Ṛk 3.12.1
Saṃhitā
इंद्रा॑ग्नी॒ आ ग॑तं सु॒तं गी॒र्भिर्नभो॒ वरे॑ण्यं ।
अ॒स्य पा॑तं धि॒येषि॒ता ॥
इन्द्राग्नी आ गतं सुतं गीर्भिर् नभो वरेण्यम् |
अस्य पातं धियेषिता ||
índrāgnī ā́ gatam sutám gīrbhírnábho váreṇyam ǀ
asyá pātam dhiyéṣitā́ ǁ
indrāgnī ā gataṃ sutaṃ gīrbhir nabho vareṇyam |
asya pātaṃ dhiyeṣitā ||
Padapāṭha
इन्द्रा॑ग्नी॒ इति॑ । आ । ग॒त॒म् । सु॒तम् । गीः॒ऽभिः । नभः॑ । वरे॑ण्यम् ।
अ॒स्य । पा॒त॒म् । धि॒या । इ॒षि॒ता ॥
इन्द्राग्नी इति । आ । गतम् । सुतम् । गीःऽभिः । नभः । वरेण्यम् ।
अस्य । पातम् । धिया । इषिता ॥
índrāgnī íti ǀ ā́ ǀ gatam ǀ sutám ǀ gīḥ-bhíḥ ǀ nábhaḥ ǀ váreṇyam ǀ
asyá ǀ pātam ǀ dhiyā́ ǀ iṣitā́ ǁ
indrāgnī iti ǀ ā ǀ gatam ǀ sutam ǀ gīḥ-bhiḥ ǀ nabhaḥ ǀ vareṇyam ǀ
asya ǀ pātam ǀ dhiyā ǀ iṣitā ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 03.012.01
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.1.11.01
- Maṇḍala · Anuvāka · Ṛk
- 03.01.132
- Devatā देवता
- Agni, Indra
- Ṛṣi ऋषि
- Viśvāmitra Gāthina
- Chandas छन्दस्
- Gāyatrī
- Svara स्वरः
- षड्जः
Text and interpretations from the Ṛgveda database of theveda.org.in.