Sūkta 14
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Ṛṣabha Vaiśvāmitra
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles nicṛttriṣṭup (1, 7); triṣṭup (2, 5); virāṭtrisṭup (3, 4); paṅktiḥ (6)
2nd set of styles triṣṭubh
-
Ṛk 1
आ होता॑ मं॒द्रो वि॒दथा॑न्यस्थात्स॒त्यो यज्वा॑ क॒वित॑मः॒ स वे॒धाः ।
वि॒द्युद्र॑थः॒ सह॑सस्पु॒त्रो अ॒ग्निः शो॒चिष्के॑शः पृथि॒व्यां पाजो॑ अश्रेत् ॥आ होता मन्द्रो विदथान्य् अस्थात् सत्यो यज्वा कवितमः स वेधाः |
विद्युद्रथः सहसस् पुत्रो अग्निः शोचिष्केशः पृथिव्याम् पाजो अश्रेत् ||ā́ hótā mandró vidáthānyasthātsatyó yájvā kavítamaḥ sá vedhā́ḥ ǀ
vidyúdrathaḥ sáhasasputró agníḥ śocíṣkeśaḥ pṛthivyā́m pā́jo aśret ǁā hotā mandro vidathāny asthāt satyo yajvā kavitamaḥ sa vedhāḥ |
vidyudrathaḥ sahasas putro agniḥ śociṣkeśaḥ pṛthivyām pājo aśret ||आ । होता॑ । म॒न्द्रः । वि॒दथा॑नि । अ॒स्था॒त् । स॒त्यः । यज्वा॑ । क॒विऽत॑मः । सः । वे॒धाः ।
वि॒द्युत्ऽर॑थः । सह॑सः । पु॒त्रः । अ॒ग्निः । शो॒चिःऽके॑शः । पृ॒थि॒व्याम् । पाजः॑ । अ॒श्रे॒त् ॥आ । होता । मन्द्रः । विदथानि । अस्थात् । सत्यः । यज्वा । कविऽतमः । सः । वेधाः ।
विद्युत्ऽरथः । सहसः । पुत्रः । अग्निः । शोचिःऽकेशः । पृथिव्याम् । पाजः । अश्रेत् ॥ā́ ǀ hótā ǀ mandráḥ ǀ vidáthāni ǀ asthāt ǀ satyáḥ ǀ yájvā ǀ kaví-tamaḥ ǀ sáḥ ǀ vedhā́ḥ ǀ
vidyút-rathaḥ ǀ sáhasaḥ ǀ putráḥ ǀ agníḥ ǀ śocíḥ-keśaḥ ǀ pṛthivyā́m ǀ pā́jaḥ ǀ aśret ǁā ǀ hotā ǀ mandraḥ ǀ vidathāni ǀ asthāt ǀ satyaḥ ǀ yajvā ǀ kavi-tamaḥ ǀ saḥ ǀ vedhāḥ ǀ
vidyut-rathaḥ ǀ sahasaḥ ǀ putraḥ ǀ agniḥ ǀ śociḥ-keśaḥ ǀ pṛthivyām ǀ pājaḥ ǀ aśret ǁ3.14.1 Aṣṭaka 3.1.14.1Anuvāka 3.2.8
-
Ṛk 2
अया॑मि ते॒ नम॑उक्तिं जुषस्व॒ ऋता॑व॒स्तुभ्यं॒ चेत॑ते सहस्वः ।
वि॒द्वाँ आ व॑क्षि वि॒दुषो॒ नि ष॑त्सि॒ मध्य॒ आ ब॒र्हिरू॒तये॑ यजत्र ॥अयामि ते नमौक्तिं जुषस्व ऋतावस् तुभ्यं चेतते सहस्वः |
विद्वां आ वक्षि विदुषो नि षत्सि मध्य आ बर्हिर् ऊतये यजत्र ||áyāmi te náma-uktim juṣasva ṛ́tāvastúbhyam cétate sahasvaḥ ǀ
vidvā́m̐ ā́ vakṣi vidúṣo ní ṣatsi mádhya ā́ barhírūtáye yajatra ǁayāmi te namauktiṃ juṣasva ṛtāvas tubhyaṃ cetate sahasvaḥ |
vidvāṃ ā vakṣi viduṣo ni ṣatsi madhya ā barhir ūtaye yajatra ||अया॑मि । ते॒ । नमः॑ऽउक्तिम् । जु॒ष॒स्व॒ । ऋत॑ऽवः । तुभ्य॑म् । चेत॑ते । स॒ह॒स्वः॒ ।
वि॒द्वान् । आ । व॒क्षि॒ । वि॒दुषः॑ । नि । स॒त्सि॒ । मध्ये॑ । आ । ब॒र्हिः । ऊ॒तये॑ । य॒ज॒त्र॒ ॥अयामि । ते । नमःऽउक्तिम् । जुषस्व । ऋतऽवः । तुभ्यम् । चेतते । सहस्वः ।
विद्वान् । आ । वक्षि । विदुषः । नि । सत्सि । मध्ये । आ । बर्हिः । ऊतये । यजत्र ॥áyāmi ǀ te ǀ námaḥ-uktim ǀ juṣasva ǀ ṛ́ta-vaḥ ǀ túbhyam ǀ cétate ǀ sahasvaḥ ǀ
vidvā́n ǀ ā́ ǀ vakṣi ǀ vidúṣaḥ ǀ ní ǀ satsi ǀ mádhye ǀ ā́ ǀ barhíḥ ǀ ūtáye ǀ yajatra ǁayāmi ǀ te ǀ namaḥ-uktim ǀ juṣasva ǀ ṛta-vaḥ ǀ tubhyam ǀ cetate ǀ sahasvaḥ ǀ
vidvān ǀ ā ǀ vakṣi ǀ viduṣaḥ ǀ ni ǀ satsi ǀ madhye ǀ ā ǀ barhiḥ ǀ ūtaye ǀ yajatra ǁ3.14.2 Aṣṭaka 3.1.14.2Anuvāka 3.2.9
-
Ṛk 3
द्रव॑तां त उ॒षसा॑ वा॒जयं॑ती॒ अग्ने॒ वात॑स्य प॒थ्या॑भि॒रच्छ॑ ।
यत्सी॑मं॒जंति॑ पू॒र्व्यं ह॒विर्भि॒रा वं॒धुरे॑व तस्थतुर्दुरो॒णे ॥द्रवतां त उषसा वाजयन्ती अग्ने वातस्य पथ्याभिर् अच्छ |
यत् सीम् अञ्जन्ति पूर्व्यं हविर्भिर् आ वन्धुरेव तस्थतुर् दुरोणे ||drávatām ta uṣásā vājáyantī ágne vā́tasya pathyā́bhiráccha ǀ
yátsīmañjánti pūrvyám havírbhirā́ vandhúreva tasthaturduroṇé ǁdravatāṃ ta uṣasā vājayantī agne vātasya pathyābhir accha |
yat sīm añjanti pūrvyaṃ havirbhir ā vandhureva tasthatur duroṇe ||द्रव॑ताम् । ते॒ । उ॒षसा॑ । वा॒जय॑न्ती॒ इति॑ । अ॒ग्ने॒ । वात॑स्य । प॒थ्या॑भिः । अच्छ॑ ।
यत् । सी॒म् । अ॒ञ्जन्ति॑ । पू॒र्व्यम् । ह॒विःऽभिः॑ । आ । व॒न्धुरा॑ऽइव । त॒स्थ॒तुः॒ । दु॒रो॒णे ॥द्रवताम् । ते । उषसा । वाजयन्ती इति । अग्ने । वातस्य । पथ्याभिः । अच्छ ।
यत् । सीम् । अञ्जन्ति । पूर्व्यम् । हविःऽभिः । आ । वन्धुराऽइव । तस्थतुः । दुरोणे ॥drávatām ǀ te ǀ uṣásā ǀ vājáyantī íti ǀ agne ǀ vā́tasya ǀ pathyā́bhiḥ ǀ áccha ǀ
yát ǀ sīm ǀ añjánti ǀ pūrvyám ǀ havíḥ-bhiḥ ǀ ā́ ǀ vandhúrā-iva ǀ tasthatuḥ ǀ duroṇé ǁdravatām ǀ te ǀ uṣasā ǀ vājayantī iti ǀ agne ǀ vātasya ǀ pathyābhiḥ ǀ accha ǀ
yat ǀ sīm ǀ añjanti ǀ pūrvyam ǀ haviḥ-bhiḥ ǀ ā ǀ vandhurā-iva ǀ tasthatuḥ ǀ duroṇe ǁ3.14.3 Aṣṭaka 3.1.14.3Anuvāka 3.2.10
-
Ṛk 4
मि॒त्रश्च॒ तुभ्यं॒ वरु॑णः सह॒स्वोऽग्ने॒ विश्वे॑ म॒रुतः॑ सु॒म्नम॑र्चन् ।
यच्छो॒चिषा॑ सहसस्पुत्र॒ तिष्ठा॑ अ॒भि क्षि॒तीः प्र॒थयं॒त्सूर्यो॒ नॄन् ॥मित्रश् च तुभ्यं वरुणः सहस्वो ऽग्ने विश्वे मरुतः सुम्नम् अर्चन् |
यच् छोचिषा सहसस् पुत्र तिष्ठा अभि क्षितीः प्रथयन् सूर्यो नॄन् ||mitráśca túbhyam váruṇaḥ sahasvó’gne víśve marútaḥ sumnámarcan ǀ
yácchocíṣā sahasasputra tíṣṭhā abhí kṣitī́ḥ pratháyantsū́ryo nṝ́n ǁmitraś ca tubhyaṃ varuṇaḥ sahasvo 'gne viśve marutaḥ sumnam arcan |
yac chociṣā sahasas putra tiṣṭhā abhi kṣitīḥ prathayan sūryo nṝn ||मि॒त्रः । च॒ । तुभ्य॑म् । वरु॑णः । स॒ह॒स्वः॒ । अग्ने॑ । विश्वे॑ । म॒रुतः॑ । सु॒म्नम् । अ॒र्च॒न् ।
यत् । शो॒चिषा॑ । स॒ह॒सः॒ । पु॒त्र॒ । तिष्ठाः॑ । अ॒भि । क्षि॒तीः । प्र॒थय॑न् । सूर्यः॑ । नॄन् ॥मित्रः । च । तुभ्यम् । वरुणः । सहस्वः । अग्ने । विश्वे । मरुतः । सुम्नम् । अर्चन् ।
यत् । शोचिषा । सहसः । पुत्र । तिष्ठाः । अभि । क्षितीः । प्रथयन् । सूर्यः । नॄन् ॥mitráḥ ǀ ca ǀ túbhyam ǀ váruṇaḥ ǀ sahasvaḥ ǀ ágne ǀ víśve ǀ marútaḥ ǀ sumnám ǀ arcan ǀ
yát ǀ śocíṣā ǀ sahasaḥ ǀ putra ǀ tíṣṭhāḥ ǀ abhí ǀ kṣitī́ḥ ǀ pratháyan ǀ sū́ryaḥ ǀ nṝ́n ǁmitraḥ ǀ ca ǀ tubhyam ǀ varuṇaḥ ǀ sahasvaḥ ǀ agne ǀ viśve ǀ marutaḥ ǀ sumnam ǀ arcan ǀ
yat ǀ śociṣā ǀ sahasaḥ ǀ putra ǀ tiṣṭhāḥ ǀ abhi ǀ kṣitīḥ ǀ prathayan ǀ sūryaḥ ǀ nṝn ǁ3.14.4 Aṣṭaka 3.1.14.4Anuvāka 3.2.11
-
Ṛk 5
व॒यं ते॑ अ॒द्य र॑रि॒मा हि काम॑मुत्ता॒नह॑स्ता॒ नम॑सोप॒सद्य॑ ।
यजि॑ष्ठेन॒ मन॑सा यक्षि दे॒वानस्रे॑धता॒ मन्म॑ना॒ विप्रो॑ अग्ने ॥वयं ते अद्य ररिमा हि कामम् उत्तानहस्ता नमसोपसद्य |
यजिष्ठेन मनसा यक्षि देवान् अस्रेधता मन्मना विप्रो अग्ने ||vayám te adyá rarimā́ hí kā́mamuttānáhastā námasopasádya ǀ
yájiṣṭhena mánasā yakṣi devā́násredhatā mánmanā vípro agne ǁvayaṃ te adya rarimā hi kāmam uttānahastā namasopasadya |
yajiṣṭhena manasā yakṣi devān asredhatā manmanā vipro agne ||व॒यम् । ते॒ । अ॒द्य । र॒रि॒म । हि । काम॑म् । उ॒त्ता॒नऽह॑स्ताः । नम॑सा । उ॒प॒ऽसद्य॑ ।
यजि॑ष्ठेन । मन॑सा । य॒क्षि॒ । दे॒वान् । अस्रे॑धता । मन्म॑ना । विप्रः॑ । अ॒ग्ने॒ ॥वयम् । ते । अद्य । ररिम । हि । कामम् । उत्तानऽहस्ताः । नमसा । उपऽसद्य ।
यजिष्ठेन । मनसा । यक्षि । देवान् । अस्रेधता । मन्मना । विप्रः । अग्ने ॥vayám ǀ te ǀ adyá ǀ rarimá ǀ hí ǀ kā́mam ǀ uttāná-hastāḥ ǀ námasā ǀ upa-sádya ǀ
yájiṣṭhena ǀ mánasā ǀ yakṣi ǀ devā́n ǀ ásredhatā ǀ mánmanā ǀ vípraḥ ǀ agne ǁvayam ǀ te ǀ adya ǀ rarima ǀ hi ǀ kāmam ǀ uttāna-hastāḥ ǀ namasā ǀ upa-sadya ǀ
yajiṣṭhena ǀ manasā ǀ yakṣi ǀ devān ǀ asredhatā ǀ manmanā ǀ vipraḥ ǀ agne ǁ3.14.5 Aṣṭaka 3.1.14.5Anuvāka 3.2.12
-
Ṛk 6
त्वद्धि पु॑त्र सहसो॒ वि पू॒र्वीर्दे॒वस्य॒ यंत्यू॒तयो॒ वि वाजाः॑ ।
त्वं दे॑हि सह॒स्रिणं॑ र॒यिं नो॑ऽद्रो॒घेण॒ वच॑सा स॒त्यम॑ग्ने ॥त्वद् धि पुत्र सहसो वि पूर्वीर् देवस्य यन्त्य् ऊतयो वि वाजाः |
त्वं देहि सहस्रिणं रयिं नो ऽद्रोघेण वचसा सत्यम् अग्ने ||tváddhí putra sahaso ví pūrvī́rdevásya yántyūtáyo ví vā́jāḥ ǀ
tvám dehi sahasríṇam rayím no’droghéṇa vácasā satyámagne ǁtvad dhi putra sahaso vi pūrvīr devasya yanty ūtayo vi vājāḥ |
tvaṃ dehi sahasriṇaṃ rayiṃ no 'drogheṇa vacasā satyam agne ||त्वत् । हि । पु॒त्र॒ । स॒ह॒सः॒ । वि । पू॒र्वीः । दे॒वस्य॑ । यन्ति॑ । ऊ॒तयः॑ । वि । वाजाः॑ ।
त्वम् । दे॒हि॒ । स॒ह॒स्रिण॑म् । र॒यिम् । नः॒ । अ॒द्रो॒घेण॑ । वच॑सा । स॒त्यम् । अ॒ग्ने॒ ॥त्वत् । हि । पुत्र । सहसः । वि । पूर्वीः । देवस्य । यन्ति । ऊतयः । वि । वाजाः ।
त्वम् । देहि । सहस्रिणम् । रयिम् । नः । अद्रोघेण । वचसा । सत्यम् । अग्ने ॥tvát ǀ hí ǀ putra ǀ sahasaḥ ǀ ví ǀ pūrvī́ḥ ǀ devásya ǀ yánti ǀ ūtáyaḥ ǀ ví ǀ vā́jāḥ ǀ
tvám ǀ dehi ǀ sahasríṇam ǀ rayím ǀ naḥ ǀ adroghéṇa ǀ vácasā ǀ satyám ǀ agne ǁtvat ǀ hi ǀ putra ǀ sahasaḥ ǀ vi ǀ pūrvīḥ ǀ devasya ǀ yanti ǀ ūtayaḥ ǀ vi ǀ vājāḥ ǀ
tvam ǀ dehi ǀ sahasriṇam ǀ rayim ǀ naḥ ǀ adrogheṇa ǀ vacasā ǀ satyam ǀ agne ǁ3.14.6 Aṣṭaka 3.1.14.6Anuvāka 3.2.13
-
Ṛk 7
तुभ्यं॑ दक्ष कविक्रतो॒ यानी॒मा देव॒ मर्ता॑सो अध्व॒रे अक॑र्म ।
त्वं विश्व॑स्य सु॒रथ॑स्य बोधि॒ सर्वं॒ तद॑ग्ने अमृत स्वदे॒ह ॥तुभ्यं दक्ष कविक्रतो यानीमा देव मर्तासो अध्वरे अकर्म |
त्वं विश्वस्य सुरथस्य बोधि सर्वं तद् अग्ने अमृत स्वदेह ||túbhyam dakṣa kavikrato yā́nīmā́ déva mártāso adhvaré ákarma ǀ
tvám víśvasya suráthasya bodhi sárvam tádagne amṛta svadehá ǁtubhyaṃ dakṣa kavikrato yānīmā deva martāso adhvare akarma |
tvaṃ viśvasya surathasya bodhi sarvaṃ tad agne amṛta svadeha ||तुभ्य॑म् । द॒क्ष॒ । क॒वि॒क्र॒तो॒ इति॑ कविऽक्रतो । यानि॑ । इ॒मा । देव॑ । मर्ता॑सः । अ॒ध्व॒रे । अक॑र्म ।
त्वम् । विश्व॑स्य । सु॒ऽरथ॑स्य । बो॒धि॒ । सर्व॑म् । तत् । अ॒ग्ने॒ । अ॒मृ॒त॒ । स्व॒द॒ । इ॒ह ॥तुभ्यम् । दक्ष । कविक्रतो इति कविऽक्रतो । यानि । इमा । देव । मर्तासः । अध्वरे । अकर्म ।
त्वम् । विश्वस्य । सुऽरथस्य । बोधि । सर्वम् । तत् । अग्ने । अमृत । स्वद । इह ॥túbhyam ǀ dakṣa ǀ kavikrato íti kavi-krato ǀ yā́ni ǀ imā́ ǀ déva ǀ mártāsaḥ ǀ adhvaré ǀ ákarma ǀ
tvám ǀ víśvasya ǀ su-ráthasya ǀ bodhi ǀ sárvam ǀ tát ǀ agne ǀ amṛta ǀ svada ǀ ihá ǁtubhyam ǀ dakṣa ǀ kavikrato iti kavi-krato ǀ yāni ǀ imā ǀ deva ǀ martāsaḥ ǀ adhvare ǀ akarma ǀ
tvam ǀ viśvasya ǀ su-rathasya ǀ bodhi ǀ sarvam ǀ tat ǀ agne ǀ amṛta ǀ svada ǀ iha ǁ3.14.7 Aṣṭaka 3.1.14.7Anuvāka 3.2.14
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.