Sūkta 12
- Devatā देवता
- Agni, Indra
- Ṛṣi ऋषि
- Viśvāmitra Gāthina
- Chandas छन्दस्
- Gāyatrī
Metres by ṛk
1st set of styles nicṛdgāyatrī (1, 3, 5, 8, 9); gāyatrī (2, 4, 6); yavamadhyāvirāḍgāyatrī (7)
2nd set of styles gāyatrī
-
Ṛk 1
इंद्रा॑ग्नी॒ आ ग॑तं सु॒तं गी॒र्भिर्नभो॒ वरे॑ण्यं ।
अ॒स्य पा॑तं धि॒येषि॒ता ॥इन्द्राग्नी आ गतं सुतं गीर्भिर् नभो वरेण्यम् |
अस्य पातं धियेषिता ||índrāgnī ā́ gatam sutám gīrbhírnábho váreṇyam ǀ
asyá pātam dhiyéṣitā́ ǁindrāgnī ā gataṃ sutaṃ gīrbhir nabho vareṇyam |
asya pātaṃ dhiyeṣitā ||इन्द्रा॑ग्नी॒ इति॑ । आ । ग॒त॒म् । सु॒तम् । गीः॒ऽभिः । नभः॑ । वरे॑ण्यम् ।
अ॒स्य । पा॒त॒म् । धि॒या । इ॒षि॒ता ॥इन्द्राग्नी इति । आ । गतम् । सुतम् । गीःऽभिः । नभः । वरेण्यम् ।
अस्य । पातम् । धिया । इषिता ॥índrāgnī íti ǀ ā́ ǀ gatam ǀ sutám ǀ gīḥ-bhíḥ ǀ nábhaḥ ǀ váreṇyam ǀ
asyá ǀ pātam ǀ dhiyā́ ǀ iṣitā́ ǁindrāgnī iti ǀ ā ǀ gatam ǀ sutam ǀ gīḥ-bhiḥ ǀ nabhaḥ ǀ vareṇyam ǀ
asya ǀ pātam ǀ dhiyā ǀ iṣitā ǁ3.12.1 Aṣṭaka 3.1.11.1Anuvāka 3.1.132
-
Ṛk 2
इंद्रा॑ग्नी जरि॒तुः सचा॑ य॒ज्ञो जि॑गाति॒ चेत॑नः ।
अ॒या पा॑तमि॒मं सु॒तं ॥इन्द्राग्नी जरितुः सचा यज्ञो जिगाति चेतनः |
अया पातम् इमं सुतम् ||índrāgnī jaritúḥ sácā yajñó jigāti cétanaḥ ǀ
ayā́ pātamimám sutám ǁindrāgnī jarituḥ sacā yajño jigāti cetanaḥ |
ayā pātam imaṃ sutam ||इन्द्रा॑ग्नी॒ इति॑ । ज॒रि॒तुः । सचा॑ । य॒ज्ञः । जि॒गा॒ति॒ । चेत॑नः ।
अ॒या । पा॒त॒म् । इ॒मम् । सु॒तम् ॥इन्द्राग्नी इति । जरितुः । सचा । यज्ञः । जिगाति । चेतनः ।
अया । पातम् । इमम् । सुतम् ॥índrāgnī íti ǀ jaritúḥ ǀ sácā ǀ yajñáḥ ǀ jigāti ǀ cétanaḥ ǀ
ayā́ ǀ pātam ǀ imám ǀ sutám ǁindrāgnī iti ǀ jarituḥ ǀ sacā ǀ yajñaḥ ǀ jigāti ǀ cetanaḥ ǀ
ayā ǀ pātam ǀ imam ǀ sutam ǁ3.12.2 Aṣṭaka 3.1.11.2Anuvāka 3.1.133
-
Ṛk 3
इंद्र॑म॒ग्निं क॑वि॒च्छदा॑ य॒ज्ञस्य॑ जू॒त्या वृ॑णे ।
ता सोम॑स्ये॒ह तृं॑पतां ॥इन्द्रम् अग्निं कविच्छदा यज्ञस्य जूत्या वृणे |
ता सोमस्येह तृम्पताम् ||índramagním kavicchádā yajñásya jūtyā́ vṛṇe ǀ
tā́ sómasyehá tṛmpatām ǁindram agniṃ kavicchadā yajñasya jūtyā vṛṇe |
tā somasyeha tṛmpatām ||इन्द्र॑म् । अ॒ग्निम् । क॒वि॒ऽछदा॑ । य॒ज्ञस्य॑ । जू॒त्या । वृ॒णे॒ ।
ता । सोम॑स्य । इ॒ह । तृ॒म्प॒ता॒म् ॥इन्द्रम् । अग्निम् । कविऽछदा । यज्ञस्य । जूत्या । वृणे ।
ता । सोमस्य । इह । तृम्पताम् ॥índram ǀ agním ǀ kavi-chádā ǀ yajñásya ǀ jūtyā́ ǀ vṛṇe ǀ
tā́ ǀ sómasya ǀ ihá ǀ tṛmpatām ǁindram ǀ agnim ǀ kavi-chadā ǀ yajñasya ǀ jūtyā ǀ vṛṇe ǀ
tā ǀ somasya ǀ iha ǀ tṛmpatām ǁ3.12.3 Aṣṭaka 3.1.11.3Anuvāka 3.1.134
-
Ṛk 4
तो॒शा वृ॑त्र॒हणा॑ हुवे स॒जित्वा॒नाप॑राजिता ।
इं॒द्रा॒ग्नी वा॑ज॒सात॑मा ॥तोशा वृत्रहणा हुवे सजित्वानापराजिता |
इन्द्राग्नी वाजसातमा ||tośā́ vṛtraháṇā huve sajítvānā́parājitā ǀ
indrāgnī́ vājasā́tamā ǁtośā vṛtrahaṇā huve sajitvānāparājitā |
indrāgnī vājasātamā ||तो॒शा । वृ॒त्र॒ऽहना॑ । हु॒वे॒ । स॒ऽजित्वा॑ना । अप॑राऽजिता ।
इ॒न्द्रा॒ग्नी इति॑ । वा॒ज॒ऽसात॑मा ॥तोशा । वृत्रऽहना । हुवे । सऽजित्वाना । अपराऽजिता ।
इन्द्राग्नी इति । वाजऽसातमा ॥tośā́ ǀ vṛtra-hánā ǀ huve ǀ sa-jítvānā ǀ áparā-jitā ǀ
indrāgnī́ íti ǀ vāja-sā́tamā ǁtośā ǀ vṛtra-hanā ǀ huve ǀ sa-jitvānā ǀ aparā-jitā ǀ
indrāgnī iti ǀ vāja-sātamā ǁ3.12.4 Aṣṭaka 3.1.11.4Anuvāka 3.1.135
-
Ṛk 5
प्र वा॑मर्चंत्यु॒क्थिनो॑ नीथा॒विदो॑ जरि॒तारः॑ ।
इंद्रा॑ग्नी॒ इष॒ आ वृ॑णे ॥प्र वाम् अर्चन्त्य् उक्थिनो नीथाविदो जरितारः |
इन्द्राग्नी इष आ वृणे ||prá vāmarcantyukthíno nīthāvído jaritā́raḥ ǀ
índrāgnī íṣa ā́ vṛṇe ǁpra vām arcanty ukthino nīthāvido jaritāraḥ |
indrāgnī iṣa ā vṛṇe ||प्र । वा॒म् । अ॒र्च॒न्ति॒ । उ॒क्थिनः॑ । नी॒थ॒ऽविदः॑ । ज॒रि॒तारः॑ ।
इन्द्रा॑ग्नी॒ इति॑ । इषः॑ । आ । वृ॒णे॒ ॥प्र । वाम् । अर्चन्ति । उक्थिनः । नीथऽविदः । जरितारः ।
इन्द्राग्नी इति । इषः । आ । वृणे ॥prá ǀ vām ǀ arcanti ǀ ukthínaḥ ǀ nītha-vídaḥ ǀ jaritā́raḥ ǀ
índrāgnī íti ǀ íṣaḥ ǀ ā́ ǀ vṛṇe ǁpra ǀ vām ǀ arcanti ǀ ukthinaḥ ǀ nītha-vidaḥ ǀ jaritāraḥ ǀ
indrāgnī iti ǀ iṣaḥ ǀ ā ǀ vṛṇe ǁ3.12.5 Aṣṭaka 3.1.11.5Anuvāka 3.1.136
-
Ṛk 6
इंद्रा॑ग्नी नव॒तिं पुरो॑ दा॒सप॑त्नीरधूनुतं ।
सा॒कमेके॑न॒ कर्म॑णा ॥इन्द्राग्नी नवतिम् पुरो दासपत्नीर् अधूनुतम् |
साकम् एकेन कर्मणा ||índrāgnī navatím púro dāsápatnīradhūnutam ǀ
sākámékena kármaṇā ǁindrāgnī navatim puro dāsapatnīr adhūnutam |
sākam ekena karmaṇā ||इन्द्रा॑ग्नी॒ इति॑ । न॒व॒तिम् । पुरः॑ । दा॒सऽप॑त्नीः । अ॒धू॒नु॒त॒म् ।
सा॒कम् । एके॑न । कर्म॑णा ॥इन्द्राग्नी इति । नवतिम् । पुरः । दासऽपत्नीः । अधूनुतम् ।
साकम् । एकेन । कर्मणा ॥índrāgnī íti ǀ navatím ǀ púraḥ ǀ dāsá-patnīḥ ǀ adhūnutam ǀ
sākám ǀ ékena ǀ kármaṇā ǁindrāgnī iti ǀ navatim ǀ puraḥ ǀ dāsa-patnīḥ ǀ adhūnutam ǀ
sākam ǀ ekena ǀ karmaṇā ǁ3.12.6 Aṣṭaka 3.1.12.1Anuvāka 3.1.137
-
Ṛk 7
इंद्रा॑ग्नी॒ अप॑स॒स्पर्युप॒ प्र यं॑ति धी॒तयः॑ ।
ऋ॒तस्य॑ प॒थ्या॒३॒॑ अनु॑ ॥इन्द्राग्नी अपसस् पर्य् उप प्र यन्ति धीतयः |
ऋतस्य पथ्या अनु ||índrāgnī ápasaspáryúpa prá yanti dhītáyaḥ ǀ
ṛtásya pathyā́ ánu ǁindrāgnī apasas pary upa pra yanti dhītayaḥ |
ṛtasya pathyā anu ||इन्द्रा॑ग्नी॒ इति॑ । अप॑सः । परि॑ । उप॑ । प्र । य॒न्ति॒ । धी॒तयः॑ ।
ऋ॒तस्य॑ । प॒थ्याः॑ । अनु॑ ॥इन्द्राग्नी इति । अपसः । परि । उप । प्र । यन्ति । धीतयः ।
ऋतस्य । पथ्याः । अनु ॥índrāgnī íti ǀ ápasaḥ ǀ pári ǀ úpa ǀ prá ǀ yanti ǀ dhītáyaḥ ǀ
ṛtásya ǀ pathyā́ḥ ǀ ánu ǁindrāgnī iti ǀ apasaḥ ǀ pari ǀ upa ǀ pra ǀ yanti ǀ dhītayaḥ ǀ
ṛtasya ǀ pathyāḥ ǀ anu ǁ3.12.7 Aṣṭaka 3.1.12.2Anuvāka 3.1.138
-
Ṛk 8
इंद्रा॑ग्नी तवि॒षाणि॑ वां स॒धस्था॑नि॒ प्रयां॑सि च ।
यु॒वोर॒प्तूर्यं॑ हि॒तं ॥इन्द्राग्नी तविषाणि वां सधस्थानि प्रयांसि च |
युवोर् अप्तूर्यं हितम् ||índrāgnī taviṣā́ṇi vām sadhásthāni práyāṃsi ca ǀ
yuvóraptū́ryam hitám ǁindrāgnī taviṣāṇi vāṃ sadhasthāni prayāṃsi ca |
yuvor aptūryaṃ hitam ||इन्द्रा॑ग्नी॒ इति॑ । त॒वि॒षाणि॑ । वा॒म् । स॒धऽस्था॑नि । प्रयां॑सि । च॒ ।
यु॒वोः । अ॒प्ऽतूर्य॑म् । हि॒तम् ॥इन्द्राग्नी इति । तविषाणि । वाम् । सधऽस्थानि । प्रयांसि । च ।
युवोः । अप्ऽतूर्यम् । हितम् ॥índrāgnī íti ǀ taviṣā́ṇi ǀ vām ǀ sadhá-sthāni ǀ práyāṃsi ǀ ca ǀ
yuvóḥ ǀ ap-tū́ryam ǀ hitám ǁindrāgnī iti ǀ taviṣāṇi ǀ vām ǀ sadha-sthāni ǀ prayāṃsi ǀ ca ǀ
yuvoḥ ǀ ap-tūryam ǀ hitam ǁ3.12.8 Aṣṭaka 3.1.12.3Anuvāka 3.1.139
-
Ṛk 9
इंद्रा॑ग्नी रोच॒ना दि॒वः परि॒ वाजे॑षु भूषथः ।
तद्वां॑ चेति॒ प्र वी॒र्यं॑ ॥इन्द्राग्नी रोचना दिवः परि वाजेषु भूषथः |
तद् वां चेति प्र वीर्यम् ||índrāgnī rocanā́ diváḥ pári vā́jeṣu bhūṣathaḥ ǀ
tádvām ceti prá vīryám ǁindrāgnī rocanā divaḥ pari vājeṣu bhūṣathaḥ |
tad vāṃ ceti pra vīryam ||इन्द्रा॑ग्नी॒ इति॑ । रो॒च॒ना । दि॒वः । परि॑ । वाजे॑षु । भू॒ष॒थः॒ ।
तत् । वा॒म् । चे॒ति॒ । प्र । वी॒र्य॑म् ॥इन्द्राग्नी इति । रोचना । दिवः । परि । वाजेषु । भूषथः ।
तत् । वाम् । चेति । प्र । वीर्यम् ॥índrāgnī íti ǀ rocanā́ ǀ diváḥ ǀ pári ǀ vā́jeṣu ǀ bhūṣathaḥ ǀ
tát ǀ vām ǀ ceti ǀ prá ǀ vīryám ǁindrāgnī iti ǀ rocanā ǀ divaḥ ǀ pari ǀ vājeṣu ǀ bhūṣathaḥ ǀ
tat ǀ vām ǀ ceti ǀ pra ǀ vīryam ǁ3.12.9 Aṣṭaka 3.1.12.4Anuvāka 3.1.140
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.