Ṛk 3.14.4
Saṃhitā
मि॒त्रश्च॒ तुभ्यं॒ वरु॑णः सह॒स्वोऽग्ने॒ विश्वे॑ म॒रुतः॑ सु॒म्नम॑र्चन् ।
यच्छो॒चिषा॑ सहसस्पुत्र॒ तिष्ठा॑ अ॒भि क्षि॒तीः प्र॒थयं॒त्सूर्यो॒ नॄन् ॥
मित्रश् च तुभ्यं वरुणः सहस्वो ऽग्ने विश्वे मरुतः सुम्नम् अर्चन् |
यच् छोचिषा सहसस् पुत्र तिष्ठा अभि क्षितीः प्रथयन् सूर्यो नॄन् ||
mitráśca túbhyam váruṇaḥ sahasvó’gne víśve marútaḥ sumnámarcan ǀ
yácchocíṣā sahasasputra tíṣṭhā abhí kṣitī́ḥ pratháyantsū́ryo nṝ́n ǁ
mitraś ca tubhyaṃ varuṇaḥ sahasvo 'gne viśve marutaḥ sumnam arcan |
yac chociṣā sahasas putra tiṣṭhā abhi kṣitīḥ prathayan sūryo nṝn ||
Padapāṭha
मि॒त्रः । च॒ । तुभ्य॑म् । वरु॑णः । स॒ह॒स्वः॒ । अग्ने॑ । विश्वे॑ । म॒रुतः॑ । सु॒म्नम् । अ॒र्च॒न् ।
यत् । शो॒चिषा॑ । स॒ह॒सः॒ । पु॒त्र॒ । तिष्ठाः॑ । अ॒भि । क्षि॒तीः । प्र॒थय॑न् । सूर्यः॑ । नॄन् ॥
मित्रः । च । तुभ्यम् । वरुणः । सहस्वः । अग्ने । विश्वे । मरुतः । सुम्नम् । अर्चन् ।
यत् । शोचिषा । सहसः । पुत्र । तिष्ठाः । अभि । क्षितीः । प्रथयन् । सूर्यः । नॄन् ॥
mitráḥ ǀ ca ǀ túbhyam ǀ váruṇaḥ ǀ sahasvaḥ ǀ ágne ǀ víśve ǀ marútaḥ ǀ sumnám ǀ arcan ǀ
yát ǀ śocíṣā ǀ sahasaḥ ǀ putra ǀ tíṣṭhāḥ ǀ abhí ǀ kṣitī́ḥ ǀ pratháyan ǀ sū́ryaḥ ǀ nṝ́n ǁ
mitraḥ ǀ ca ǀ tubhyam ǀ varuṇaḥ ǀ sahasvaḥ ǀ agne ǀ viśve ǀ marutaḥ ǀ sumnam ǀ arcan ǀ
yat ǀ śociṣā ǀ sahasaḥ ǀ putra ǀ tiṣṭhāḥ ǀ abhi ǀ kṣitīḥ ǀ prathayan ǀ sūryaḥ ǀ nṝn ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 03.014.04
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.1.14.04
- Maṇḍala · Anuvāka · Ṛk
- 03.02.011
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Ṛṣabha Vaiśvāmitra
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.