Ṛgveda · Maṇḍala 3

Sūkta 22

Agni · Gāthin Kauśika · 5 ṛks

Link
Devatā देवता
Agni
Ṛṣi ऋषि
Gāthin Kauśika
Chandas छन्दस्
Triṣṭubh, Anuṣṭubh
Metres by ṛk

1st set of styles bhurikpaṅkti (2, 3); triṣṭup (1); virāḍanuṣṭup (4); nicṛtpaṅkti (5)

2nd set of styles triṣṭubh (1-3, 5); anuṣṭubh (4)

  1. Ṛk 1

    अ॒यं सो अ॒ग्निर्यस्मि॒न्त्सोम॒मिंद्रः॑ सु॒तं द॒धे ज॒ठरे॑ वावशा॒नः ।
    स॒ह॒स्रिणं॒ वाज॒मत्यं॒ न सप्तिं॑ सस॒वान्त्सन्त्स्तू॑यसे जातवेदः ॥

    अयं सो अग्निर् यस्मिन् सोमम् इन्द्रः सुतं दधे जठरे वावशानः |
    सहस्रिणं वाजम् अत्यं न सप्तिं ससवान् सन् स्तूयसे जातवेदः ||

    ayám só agníryásmintsómamíndraḥ sutám dadhé jaṭháre vāvaśānáḥ ǀ
    sahasríṇam vā́jamátyam ná sáptim sasavā́ntsántstūyase jātavedaḥ ǁ

    ayaṃ so agnir yasmin somam indraḥ sutaṃ dadhe jaṭhare vāvaśānaḥ |
    sahasriṇaṃ vājam atyaṃ na saptiṃ sasavān san stūyase jātavedaḥ ||

    अ॒यम् । सः । अ॒ग्निः । यस्मि॑न् । सोम॑म् । इन्द्रः॑ । सु॒तम् । द॒धे । ज॒ठरे॑ । वा॒व॒शा॒नः ।
    स॒ह॒स्रिण॑म् । वाज॑म् । अत्य॑म् । न । सप्ति॑म् । स॒स॒ऽवान् । सन् । स्तू॒य॒से॒ । जा॒त॒ऽवे॒दः॒ ॥

    अयम् । सः । अग्निः । यस्मिन् । सोमम् । इन्द्रः । सुतम् । दधे । जठरे । वावशानः ।
    सहस्रिणम् । वाजम् । अत्यम् । न । सप्तिम् । ससऽवान् । सन् । स्तूयसे । जातऽवेदः ॥

    ayám ǀ sáḥ ǀ agníḥ ǀ yásmin ǀ sómam ǀ índraḥ ǀ sutám ǀ dadhé ǀ jaṭháre ǀ vāvaśānáḥ ǀ
    sahasríṇam ǀ vā́jam ǀ átyam ǀ ná ǀ sáptim ǀ sasa-vā́n ǀ sán ǀ stūyase ǀ jāta-vedaḥ ǁ

    ayam ǀ saḥ ǀ agniḥ ǀ yasmin ǀ somam ǀ indraḥ ǀ sutam ǀ dadhe ǀ jaṭhare ǀ vāvaśānaḥ ǀ
    sahasriṇam ǀ vājam ǀ atyam ǀ na ǀ saptim ǀ sasa-vān ǀ san ǀ stūyase ǀ jāta-vedaḥ ǁ

    3.22.1 Aṣṭaka 3.1.22.1Anuvāka 3.2.53

  2. Ṛk 2

    अग्ने॒ यत्ते॑ दि॒वि वर्चः॑ पृथि॒व्यां यदोष॑धीष्व॒प्स्वा य॑जत्र ।
    येनां॒तरि॑क्षमु॒र्वा॑त॒तंथ॑ त्वे॒षः स भा॒नुर॑र्ण॒वो नृ॒चक्षाः॑ ॥

    अग्ने यत् ते दिवि वर्चः पृथिव्यां यद् ओषधीष्व् अप्स्व् आ यजत्र |
    येनान्तरिक्षम् उर्व् आततन्थ त्वेषः स भानुर् अर्णवो नृचक्षाः ||

    ágne yátte diví várcaḥ pṛthivyā́m yádóṣadhīṣvapsvā́ yajatra ǀ
    yénāntárikṣamurvā́tatántha tveṣáḥ sá bhānúrarṇavó nṛcákṣāḥ ǁ

    agne yat te divi varcaḥ pṛthivyāṃ yad oṣadhīṣv apsv ā yajatra |
    yenāntarikṣam urv ātatantha tveṣaḥ sa bhānur arṇavo nṛcakṣāḥ ||

    अग्ने॑ । यत् । ते॒ । दि॒वि । वर्चः॑ । पृ॒थि॒व्याम् । यत् । ओष॑धीषु । अ॒प्ऽसु । आ । य॒ज॒त्र॒ ।
    येन॑ । अ॒न्तरि॑क्षम् । उ॒रु । आ॒ऽत॒तन्थ॑ । त्वे॒षः । सः । भा॒नुः । अ॒र्ण॒वः । नृ॒ऽचक्षाः॑ ॥

    अग्ने । यत् । ते । दिवि । वर्चः । पृथिव्याम् । यत् । ओषधीषु । अप्ऽसु । आ । यजत्र ।
    येन । अन्तरिक्षम् । उरु । आऽततन्थ । त्वेषः । सः । भानुः । अर्णवः । नृऽचक्षाः ॥

    ágne ǀ yát ǀ te ǀ diví ǀ várcaḥ ǀ pṛthivyā́m ǀ yát ǀ óṣadhīṣu ǀ ap-sú ǀ ā́ ǀ yajatra ǀ
    yéna ǀ antárikṣam ǀ urú ǀ ā-tatántha ǀ tveṣáḥ ǀ sáḥ ǀ bhānúḥ ǀ arṇaváḥ ǀ nṛ-cákṣāḥ ǁ

    agne ǀ yat ǀ te ǀ divi ǀ varcaḥ ǀ pṛthivyām ǀ yat ǀ oṣadhīṣu ǀ ap-su ǀ ā ǀ yajatra ǀ
    yena ǀ antarikṣam ǀ uru ǀ ā-tatantha ǀ tveṣaḥ ǀ saḥ ǀ bhānuḥ ǀ arṇavaḥ ǀ nṛ-cakṣāḥ ǁ

    3.22.2 Aṣṭaka 3.1.22.2Anuvāka 3.2.54

  3. Ṛk 3

    अग्ने॑ दि॒वो अर्ण॒मच्छा॑ जिगा॒स्यच्छा॑ दे॒वाँ ऊ॑चिषे॒ धिष्ण्या॒ ये ।
    या रो॑च॒ने प॒रस्ता॒त्सूर्य॑स्य॒ याश्चा॒वस्ता॑दुप॒तिष्ठं॑त॒ आपः॑ ॥

    अग्ने दिवो अर्णम् अच्छा जिगास्य् अच्छा देवां ऊचिषे धिष्ण्या ये |
    या रोचने परस्तात् सूर्यस्य याश् चावस्ताद् उपतिष्ठन्त आपः ||

    ágne divó árṇamácchā jigāsyácchā devā́m̐ ūciṣe dhíṣṇyā yé ǀ
    yā́ rocané parástātsū́ryasya yā́ścāvástādupatíṣṭhanta ā́paḥ ǁ

    agne divo arṇam acchā jigāsy acchā devāṃ ūciṣe dhiṣṇyā ye |
    yā rocane parastāt sūryasya yāś cāvastād upatiṣṭhanta āpaḥ ||

    अग्ने॑ । दि॒वः । अर्ण॑म् । अच्छ॑ । जि॒गा॒सि॒ । अच्छ॑ । दे॒वान् । ऊ॒चि॒षे॒ । धिष्ण्याः॑ । ये ।
    याः । रो॒च॒ने । प॒रस्ता॑त् । सूर्य॑स्य । याः । च॒ । अ॒वस्ता॑त् । उ॒प॒ऽतिष्ठ॑न्ते । आपः॑ ॥

    अग्ने । दिवः । अर्णम् । अच्छ । जिगासि । अच्छ । देवान् । ऊचिषे । धिष्ण्याः । ये ।
    याः । रोचने । परस्तात् । सूर्यस्य । याः । च । अवस्तात् । उपऽतिष्ठन्ते । आपः ॥

    ágne ǀ diváḥ ǀ árṇam ǀ áccha ǀ jigāsi ǀ áccha ǀ devā́n ǀ ūciṣe ǀ dhíṣṇyāḥ ǀ yé ǀ
    yā́ḥ ǀ rocané ǀ parástāt ǀ sū́ryasya ǀ yā́ḥ ǀ ca ǀ avástāt ǀ upa-tíṣṭhante ǀ ā́paḥ ǁ

    agne ǀ divaḥ ǀ arṇam ǀ accha ǀ jigāsi ǀ accha ǀ devān ǀ ūciṣe ǀ dhiṣṇyāḥ ǀ ye ǀ
    yāḥ ǀ rocane ǀ parastāt ǀ sūryasya ǀ yāḥ ǀ ca ǀ avastāt ǀ upa-tiṣṭhante ǀ āpaḥ ǁ

    3.22.3 Aṣṭaka 3.1.22.3Anuvāka 3.2.55

  4. Ṛk 4

    पु॒री॒ष्या॑सो अ॒ग्नयः॑ प्राव॒णेभिः॑ स॒जोष॑सः ।
    जु॒षंतां॑ य॒ज्ञम॒द्रुहो॑ऽनमी॒वा इषो॑ म॒हीः ॥

    पुरीष्यासो अग्नयः प्रावणेभिः सजोषसः |
    जुषन्तां यज्ञम् अद्रुहो ऽनमीवा इषो महीः ||

    purīṣyā́so agnáyaḥ prāvaṇébhiḥ sajóṣasaḥ ǀ
    juṣántām yajñámadrúho’namīvā́ íṣo mahī́ḥ ǁ

    purīṣyāso agnayaḥ prāvaṇebhiḥ sajoṣasaḥ |
    juṣantāṃ yajñam adruho 'namīvā iṣo mahīḥ ||

    पु॒री॒ष्या॑सः । अ॒ग्नयः॑ । प्र॒व॒णेभिः॑ । स॒ऽजोष॑सः ।
    जु॒षन्ता॑म् । य॒ज्ञम् । अ॒द्रुहः॑ । अ॒न॒मी॒वाः । इषः॑ । म॒हीः ॥

    पुरीष्यासः । अग्नयः । प्रवणेभिः । सऽजोषसः ।
    जुषन्ताम् । यज्ञम् । अद्रुहः । अनमीवाः । इषः । महीः ॥

    purīṣyā́saḥ ǀ agnáyaḥ ǀ pravaṇébhiḥ ǀ sa-jóṣasaḥ ǀ
    juṣántām ǀ yajñám ǀ adrúhaḥ ǀ anamīvā́ḥ ǀ íṣaḥ ǀ mahī́ḥ ǁ

    purīṣyāsaḥ ǀ agnayaḥ ǀ pravaṇebhiḥ ǀ sa-joṣasaḥ ǀ
    juṣantām ǀ yajñam ǀ adruhaḥ ǀ anamīvāḥ ǀ iṣaḥ ǀ mahīḥ ǁ

    3.22.4 Aṣṭaka 3.1.22.4Anuvāka 3.2.56

  5. Ṛk 5

    इळा॑मग्ने पुरु॒दंसं॑ स॒निं गोः श॑श्वत्त॒मं हव॑मानाय साध ।
    स्यान्नः॑ सू॒नुस्तन॑यो वि॒जावाग्ने॒ सा ते॑ सुम॒तिर्भू॑त्व॒स्मे ॥

    इऌआम् अग्ने पुरुदंसं सनिं गोः शश्वत्तमं हवमानाय साध |
    स्यान् नः सूनुस् तनयो विजावाग्ने सा ते सुमतिर् भूत्व् अस्मे ||

    íḷāmagne purudáṃsam saním góḥ śaśvattamám hávamānāya sādha ǀ
    syā́nnaḥ sūnústánayo vijā́vā́gne sā́ te sumatírbhūtvasmé ǁ

    iḷām agne purudaṃsaṃ saniṃ goḥ śaśvattamaṃ havamānāya sādha |
    syān naḥ sūnus tanayo vijāvāgne sā te sumatir bhūtv asme ||

    इळा॑म् । अ॒ग्ने॒ । पु॒रु॒ऽदंस॑म् । स॒निम् । गोः । श॒श्व॒त्ऽत॒मम् । हव॑मानाय । सा॒ध॒ ।
    स्यात् । नः॒ । सू॒नुः । तन॑यः । वि॒जाऽवा॑ । अ॒ग्ने॒ । सा । ते॒ । सु॒ऽम॒तिः । भू॒तु॒ । अ॒स्मे इति॑ ॥

    इळाम् । अग्ने । पुरुऽदंसम् । सनिम् । गोः । शश्वत्ऽतमम् । हवमानाय । साध ।
    स्यात् । नः । सूनुः । तनयः । विजाऽवा । अग्ने । सा । ते । सुऽमतिः । भूतु । अस्मे इति ॥

    íḷām ǀ agne ǀ puru-dáṃsam ǀ saním ǀ góḥ ǀ śaśvat-tamám ǀ hávamānāya ǀ sādha ǀ
    syā́t ǀ naḥ ǀ sūnúḥ ǀ tánayaḥ ǀ vijā́-vā ǀ agne ǀ sā́ ǀ te ǀ su-matíḥ ǀ bhūtu ǀ asmé íti ǁ

    iḷām ǀ agne ǀ puru-daṃsam ǀ sanim ǀ goḥ ǀ śaśvat-tamam ǀ havamānāya ǀ sādha ǀ
    syāt ǀ naḥ ǀ sūnuḥ ǀ tanayaḥ ǀ vijā-vā ǀ agne ǀ sā ǀ te ǀ su-matiḥ ǀ bhūtu ǀ asme iti ǁ

    3.22.5 Aṣṭaka 3.1.22.5Anuvāka 3.2.57

Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 3.22 · Agni

Interpretations

Sri Aurobindo

Ṛk 1

This is that Fire in which Indra, desiring the wine, held it in his belly; our laud rises to thee because thou hast won the thousand fold plenitude as if a steed of swiftness, O knower of all things born! (198)

Ṛk 2

O Fire, that splendour of thine which is in heaven and which is in the earth and its growths and its waters, O lord of sacrifice, by which thou hast extended the wide mid-air, it is a brilliant ocean of light in which is divine vision. (198)

Ṛk 3

O Fire, thou goest towards the ocean of the sky, thou speakest towards the gods who are masters of knowledge,53 towards the waters that abide above in the luminous world of the sun and the waters that are below. (198)

Ṛk 4

Let thy Fires that dwell in the waters joining with those that descend the slopes accept the sacrifice, mighty impelling forces, in which there is no harm nor any distress. (199)

Ṛk 5

O Fire, achieve at my call the Revealing Speech, the many actioned, the lasting conquest of the Light. May there be for us a Son of our begetting pervading in his birth;54 O Fire, may there be created in us that true thinking of thine. (199)