Ṛgveda · Maṇḍala 3

Sūkta 35

Indra · Viśvāmitra Gāthina · 11 ṛks

Link
Devatā देवता
Indra
Ṛṣi ऋषि
Viśvāmitra Gāthina
Chandas छन्दस्
Triṣṭubh
Metres by ṛk

1st set of styles triṣṭup (1, 7, 10, 11); nicṛttriṣṭup (2, 3, 6, 8); bhurikpaṅkti (4); svarāṭpaṅkti (5); virāṭtrisṭup (9)

2nd set of styles triṣṭubh

  1. Ṛk 1

    तिष्ठा॒ हरी॒ रथ॒ आ यु॒ज्यमा॑ना या॒हि वा॒युर्न नि॒युतो॑ नो॒ अच्छ॑ ।
    पिबा॒स्यंधो॑ अ॒भिसृ॑ष्टो अ॒स्मे इंद्र॒ स्वाहा॑ ररि॒मा ते॒ मदा॑य ॥

    तिष्ठा हरी रथ आ युज्यमाना याहि वायुर् न नियुतो नो अच्छ |
    पिबास्य् अन्धो अभिसृष्टो अस्मे इन्द्र स्वाहा ररिमा ते मदाय ||

    tíṣṭhā hárī rátha ā́ yujyámānā yāhí vāyúrná niyúto no áccha ǀ
    píbāsyándho abhísṛṣṭo asmé índra svā́hā rarimā́ te mádāya ǁ

    tiṣṭhā harī ratha ā yujyamānā yāhi vāyur na niyuto no accha |
    pibāsy andho abhisṛṣṭo asme indra svāhā rarimā te madāya ||

    तिष्ठ॑ । हरी॒ इति॑ । रथे॑ । आ । यु॒ज्यमा॑ना । या॒हि । वा॒युः । न । नि॒ऽयुतः॑ । नः॒ । अच्छ॑ ।
    पिबा॑सि । अन्धः॑ । अ॒भिऽसृ॑ष्टः । अ॒स्मे इति॑ । इन्द्र॑ । स्वाहा॑ । र॒रि॒म । ते॒ । मदा॑य ॥

    तिष्ठ । हरी इति । रथे । आ । युज्यमाना । याहि । वायुः । न । निऽयुतः । नः । अच्छ ।
    पिबासि । अन्धः । अभिऽसृष्टः । अस्मे इति । इन्द्र । स्वाहा । ररिम । ते । मदाय ॥

    tíṣṭha ǀ hárī íti ǀ ráthe ǀ ā́ ǀ yujyámānā ǀ yāhí ǀ vāyúḥ ǀ ná ǀ ni-yútaḥ ǀ naḥ ǀ áccha ǀ
    píbāsi ǀ ándhaḥ ǀ abhí-sṛṣṭaḥ ǀ asmé íti ǀ índra ǀ svā́hā ǀ rarimá ǀ te ǀ mádāya ǁ

    tiṣṭha ǀ harī iti ǀ rathe ǀ ā ǀ yujyamānā ǀ yāhi ǀ vāyuḥ ǀ na ǀ ni-yutaḥ ǀ naḥ ǀ accha ǀ
    pibāsi ǀ andhaḥ ǀ abhi-sṛṣṭaḥ ǀ asme iti ǀ indra ǀ svāhā ǀ rarima ǀ te ǀ madāya ǁ

    3.35.1 Aṣṭaka 3.2.17.1Anuvāka 3.3.86

  2. Ṛk 2

    उपा॑जि॒रा पु॑रुहू॒ताय॒ सप्ती॒ हरी॒ रथ॑स्य धू॒र्ष्वा यु॑नज्मि ।
    द्र॒वद्यथा॒ संभृ॑तं वि॒श्वत॑श्चि॒दुपे॒मं य॒ज्ञमा व॑हात॒ इंद्रं॑ ॥

    उपाजिरा पुरुहूताय सप्ती हरी रथस्य धूर्ष्व् आ युनज्मि |
    द्रवद् यथा सम्भृतं विश्वतश् चिद् उपेमं यज्ञम् आ वहात इन्द्रम् ||

    úpājirā́ puruhūtā́ya sáptī hárī ráthasya dhūrṣvā́ yunajmi ǀ
    dravádyáthā sámbhṛtam viśvátaścidúpemám yajñámā́ vahāta índram ǁ

    upājirā puruhūtāya saptī harī rathasya dhūrṣv ā yunajmi |
    dravad yathā sambhṛtaṃ viśvataś cid upemaṃ yajñam ā vahāta indram ||

    उप॑ । अ॒जि॒रा । पु॒रु॒ऽहू॒ताय॑ । सप्ती॒ इति॑ । हरी॒ इति॑ । रथ॑स्य । धूः॒ऽसु । आ । यु॒न॒ज्मि॒ ।
    द्र॒वत् । यथा॑ । सम्ऽभृ॑तम् । वि॒श्वतः॑ । चि॒त् । उप॑ । इ॒मम् । य॒ज्ञम् । आ । व॒हा॒तः॒ । इन्द्र॑म् ॥

    उप । अजिरा । पुरुऽहूताय । सप्ती इति । हरी इति । रथस्य । धूःऽसु । आ । युनज्मि ।
    द्रवत् । यथा । सम्ऽभृतम् । विश्वतः । चित् । उप । इमम् । यज्ञम् । आ । वहातः । इन्द्रम् ॥

    úpa ǀ ajirā́ ǀ puru-hūtā́ya ǀ sáptī íti ǀ hárī íti ǀ ráthasya ǀ dhūḥ-sú ǀ ā́ ǀ yunajmi ǀ
    dravát ǀ yáthā ǀ sám-bhṛtam ǀ viśvátaḥ ǀ cit ǀ úpa ǀ imám ǀ yajñám ǀ ā́ ǀ vahātaḥ ǀ índram ǁ

    upa ǀ ajirā ǀ puru-hūtāya ǀ saptī iti ǀ harī iti ǀ rathasya ǀ dhūḥ-su ǀ ā ǀ yunajmi ǀ
    dravat ǀ yathā ǀ sam-bhṛtam ǀ viśvataḥ ǀ cit ǀ upa ǀ imam ǀ yajñam ǀ ā ǀ vahātaḥ ǀ indram ǁ

    3.35.2 Aṣṭaka 3.2.17.2Anuvāka 3.3.87

  3. Ṛk 3

    उपो॑ नयस्व॒ वृष॑णा तपु॒ष्पोतेम॑व॒ त्वं वृ॑षभ स्वधावः ।
    ग्रसे॑ता॒मश्वा॒ वि मु॑चे॒ह शोणा॑ दि॒वेदि॑वे स॒दृशी॑रद्धि धा॒नाः ॥

    उपो नयस्व वृषणा तपुष्पोतेम् अव त्वं वृषभ स्वधावः |
    ग्रसेताम् अश्वा वि मुचेह शोणा दिवे-दिवे सदृशीर् अद्धि धानाः ||

    úpo nayasva vṛ́ṣaṇā tapuṣpótémava tvám vṛṣabha svadhāvaḥ ǀ
    grásetāmáśvā ví mucehá śóṇā divédive sadṛ́śīraddhi dhānā́ḥ ǁ

    upo nayasva vṛṣaṇā tapuṣpotem ava tvaṃ vṛṣabha svadhāvaḥ |
    grasetām aśvā vi muceha śoṇā dive-dive sadṛśīr addhi dhānāḥ ||

    उपो॒ इति॑ । न॒य॒स्व॒ । वृष॑णा । त॒पुः॒ऽपा । उ॒त । ई॒म् । अ॒व॒ । त्वम् । वृ॒ष॒भ॒ । स्व॒धा॒ऽवः॒ ।
    ग्रसे॑ताम् । अश्वा॑ । वि । मु॒च॒ । इ॒ह । शोणा॑ । दि॒वेऽदि॑वे । स॒ऽदृशीः॑ । अ॒द्धि॒ । धा॒नाः ॥

    उपो इति । नयस्व । वृषणा । तपुःऽपा । उत । ईम् । अव । त्वम् । वृषभ । स्वधाऽवः ।
    ग्रसेताम् । अश्वा । वि । मुच । इह । शोणा । दिवेऽदिवे । सऽदृशीः । अद्धि । धानाः ॥

    úpo íti ǀ nayasva ǀ vṛ́ṣaṇā ǀ tapuḥ-pā́ ǀ utá ǀ īm ǀ ava ǀ tvám ǀ vṛṣabha ǀ svadhā-vaḥ ǀ
    grásetām ǀ áśvā ǀ ví ǀ muca ǀ ihá ǀ śóṇā ǀ divé-dive ǀ sa-dṛ́śīḥ ǀ addhi ǀ dhānā́ḥ ǁ

    upo iti ǀ nayasva ǀ vṛṣaṇā ǀ tapuḥ-pā ǀ uta ǀ īm ǀ ava ǀ tvam ǀ vṛṣabha ǀ svadhā-vaḥ ǀ
    grasetām ǀ aśvā ǀ vi ǀ muca ǀ iha ǀ śoṇā ǀ dive-dive ǀ sa-dṛśīḥ ǀ addhi ǀ dhānāḥ ǁ

    3.35.3 Aṣṭaka 3.2.17.3Anuvāka 3.3.88

  4. Ṛk 4

    ब्रह्म॑णा ते ब्रह्म॒युजा॑ युनज्मि॒ हरी॒ सखा॑या सध॒माद॑ आ॒शू ।
    स्थि॒रं रथं॑ सु॒खमिं॑द्राधि॒तिष्ठ॑न्प्रजा॒नन्वि॒द्वाँ उप॑ याहि॒ सोमं॑ ॥

    ब्रह्मणा ते ब्रह्मयुजा युनज्मि हरी सखाया सधमाद आशू |
    स्थिरं रथं सुखम् इन्द्राधितिष्ठन् प्रजानन् विद्वां उप याहि सोमम् ||

    bráhmaṇā te brahmayújā yunajmi hárī sákhāyā sadhamā́da āśū́ ǀ
    sthirám rátham sukhámindrādhitíṣṭhanprajānánvidvā́m̐ úpa yāhi sómam ǁ

    brahmaṇā te brahmayujā yunajmi harī sakhāyā sadhamāda āśū |
    sthiraṃ rathaṃ sukham indrādhitiṣṭhan prajānan vidvāṃ upa yāhi somam ||

    ब्रह्म॑णा । ते॒ । ब्र॒ह्म॒ऽयुजा॑ । यु॒न॒ज्मि॒ । हरी॒ इति॑ । सखा॑या । स॒ध॒ऽमादे॑ । आ॒शू इति॑ ।
    स्थि॒रम् । रथ॑म् । सु॒ऽखम् । इ॒न्द्र॒ । अ॒धि॒ऽतिष्ठ॑न् । प्र॒ऽजा॒नन् । वि॒द्वान् । उप॑ । या॒हि॒ । सोम॑म् ॥

    ब्रह्मणा । ते । ब्रह्मऽयुजा । युनज्मि । हरी इति । सखाया । सधऽमादे । आशू इति ।
    स्थिरम् । रथम् । सुऽखम् । इन्द्र । अधिऽतिष्ठन् । प्रऽजानन् । विद्वान् । उप । याहि । सोमम् ॥

    bráhmaṇā ǀ te ǀ brahma-yújā ǀ yunajmi ǀ hárī íti ǀ sákhāyā ǀ sadha-mā́de ǀ āśū́ íti ǀ
    sthirám ǀ rátham ǀ su-khám ǀ indra ǀ adhi-tíṣṭhan ǀ pra-jānán ǀ vidvā́n ǀ úpa ǀ yāhi ǀ sómam ǁ

    brahmaṇā ǀ te ǀ brahma-yujā ǀ yunajmi ǀ harī iti ǀ sakhāyā ǀ sadha-māde ǀ āśū iti ǀ
    sthiram ǀ ratham ǀ su-kham ǀ indra ǀ adhi-tiṣṭhan ǀ pra-jānan ǀ vidvān ǀ upa ǀ yāhi ǀ somam ǁ

    3.35.4 Aṣṭaka 3.2.17.4Anuvāka 3.3.89

  5. Ṛk 5

    मा ते॒ हरी॒ वृष॑णा वी॒तपृ॑ष्ठा॒ नि री॑रम॒न्यज॑मानासो अ॒न्ये ।
    अ॒त्याया॑हि॒ शश्व॑तो व॒यं तेऽरं॑ सु॒तेभिः॑ कृणवाम॒ सोमैः॑ ॥

    मा ते हरी वृषणा वीतपृष्ठा नि रीरमन् यजमानासो अन्ये |
    अत्यायाहि शश्वतो वयं ते ऽरं सुतेभिः कृणवाम सोमैः ||

    mā́ te hárī vṛ́ṣaṇā vītápṛṣṭhā ní rīramanyájamānāso anyé ǀ
    atyā́yāhi śáśvato vayám té’ram sutébhiḥ kṛṇavāma sómaiḥ ǁ

    mā te harī vṛṣaṇā vītapṛṣṭhā ni rīraman yajamānāso anye |
    atyāyāhi śaśvato vayaṃ te 'raṃ sutebhiḥ kṛṇavāma somaiḥ ||

    मा । ते॒ । हरी॒ इति॑ । वृष॑णा । वी॒तऽपृ॑ष्ठा । नि । री॒र॒म॒न् । यज॑मानासः । अ॒न्ये ।
    अ॒ति॒ऽआया॑हि । शश्व॑तः । व॒यम् । ते॒ । अर॑म् । सु॒तेभिः॑ । कृ॒ण॒वा॒म॒ । सोमैः॑ ॥

    मा । ते । हरी इति । वृषणा । वीतऽपृष्ठा । नि । रीरमन् । यजमानासः । अन्ये ।
    अतिऽआयाहि । शश्वतः । वयम् । ते । अरम् । सुतेभिः । कृणवाम । सोमैः ॥

    mā́ ǀ te ǀ hárī íti ǀ vṛ́ṣaṇā ǀ vītá-pṛṣṭhā ǀ ní ǀ rīraman ǀ yájamānāsaḥ ǀ anyé ǀ
    ati-ā́yāhi ǀ śáśvataḥ ǀ vayám ǀ te ǀ áram ǀ sutébhiḥ ǀ kṛṇavāma ǀ sómaiḥ ǁ

    mā ǀ te ǀ harī iti ǀ vṛṣaṇā ǀ vīta-pṛṣṭhā ǀ ni ǀ rīraman ǀ yajamānāsaḥ ǀ anye ǀ
    ati-āyāhi ǀ śaśvataḥ ǀ vayam ǀ te ǀ aram ǀ sutebhiḥ ǀ kṛṇavāma ǀ somaiḥ ǁ

    3.35.5 Aṣṭaka 3.2.17.5Anuvāka 3.3.90

  6. Ṛk 6

    तवा॒यं सोम॒स्त्वमेह्य॒र्वाङ् श॑श्वत्त॒मं सु॒मना॑ अ॒स्य पा॑हि ।
    अ॒स्मिन्य॒ज्ञे ब॒र्हिष्या नि॒षद्या॑ दधि॒ष्वेमं ज॒ठर॒ इंदु॑मिंद्र ॥

    तवायं सोमस् त्वम् एह्य् अर्वाङ् छश्वत्तमं सुमना अस्य पाहि |
    अस्मिन् यज्ञे बर्हिष्य् आ निषद्या दधिष्वेमं जठर इन्दुम् इन्द्र ||

    távāyám sómastváméhyarvā́ṅ śaśvattamám sumánā asyá pāhi ǀ
    asmínyajñé barhíṣyā́ niṣádyā dadhiṣvémám jaṭhára índumindra ǁ

    tavāyaṃ somas tvam ehy arvāṅ chaśvattamaṃ sumanā asya pāhi |
    asmin yajñe barhiṣy ā niṣadyā dadhiṣvemaṃ jaṭhara indum indra ||

    तव॑ । अ॒यम् । सोमः॑ । त्वम् । आ । इ॒हि॒ । अ॒र्वाङ् । श॒श्व॒त्ऽत॒मम् । सु॒ऽमनाः॑ । अ॒स्य । पा॒हि॒ ।
    अ॒स्मिन् । य॒ज्ञे । ब॒र्हिषि॑ । आ । नि॒ऽसद्य॑ । द॒धि॒ष्व । इ॒मम् । ज॒ठरे॑ । इन्दु॑म् । इ॒न्द्र॒ ॥

    तव । अयम् । सोमः । त्वम् । आ । इहि । अर्वाङ् । शश्वत्ऽतमम् । सुऽमनाः । अस्य । पाहि ।
    अस्मिन् । यज्ञे । बर्हिषि । आ । निऽसद्य । दधिष्व । इमम् । जठरे । इन्दुम् । इन्द्र ॥

    táva ǀ ayám ǀ sómaḥ ǀ tvám ǀ ā́ ǀ ihi ǀ arvā́ṅ ǀ śaśvat-tamám ǀ su-mánāḥ ǀ asyá ǀ pāhi ǀ
    asmín ǀ yajñé ǀ barhíṣi ǀ ā́ ǀ ni-sádya ǀ dadhiṣvá ǀ imám ǀ jaṭháre ǀ índum ǀ indra ǁ

    tava ǀ ayam ǀ somaḥ ǀ tvam ǀ ā ǀ ihi ǀ arvāṅ ǀ śaśvat-tamam ǀ su-manāḥ ǀ asya ǀ pāhi ǀ
    asmin ǀ yajñe ǀ barhiṣi ǀ ā ǀ ni-sadya ǀ dadhiṣva ǀ imam ǀ jaṭhare ǀ indum ǀ indra ǁ

    3.35.6 Aṣṭaka 3.2.18.1Anuvāka 3.3.91

  7. Ṛk 7

    स्ती॒र्णं ते॑ ब॒र्हिः सु॒त इं॑द्र॒ सोमः॑ कृ॒ता धा॒ना अत्त॑वे ते॒ हरि॑भ्यां ।
    तदो॑कसे पुरु॒शाका॑य॒ वृष्णे॑ म॒रुत्व॑ते॒ तुभ्यं॑ रा॒ता ह॒वींषि॑ ॥

    स्तीर्णं ते बर्हिः सुत इन्द्र सोमः कृता धाना अत्तवे ते हरिभ्याम् |
    तदोकसे पुरुशाकाय वृष्णे मरुत्वते तुभ्यं राता हवींषि ||

    stīrṇám te barhíḥ sutá indra sómaḥ kṛtā́ dhānā́ áttave te háribhyām ǀ
    tádokase puruśā́kāya vṛ́ṣṇe marútvate túbhyam rātā́ havī́ṃṣi ǁ

    stīrṇaṃ te barhiḥ suta indra somaḥ kṛtā dhānā attave te haribhyām |
    tadokase puruśākāya vṛṣṇe marutvate tubhyaṃ rātā havīṃṣi ||

    स्ती॒र्णम् । ते॒ । ब॒र्हिः । सु॒तः । इ॒न्द्र॒ । सोमः॑ । कृ॒ताः । धा॒नाः । अत्त॑वे । ते॒ । हरि॑ऽभ्याम् ।
    तत्ऽओ॑कसे । पु॒रु॒ऽशाका॑य । वृष्णे॑ । म॒रुत्व॑ते । तुभ्य॑म् । रा॒ता । ह॒वींषि॑ ॥

    स्तीर्णम् । ते । बर्हिः । सुतः । इन्द्र । सोमः । कृताः । धानाः । अत्तवे । ते । हरिऽभ्याम् ।
    तत्ऽओकसे । पुरुऽशाकाय । वृष्णे । मरुत्वते । तुभ्यम् । राता । हवींषि ॥

    stīrṇám ǀ te ǀ barhíḥ ǀ sutáḥ ǀ indra ǀ sómaḥ ǀ kṛtā́ḥ ǀ dhānā́ḥ ǀ áttave ǀ te ǀ hári-bhyām ǀ
    tát-okase ǀ puru-śā́kāya ǀ vṛ́ṣṇe ǀ marútvate ǀ túbhyam ǀ rātā́ ǀ havī́ṃṣi ǁ

    stīrṇam ǀ te ǀ barhiḥ ǀ sutaḥ ǀ indra ǀ somaḥ ǀ kṛtāḥ ǀ dhānāḥ ǀ attave ǀ te ǀ hari-bhyām ǀ
    tat-okase ǀ puru-śākāya ǀ vṛṣṇe ǀ marutvate ǀ tubhyam ǀ rātā ǀ havīṃṣi ǁ

    3.35.7 Aṣṭaka 3.2.18.2Anuvāka 3.3.92

  8. Ṛk 8

    इ॒मं नरः॒ पर्व॑ता॒स्तुभ्य॒मापः॒ समिं॑द्र॒ गोभि॒र्मधु॑मंतमक्रन् ।
    तस्या॒गत्या॑ सु॒मना॑ ऋष्व पाहि प्रजा॒नन्वि॒द्वान्प॒थ्या॒३॒॑ अनु॒ स्वाः ॥

    इमं नरः पर्वतास् तुभ्यम् आपः सम् इन्द्र गोभिर् मधुमन्तम् अक्रन् |
    तस्यागत्या सुमना ऋष्व पाहि प्रजानन् विद्वान् पथ्या अनु स्वाः ||

    imám náraḥ párvatāstúbhyamā́paḥ sámindra góbhirmádhumantamakran ǀ
    tásyāgátyā sumánā ṛṣva pāhi prajānánvidvā́npathyā́ ánu svā́ḥ ǁ

    imaṃ naraḥ parvatās tubhyam āpaḥ sam indra gobhir madhumantam akran |
    tasyāgatyā sumanā ṛṣva pāhi prajānan vidvān pathyā anu svāḥ ||

    इ॒मम् । नरः॑ । पर्व॑ताः । तुभ्य॑म् । आपः॑ । सम् । इ॒न्द्र॒ । गोभिः॑ । मधु॑ऽमन्तम् । अ॒क्र॒न् ।
    तस्य॑ । आ॒ऽगत्य॑ । सु॒ऽमनाः॑ । ऋ॒ष्व॒ । पा॒हि॒ । प्र॒ऽजा॒नन् । वि॒द्वान् । प॒थ्याः॑ । अनु॑ । स्वाः ॥

    इमम् । नरः । पर्वताः । तुभ्यम् । आपः । सम् । इन्द्र । गोभिः । मधुऽमन्तम् । अक्रन् ।
    तस्य । आऽगत्य । सुऽमनाः । ऋष्व । पाहि । प्रऽजानन् । विद्वान् । पथ्याः । अनु । स्वाः ॥

    imám ǀ náraḥ ǀ párvatāḥ ǀ túbhyam ǀ ā́paḥ ǀ sám ǀ indra ǀ góbhiḥ ǀ mádhu-mantam ǀ akran ǀ
    tásya ǀ ā-gátya ǀ su-mánāḥ ǀ ṛṣva ǀ pāhi ǀ pra-jānán ǀ vidvā́n ǀ pathyā́ḥ ǀ ánu ǀ svā́ḥ ǁ

    imam ǀ naraḥ ǀ parvatāḥ ǀ tubhyam ǀ āpaḥ ǀ sam ǀ indra ǀ gobhiḥ ǀ madhu-mantam ǀ akran ǀ
    tasya ǀ ā-gatya ǀ su-manāḥ ǀ ṛṣva ǀ pāhi ǀ pra-jānan ǀ vidvān ǀ pathyāḥ ǀ anu ǀ svāḥ ǁ

    3.35.8 Aṣṭaka 3.2.18.3Anuvāka 3.3.93

  9. Ṛk 9

    याँ आभ॑जो म॒रुत॑ इंद्र॒ सोमे॒ ये त्वामव॑र्ध॒न्नभ॑वन्ग॒णस्ते॑ ।
    तेभि॑रे॒तं स॒जोषा॑ वावशा॒नो॒३॒॑ऽग्नेः पि॑ब जि॒ह्वया॒ सोम॑मिंद्र ॥

    यां आभजो मरुत इन्द्र सोमे ये त्वाम् अवर्धन्न् अभवन् गणस् ते |
    तेभिर् एतं सजोषा वावशानो ऽग्नेः पिब जिह्वया सोमम् इन्द्र ||

    yā́m̐ ā́bhajo marúta indra sóme yé tvā́mávardhannábhavangaṇáste ǀ
    tébhiretám sajóṣā vāvaśāno’gnéḥ piba jihváyā sómamindra ǁ

    yāṃ ābhajo maruta indra some ye tvām avardhann abhavan gaṇas te |
    tebhir etaṃ sajoṣā vāvaśāno 'gneḥ piba jihvayā somam indra ||

    यान् । आ । अभ॑जः । म॒रुतः॑ । इ॒न्द्र॒ । सोमे॑ । ये । त्वाम् । अव॑र्धन् । अभ॑वन् । ग॒णः । ते॒ ।
    तेभिः॑ । ए॒तम् । स॒ऽजोषाः॑ । वा॒व॒शा॒नः । अ॒ग्नेः । पि॒ब॒ । जि॒ह्वया॑ । सोम॑म् । इ॒न्द्र॒ ॥

    यान् । आ । अभजः । मरुतः । इन्द्र । सोमे । ये । त्वाम् । अवर्धन् । अभवन् । गणः । ते ।
    तेभिः । एतम् । सऽजोषाः । वावशानः । अग्नेः । पिब । जिह्वया । सोमम् । इन्द्र ॥

    yā́n ǀ ā́ ǀ ábhajaḥ ǀ marútaḥ ǀ indra ǀ sóme ǀ yé ǀ tvā́m ǀ ávardhan ǀ ábhavan ǀ gaṇáḥ ǀ te ǀ
    tébhiḥ ǀ etám ǀ sa-jóṣāḥ ǀ vāvaśānáḥ ǀ agnéḥ ǀ piba ǀ jihváyā ǀ sómam ǀ indra ǁ

    yān ǀ ā ǀ abhajaḥ ǀ marutaḥ ǀ indra ǀ some ǀ ye ǀ tvām ǀ avardhan ǀ abhavan ǀ gaṇaḥ ǀ te ǀ
    tebhiḥ ǀ etam ǀ sa-joṣāḥ ǀ vāvaśānaḥ ǀ agneḥ ǀ piba ǀ jihvayā ǀ somam ǀ indra ǁ

    3.35.9 Aṣṭaka 3.2.18.4Anuvāka 3.3.94

  10. Ṛk 10

    इंद्र॒ पिब॑ स्व॒धया॑ चित्सु॒तस्या॒ग्नेर्वा॑ पाहि जि॒ह्वया॑ यजत्र ।
    अ॒ध्व॒र्योर्वा॒ प्रय॑तं शक्र॒ हस्ता॒द्धोतु॑र्वा य॒ज्ञं ह॒विषो॑ जुषस्व ॥

    इन्द्र पिब स्वधया चित् सुतस्याग्नेर् वा पाहि जिह्वया यजत्र |
    अध्वर्योर् वा प्रयतं शक्र हस्ताद् धोतुर् वा यज्ञं हविषो जुषस्व ||

    índra píba svadháyā citsutásyāgnérvā pāhi jihváyā yajatra ǀ
    adhvaryórvā práyatam śakra hástāddhóturvā yajñám havíṣo juṣasva ǁ

    indra piba svadhayā cit sutasyāgner vā pāhi jihvayā yajatra |
    adhvaryor vā prayataṃ śakra hastād dhotur vā yajñaṃ haviṣo juṣasva ||

    इन्द्र॑ । पिब॑ । स्व॒धया॑ । चि॒त् । सु॒तस्य॑ । अ॒ग्नेः । वा॒ । पा॒हि॒ । जि॒ह्वया॑ । य॒ज॒त्र॒ ।
    अ॒ध्व॒र्योः । वा॒ । प्रऽय॑तम् । श॒क्र॒ । हस्ता॑त् । होतुः॑ । वा॒ । य॒ज्ञम् । ह॒विषः॑ । जु॒ष॒स्व॒ ॥

    इन्द्र । पिब । स्वधया । चित् । सुतस्य । अग्नेः । वा । पाहि । जिह्वया । यजत्र ।
    अध्वर्योः । वा । प्रऽयतम् । शक्र । हस्तात् । होतुः । वा । यज्ञम् । हविषः । जुषस्व ॥

    índra ǀ píba ǀ svadháyā ǀ cit ǀ sutásya ǀ agnéḥ ǀ vā ǀ pāhi ǀ jihváyā ǀ yajatra ǀ
    adhvaryóḥ ǀ vā ǀ prá-yatam ǀ śakra ǀ hástāt ǀ hótuḥ ǀ vā ǀ yajñám ǀ havíṣaḥ ǀ juṣasva ǁ

    indra ǀ piba ǀ svadhayā ǀ cit ǀ sutasya ǀ agneḥ ǀ vā ǀ pāhi ǀ jihvayā ǀ yajatra ǀ
    adhvaryoḥ ǀ vā ǀ pra-yatam ǀ śakra ǀ hastāt ǀ hotuḥ ǀ vā ǀ yajñam ǀ haviṣaḥ ǀ juṣasva ǁ

    3.35.10 Aṣṭaka 3.2.18.5Anuvāka 3.3.95

  11. Ṛk 11

    शु॒नं हु॑वेम म॒घवा॑न॒मिंद्र॑म॒स्मिन्भरे॒ नृत॑मं॒ वाज॑सातौ ।
    शृ॒ण्वंत॑मु॒ग्रमू॒तये॑ स॒मत्सु॒ घ्नंतं॑ वृ॒त्राणि॑ सं॒जितं॒ धना॑नां ॥

    शुनं हुवेम मघवानम् इन्द्रम् अस्मिन् भरे नृतमं वाजसातौ |
    शृण्वन्तम् उग्रम् ऊतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ||

    śunám huvema maghávānamíndramasmínbháre nṛ́tamam vā́jasātau ǀ
    śṛṇvántamugrámūtáye samátsu ghnántam vṛtrā́ṇi saṃjítam dhánānām ǁ

    śunaṃ huvema maghavānam indram asmin bhare nṛtamaṃ vājasātau |
    śṛṇvantam ugram ūtaye samatsu ghnantaṃ vṛtrāṇi saṃjitaṃ dhanānām ||

    शु॒नम् । हु॒वे॒म॒ । म॒घऽवा॑नम् । इन्द्र॑म् । अ॒स्मिन् । भरे॑ । नृऽत॑मम् । वाज॑ऽसातौ ।
    शृ॒ण्वन्त॑म् । उ॒ग्रम् । ऊ॒तये॑ । स॒मत्ऽसु॑ । घ्नन्त॑म् । वृ॒त्राणि॑ । स॒म्ऽजित॑म् । धना॑नाम् ॥

    शुनम् । हुवेम । मघऽवानम् । इन्द्रम् । अस्मिन् । भरे । नृऽतमम् । वाजऽसातौ ।
    शृण्वन्तम् । उग्रम् । ऊतये । समत्ऽसु । घ्नन्तम् । वृत्राणि । सम्ऽजितम् । धनानाम् ॥

    śunám ǀ huvema ǀ maghá-vānam ǀ índram ǀ asmín ǀ bháre ǀ nṛ́-tamam ǀ vā́ja-sātau ǀ
    śṛṇvántam ǀ ugrám ǀ ūtáye ǀ samát-su ǀ ghnántam ǀ vṛtrā́ṇi ǀ sam-jítam ǀ dhánānām ǁ

    śunam ǀ huvema ǀ magha-vānam ǀ indram ǀ asmin ǀ bhare ǀ nṛ-tamam ǀ vāja-sātau ǀ
    śṛṇvantam ǀ ugram ǀ ūtaye ǀ samat-su ǀ ghnantam ǀ vṛtrāṇi ǀ sam-jitam ǀ dhanānām ǁ

    3.35.11 Aṣṭaka 3.2.18.6Anuvāka 3.3.96

Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 3.35 · Indra

Interpretations

Ralph T. H. Griffith

Ṛk 1

MOUNT the Bay Horses to thy chariot harnessed, and come to us like Vāyu with his coursers. Thou, hastening to us, shalt drink the Soma. Hail, Indra. We have poured it for thy rapture.

Ṛk 2

For him, the God who is invoked by many, the two swift Bay Steeds to the pole I harness, That they in fleet course may bring Indra hither, e’en to this sacrifice arranged completely.

Ṛk 3

Bring the strong Steeds who drink the warm libation, and, Bull of Godlike nature, be thou gracious. Let thy Steeds eat; set free thy Tawny Horses, and roasted grain like this consume thou daily.

Ṛk 4

Those who are yoked by prayer I harness, fleet friendly Bays who take their joy together. Mounting thy firm and easy car, O Indra, wise and all-knowing come thou to the Soma.

Ṛk 5

No other worshippers must stay beside them thy Bays, thy vigorous and smooth-backed Coursers. Pass by them all and hasten onward hither: with Soma pressed we will prepare to feast thee.

Ṛk 6

Thine is this Soma: hasten to approach it. Drink thou thereof, benevolent, and cease not. Sit on the sacred grass at this our worship, and take these drops into thy belly, Indra.

Ṛk 7

The grass is strewn for thee, pressed is the Soma; the grain is ready for thy Bays to feed on. To thee who lovest them, the very mighty, strong, girt by Maruts, are these gifts presented.

Ṛk 8

This the sweet draught, with cows, the men, the mountains, the waters, Indra, have for thee made ready. Come, drink thereof, Sublime One, friendly-minded, foreseeing, knowing well the ways thou goest.

Ṛk 9

The Maruts, they with whom thou sharedst Soma, Indra, who made thee strong and were thine army,— With these accordant, eagerly desirous drink thou this Soma with the tongue of Agni.

Ṛk 10

Drink, Indra, of the juice by thine own nature, or by the tongue of Agni, O thou Holy. Accept the sacrificial gift, O Śakra, from the Adhvaryu's hand or from the Hotar's.