Sūkta 20
- Devatā देवता
- 1: Agni, Aśvins, Uṣas, Dadhikrā; 2-4: Agni; 5: Agni, Aśvins, Ādityās, Uṣas, Dadhikrā, Bṛhaspati, Bhaga, Mitra, Varuṇa, Vasu, Savitṛ
- Ṛṣi ऋषि
- Gāthin Kauśika
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles triṣṭup (4, 5); virāṭtrisṭup (1); nicṛttriṣṭup (2); bhuriktriṣṭup (3)
2nd set of styles triṣṭubh
-
Ṛk 1
अ॒ग्निमु॒षस॑म॒श्विना॑ दधि॒क्रां व्यु॑ष्टिषु हवते॒ वह्नि॑रु॒क्थैः ।
सु॒ज्योति॑षो नः शृण्वंतु दे॒वाः स॒जोष॑सो अध्व॒रं वा॑वशा॒नाः ॥अग्निम् उषसम् अश्विना दधिक्रां व्युष्टिषु हवते वह्निर् उक्थैः |
सुज्योतिषो नः शृण्वन्तु देवाः सजोषसो अध्वरं वावशानाः ||agnímuṣásamaśvínā dadhikrā́m vyúṣṭiṣu havate váhniruktháiḥ ǀ
sujyótiṣo naḥ śṛṇvantu devā́ḥ sajóṣaso adhvarám vāvaśānā́ḥ ǁagnim uṣasam aśvinā dadhikrāṃ vyuṣṭiṣu havate vahnir ukthaiḥ |
sujyotiṣo naḥ śṛṇvantu devāḥ sajoṣaso adhvaraṃ vāvaśānāḥ ||अ॒ग्निम् । उ॒षस॑म् । अ॒श्विना॑ । द॒धि॒ऽक्राम् । विऽउ॑ष्टिषु । ह॒व॒ते॒ । वह्निः॑ । उ॒क्थैः ।
सु॒ऽज्योति॑षः । नः॒ । शृ॒ण्व॒न्तु॒ । दे॒वाः । स॒ऽजोष॑सः । अ॒ध्व॒रम् । वा॒व॒शा॒नाः ॥अग्निम् । उषसम् । अश्विना । दधिऽक्राम् । विऽउष्टिषु । हवते । वह्निः । उक्थैः ।
सुऽज्योतिषः । नः । शृण्वन्तु । देवाः । सऽजोषसः । अध्वरम् । वावशानाः ॥agním ǀ uṣásam ǀ aśvínā ǀ dadhi-krā́m ǀ ví-uṣṭiṣu ǀ havate ǀ váhniḥ ǀ uktháiḥ ǀ
su-jyótiṣaḥ ǀ naḥ ǀ śṛṇvantu ǀ devā́ḥ ǀ sa-jóṣasaḥ ǀ adhvarám ǀ vāvaśānā́ḥ ǁagnim ǀ uṣasam ǀ aśvinā ǀ dadhi-krām ǀ vi-uṣṭiṣu ǀ havate ǀ vahniḥ ǀ ukthaiḥ ǀ
su-jyotiṣaḥ ǀ naḥ ǀ śṛṇvantu ǀ devāḥ ǀ sa-joṣasaḥ ǀ adhvaram ǀ vāvaśānāḥ ǁ3.20.1 Aṣṭaka 3.1.20.1Anuvāka 3.2.43
-
Ṛk 2
अग्ने॒ त्री ते॒ वाजि॑ना॒ त्री ष॒धस्था॑ ति॒स्रस्ते॑ जि॒ह्वा ऋ॑तजात पू॒र्वीः ।
ति॒स्र उ॑ ते त॒न्वो॑ दे॒ववा॑ता॒स्ताभि॑र्नः पाहि॒ गिरो॒ अप्र॑युच्छन् ॥अग्ने त्री ते वाजिना त्री षधस्था तिस्रस् ते जिह्वा ऋतजात पूर्वीः |
तिस्र उ ते तन्वो देववातास् ताभिर् नः पाहि गिरो अप्रयुच्छन् ||ágne trī́ te vā́jinā trī́ ṣadhásthā tisráste jihvā́ ṛtajāta pūrvī́ḥ ǀ
tisrá u te tanvo devávātāstā́bhirnaḥ pāhi gíro áprayucchan ǁagne trī te vājinā trī ṣadhasthā tisras te jihvā ṛtajāta pūrvīḥ |
tisra u te tanvo devavātās tābhir naḥ pāhi giro aprayucchan ||अग्ने॑ । त्री । ते॒ । वा॒जि॑ना । त्री । स॒धऽस्था॑ । ति॒स्रः । ते॒ । जि॒ह्वाः । ऋ॒त॒ऽजा॒त॒ । पू॒र्वीः ।
ति॒स्रः । ऊं॒ इति॑ । ते॒ । त॒न्वः॑ । दे॒वऽवा॑ताः । ताभिः॑ । नः॒ । पा॒हि॒ । गिरः॑ । अप्र॑ऽयुच्छन् ॥अग्ने । त्री । ते । वाजिना । त्री । सधऽस्था । तिस्रः । ते । जिह्वाः । ऋतऽजात । पूर्वीः ।
तिस्रः । ऊं इति । ते । तन्वः । देवऽवाताः । ताभिः । नः । पाहि । गिरः । अप्रऽयुच्छन् ॥ágne ǀ trī́ ǀ te ǀ vājínā ǀ trī́ ǀ sadhá-sthā ǀ tisráḥ ǀ te ǀ jihvā́ḥ ǀ ṛta-jāta ǀ pūrvī́ḥ ǀ
tisráḥ ǀ ūṃ íti ǀ te ǀ tanváḥ ǀ devá-vātāḥ ǀ tā́bhiḥ ǀ naḥ ǀ pāhi ǀ gíraḥ ǀ ápra-yucchan ǁagne ǀ trī ǀ te ǀ vājinā ǀ trī ǀ sadha-sthā ǀ tisraḥ ǀ te ǀ jihvāḥ ǀ ṛta-jāta ǀ pūrvīḥ ǀ
tisraḥ ǀ ūṃ iti ǀ te ǀ tanvaḥ ǀ deva-vātāḥ ǀ tābhiḥ ǀ naḥ ǀ pāhi ǀ giraḥ ǀ apra-yucchan ǁ3.20.2 Aṣṭaka 3.1.20.2Anuvāka 3.2.44
-
Ṛk 3
अग्ने॒ भूरी॑णि॒ तव॑ जातवेदो॒ देव॑ स्वधावो॒ऽमृत॑स्य॒ नाम॑ ।
याश्च॑ मा॒या मा॒यिनां॑ विश्वमिन्व॒ त्वे पू॒र्वीः सं॑द॒धुः पृ॑ष्टबंधो ॥अग्ने भूरीणि तव जातवेदो देव स्वधावो ऽमृतस्य नाम |
याश् च माया मायिनां विश्वमिन्व त्वे पूर्वीः संदधुः पृष्टबन्धो ||ágne bhū́rīṇi táva jātavedo déva svadhāvo’mṛ́tasya nā́ma ǀ
yā́śca māyā́ māyínām viśvaminva tvé pūrvī́ḥ saṃdadhúḥ pṛṣṭabandho ǁagne bhūrīṇi tava jātavedo deva svadhāvo 'mṛtasya nāma |
yāś ca māyā māyināṃ viśvaminva tve pūrvīḥ saṃdadhuḥ pṛṣṭabandho ||अग्ने॑ । भूरी॑णि । तव॑ । जा॒त॒ऽवे॒दः॒ । देव॑ । स्व॒धा॒ऽवः॒ । अ॒मृत॑स्य । नाम॑ ।
याः । च॒ । मा॒या । मा॒यिना॑म् । वि॒श्व॒म्ऽइ॒न्व॒ । त्वे इति॑ । पू॒र्वीः । स॒म्ऽद॒धुः । पृ॒ष्ट॒ब॒न्धो॒ इति॑ पृष्टऽबन्धो ॥अग्ने । भूरीणि । तव । जातऽवेदः । देव । स्वधाऽवः । अमृतस्य । नाम ।
याः । च । माया । मायिनाम् । विश्वम्ऽइन्व । त्वे इति । पूर्वीः । सम्ऽदधुः । पृष्टबन्धो इति पृष्टऽबन्धो ॥ágne ǀ bhū́rīṇi ǀ táva ǀ jāta-vedaḥ ǀ déva ǀ svadhā-vaḥ ǀ amṛ́tasya ǀ nā́ma ǀ
yā́ḥ ǀ ca ǀ māyā́ ǀ māyínām ǀ viśvam-inva ǀ tvé íti ǀ pūrvī́ḥ ǀ sam-dadhúḥ ǀ pṛṣṭabandho íti pṛṣṭa-bandho ǁagne ǀ bhūrīṇi ǀ tava ǀ jāta-vedaḥ ǀ deva ǀ svadhā-vaḥ ǀ amṛtasya ǀ nāma ǀ
yāḥ ǀ ca ǀ māyā ǀ māyinām ǀ viśvam-inva ǀ tve iti ǀ pūrvīḥ ǀ sam-dadhuḥ ǀ pṛṣṭabandho iti pṛṣṭa-bandho ǁ3.20.3 Aṣṭaka 3.1.20.3Anuvāka 3.2.45
-
Ṛk 4
अ॒ग्निर्ने॒ता भग॑ इव क्षिती॒नां दैवी॑नां दे॒व ऋ॑तु॒पा ऋ॒तावा॑ ।
स वृ॑त्र॒हा स॒नयो॑ वि॒श्ववे॑दाः॒ पर्ष॒द्विश्वाति॑ दुरि॒ता गृ॒णंतं॑ ॥अग्निर् नेता भग इव क्षितीनां दैवीनां देव ऋतुपा ऋतावा |
स वृत्रहा सनयो विश्ववेदाः पर्षद् विश्वाति दुरिता गृणन्तम् ||agnírnetā́ bhága iva kṣitīnā́m dáivīnām devá ṛtupā́ ṛtā́vā ǀ
sá vṛtrahā́ sanáyo viśvávedāḥ párṣadvíśvā́ti duritā́ gṛṇántam ǁagnir netā bhaga iva kṣitīnāṃ daivīnāṃ deva ṛtupā ṛtāvā |
sa vṛtrahā sanayo viśvavedāḥ parṣad viśvāti duritā gṛṇantam ||अ॒ग्निः । ने॒ता । भगः॑ऽइव । क्षि॒ती॒नाम् । दैवी॑नाम् । दे॒वः । ऋ॒तु॒ऽपाः । ऋ॒तऽवा॑ ।
सः । वृ॒त्र॒ऽहा । स॒नयः॑ । वि॒श्वऽवे॑दाः । पर्ष॑त् । विश्वा॑ । अति॑ । दुः॒ऽइ॒ता । गृ॒णन्त॑म् ॥अग्निः । नेता । भगःऽइव । क्षितीनाम् । दैवीनाम् । देवः । ऋतुऽपाः । ऋतऽवा ।
सः । वृत्रऽहा । सनयः । विश्वऽवेदाः । पर्षत् । विश्वा । अति । दुःऽइता । गृणन्तम् ॥agníḥ ǀ netā́ ǀ bhágaḥ-iva ǀ kṣitīnā́m ǀ dáivīnām ǀ deváḥ ǀ ṛtu-pā́ḥ ǀ ṛtá-vā ǀ
sáḥ ǀ vṛtra-hā́ ǀ sanáyaḥ ǀ viśvá-vedāḥ ǀ párṣat ǀ víśvā ǀ áti ǀ duḥ-itā́ ǀ gṛṇántam ǁagniḥ ǀ netā ǀ bhagaḥ-iva ǀ kṣitīnām ǀ daivīnām ǀ devaḥ ǀ ṛtu-pāḥ ǀ ṛta-vā ǀ
saḥ ǀ vṛtra-hā ǀ sanayaḥ ǀ viśva-vedāḥ ǀ parṣat ǀ viśvā ǀ ati ǀ duḥ-itā ǀ gṛṇantam ǁ3.20.4 Aṣṭaka 3.1.20.4Anuvāka 3.2.46
-
Ṛk 5
द॒धि॒क्राम॒ग्निमु॒षसं॑ च दे॒वीं बृह॒स्पतिं॑ सवि॒तारं॑ च दे॒वं ।
अ॒श्विना॑ मि॒त्रावरु॑णा॒ भगं॑ च॒ वसू॑न्रु॒द्राँ आ॑दि॒त्याँ इ॒ह हु॑वे ॥दधिक्राम् अग्निम् उषसं च देवीम् बृहस्पतिं सवितारं च देवम् |
अश्विना मित्रावरुणा भगं च वसून् रुद्रां आदित्यां इह हुवे ||dadhikrā́magnímuṣásam ca devī́m bṛ́haspátim savitā́ram ca devám ǀ
aśvínā mitrā́váruṇā bhágam ca vásūnrudrā́m̐ ādityā́m̐ ihá huve ǁdadhikrām agnim uṣasaṃ ca devīm bṛhaspatiṃ savitāraṃ ca devam |
aśvinā mitrāvaruṇā bhagaṃ ca vasūn rudrāṃ ādityāṃ iha huve ||द॒धि॒ऽक्राम् । अ॒ग्निम् । उ॒षस॑म् । च॒ । दे॒वीम् । बृह॒स्पति॑म् । स॒वि॒तार॑म् । च॒ । दे॒वम् ।
अ॒श्विना॑ । मि॒त्रावरु॑णा । भग॑म् । च॒ । वसू॑न् । रु॒द्रान् । आ॒दि॒त्यान् । इ॒ह । हु॒वे॒ ॥दधिऽक्राम् । अग्निम् । उषसम् । च । देवीम् । बृहस्पतिम् । सवितारम् । च । देवम् ।
अश्विना । मित्रावरुणा । भगम् । च । वसून् । रुद्रान् । आदित्यान् । इह । हुवे ॥dadhi-krā́m ǀ agním ǀ uṣásam ǀ ca ǀ devī́m ǀ bṛ́haspátim ǀ savitā́ram ǀ ca ǀ devám ǀ
aśvínā ǀ mitrā́váruṇā ǀ bhágam ǀ ca ǀ vásūn ǀ rudrā́n ǀ ādityā́n ǀ ihá ǀ huve ǁdadhi-krām ǀ agnim ǀ uṣasam ǀ ca ǀ devīm ǀ bṛhaspatim ǀ savitāram ǀ ca ǀ devam ǀ
aśvinā ǀ mitrāvaruṇā ǀ bhagam ǀ ca ǀ vasūn ǀ rudrān ǀ ādityān ǀ iha ǀ huve ǁ3.20.5 Aṣṭaka 3.1.20.5Anuvāka 3.2.47
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.