Ṛk 3.14.1
Saṃhitā
आ होता॑ मं॒द्रो वि॒दथा॑न्यस्थात्स॒त्यो यज्वा॑ क॒वित॑मः॒ स वे॒धाः ।
वि॒द्युद्र॑थः॒ सह॑सस्पु॒त्रो अ॒ग्निः शो॒चिष्के॑शः पृथि॒व्यां पाजो॑ अश्रेत् ॥
आ होता मन्द्रो विदथान्य् अस्थात् सत्यो यज्वा कवितमः स वेधाः |
विद्युद्रथः सहसस् पुत्रो अग्निः शोचिष्केशः पृथिव्याम् पाजो अश्रेत् ||
ā́ hótā mandró vidáthānyasthātsatyó yájvā kavítamaḥ sá vedhā́ḥ ǀ
vidyúdrathaḥ sáhasasputró agníḥ śocíṣkeśaḥ pṛthivyā́m pā́jo aśret ǁ
ā hotā mandro vidathāny asthāt satyo yajvā kavitamaḥ sa vedhāḥ |
vidyudrathaḥ sahasas putro agniḥ śociṣkeśaḥ pṛthivyām pājo aśret ||
Padapāṭha
आ । होता॑ । म॒न्द्रः । वि॒दथा॑नि । अ॒स्था॒त् । स॒त्यः । यज्वा॑ । क॒विऽत॑मः । सः । वे॒धाः ।
वि॒द्युत्ऽर॑थः । सह॑सः । पु॒त्रः । अ॒ग्निः । शो॒चिःऽके॑शः । पृ॒थि॒व्याम् । पाजः॑ । अ॒श्रे॒त् ॥
आ । होता । मन्द्रः । विदथानि । अस्थात् । सत्यः । यज्वा । कविऽतमः । सः । वेधाः ।
विद्युत्ऽरथः । सहसः । पुत्रः । अग्निः । शोचिःऽकेशः । पृथिव्याम् । पाजः । अश्रेत् ॥
ā́ ǀ hótā ǀ mandráḥ ǀ vidáthāni ǀ asthāt ǀ satyáḥ ǀ yájvā ǀ kaví-tamaḥ ǀ sáḥ ǀ vedhā́ḥ ǀ
vidyút-rathaḥ ǀ sáhasaḥ ǀ putráḥ ǀ agníḥ ǀ śocíḥ-keśaḥ ǀ pṛthivyā́m ǀ pā́jaḥ ǀ aśret ǁ
ā ǀ hotā ǀ mandraḥ ǀ vidathāni ǀ asthāt ǀ satyaḥ ǀ yajvā ǀ kavi-tamaḥ ǀ saḥ ǀ vedhāḥ ǀ
vidyut-rathaḥ ǀ sahasaḥ ǀ putraḥ ǀ agniḥ ǀ śociḥ-keśaḥ ǀ pṛthivyām ǀ pājaḥ ǀ aśret ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 03.014.01
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.1.14.01
- Maṇḍala · Anuvāka · Ṛk
- 03.02.008
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Ṛṣabha Vaiśvāmitra
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.