Ṛk 3.35.8
Saṃhitā
इ॒मं नरः॒ पर्व॑ता॒स्तुभ्य॒मापः॒ समिं॑द्र॒ गोभि॒र्मधु॑मंतमक्रन् ।
तस्या॒गत्या॑ सु॒मना॑ ऋष्व पाहि प्रजा॒नन्वि॒द्वान्प॒थ्या॒३॒॑ अनु॒ स्वाः ॥
इमं नरः पर्वतास् तुभ्यम् आपः सम् इन्द्र गोभिर् मधुमन्तम् अक्रन् |
तस्यागत्या सुमना ऋष्व पाहि प्रजानन् विद्वान् पथ्या अनु स्वाः ||
imám náraḥ párvatāstúbhyamā́paḥ sámindra góbhirmádhumantamakran ǀ
tásyāgátyā sumánā ṛṣva pāhi prajānánvidvā́npathyā́ ánu svā́ḥ ǁ
imaṃ naraḥ parvatās tubhyam āpaḥ sam indra gobhir madhumantam akran |
tasyāgatyā sumanā ṛṣva pāhi prajānan vidvān pathyā anu svāḥ ||
Padapāṭha
इ॒मम् । नरः॑ । पर्व॑ताः । तुभ्य॑म् । आपः॑ । सम् । इ॒न्द्र॒ । गोभिः॑ । मधु॑ऽमन्तम् । अ॒क्र॒न् ।
तस्य॑ । आ॒ऽगत्य॑ । सु॒ऽमनाः॑ । ऋ॒ष्व॒ । पा॒हि॒ । प्र॒ऽजा॒नन् । वि॒द्वान् । प॒थ्याः॑ । अनु॑ । स्वाः ॥
इमम् । नरः । पर्वताः । तुभ्यम् । आपः । सम् । इन्द्र । गोभिः । मधुऽमन्तम् । अक्रन् ।
तस्य । आऽगत्य । सुऽमनाः । ऋष्व । पाहि । प्रऽजानन् । विद्वान् । पथ्याः । अनु । स्वाः ॥
imám ǀ náraḥ ǀ párvatāḥ ǀ túbhyam ǀ ā́paḥ ǀ sám ǀ indra ǀ góbhiḥ ǀ mádhu-mantam ǀ akran ǀ
tásya ǀ ā-gátya ǀ su-mánāḥ ǀ ṛṣva ǀ pāhi ǀ pra-jānán ǀ vidvā́n ǀ pathyā́ḥ ǀ ánu ǀ svā́ḥ ǁ
imam ǀ naraḥ ǀ parvatāḥ ǀ tubhyam ǀ āpaḥ ǀ sam ǀ indra ǀ gobhiḥ ǀ madhu-mantam ǀ akran ǀ
tasya ǀ ā-gatya ǀ su-manāḥ ǀ ṛṣva ǀ pāhi ǀ pra-jānan ǀ vidvān ǀ pathyāḥ ǀ anu ǀ svāḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 03.035.08
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.2.18.03
- Maṇḍala · Anuvāka · Ṛk
- 03.03.093
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Viśvāmitra Gāthina
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.