Ṛk 3.35.7
Saṃhitā
स्ती॒र्णं ते॑ ब॒र्हिः सु॒त इं॑द्र॒ सोमः॑ कृ॒ता धा॒ना अत्त॑वे ते॒ हरि॑भ्यां ।
तदो॑कसे पुरु॒शाका॑य॒ वृष्णे॑ म॒रुत्व॑ते॒ तुभ्यं॑ रा॒ता ह॒वींषि॑ ॥
स्तीर्णं ते बर्हिः सुत इन्द्र सोमः कृता धाना अत्तवे ते हरिभ्याम् |
तदोकसे पुरुशाकाय वृष्णे मरुत्वते तुभ्यं राता हवींषि ||
stīrṇám te barhíḥ sutá indra sómaḥ kṛtā́ dhānā́ áttave te háribhyām ǀ
tádokase puruśā́kāya vṛ́ṣṇe marútvate túbhyam rātā́ havī́ṃṣi ǁ
stīrṇaṃ te barhiḥ suta indra somaḥ kṛtā dhānā attave te haribhyām |
tadokase puruśākāya vṛṣṇe marutvate tubhyaṃ rātā havīṃṣi ||
Padapāṭha
स्ती॒र्णम् । ते॒ । ब॒र्हिः । सु॒तः । इ॒न्द्र॒ । सोमः॑ । कृ॒ताः । धा॒नाः । अत्त॑वे । ते॒ । हरि॑ऽभ्याम् ।
तत्ऽओ॑कसे । पु॒रु॒ऽशाका॑य । वृष्णे॑ । म॒रुत्व॑ते । तुभ्य॑म् । रा॒ता । ह॒वींषि॑ ॥
स्तीर्णम् । ते । बर्हिः । सुतः । इन्द्र । सोमः । कृताः । धानाः । अत्तवे । ते । हरिऽभ्याम् ।
तत्ऽओकसे । पुरुऽशाकाय । वृष्णे । मरुत्वते । तुभ्यम् । राता । हवींषि ॥
stīrṇám ǀ te ǀ barhíḥ ǀ sutáḥ ǀ indra ǀ sómaḥ ǀ kṛtā́ḥ ǀ dhānā́ḥ ǀ áttave ǀ te ǀ hári-bhyām ǀ
tát-okase ǀ puru-śā́kāya ǀ vṛ́ṣṇe ǀ marútvate ǀ túbhyam ǀ rātā́ ǀ havī́ṃṣi ǁ
stīrṇam ǀ te ǀ barhiḥ ǀ sutaḥ ǀ indra ǀ somaḥ ǀ kṛtāḥ ǀ dhānāḥ ǀ attave ǀ te ǀ hari-bhyām ǀ
tat-okase ǀ puru-śākāya ǀ vṛṣṇe ǀ marutvate ǀ tubhyam ǀ rātā ǀ havīṃṣi ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 03.035.07
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.2.18.02
- Maṇḍala · Anuvāka · Ṛk
- 03.03.092
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Viśvāmitra Gāthina
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.