवता
- Viśvedevās
- Ṛṣi ऋषि
- Prajāpati Vācya Or Prajāpati Vaiśvāmitra
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.