Sūkta 39
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Viśvāmitra Gāthina
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles nicṛttriṣṭup (3-7); virāṭtrisṭup (1, 9); bhurikpaṅkti (2, 8)
2nd set of styles triṣṭubh
-
Ṛk 1
इंद्रं॑ म॒तिर्हृ॒द आ व॒च्यमा॒नाच्छा॒ पतिं॒ स्तोम॑तष्टा जिगाति ।
या जागृ॑विर्वि॒दथे॑ श॒स्यमा॒नेंद्र॒ यत्ते॒ जाय॑ते वि॒द्धि तस्य॑ ॥इन्द्रम् मतिर् हृद आ वच्यमानाच्छा पतिं स्तोमतष्टा जिगाति |
या जागृविर् विदथे शस्यमानेन्द्र यत् ते जायते विद्धि तस्य ||índram matírhṛdá ā́ vacyámānā́cchā pátim stómataṣṭā jigāti ǀ
yā́ jā́gṛvirvidáthe śasyámānéndra yátte jā́yate viddhí tásya ǁindram matir hṛda ā vacyamānācchā patiṃ stomataṣṭā jigāti |
yā jāgṛvir vidathe śasyamānendra yat te jāyate viddhi tasya ||इन्द्र॑म् । म॒तिः । हृ॒दः । आ । व॒च्यमा॑ना । अच्छ॑ । पति॑म् । स्तोम॑ऽतष्टा । जि॒गा॒ति॒ ।
या । जागृ॑विः । वि॒दथे॑ । श॒स्यमा॑ना । इन्द्र॑ । यत् । ते॒ । जाय॑ते । वि॒द्धि । तस्य॑ ॥इन्द्रम् । मतिः । हृदः । आ । वच्यमाना । अच्छ । पतिम् । स्तोमऽतष्टा । जिगाति ।
या । जागृविः । विदथे । शस्यमाना । इन्द्र । यत् । ते । जायते । विद्धि । तस्य ॥índram ǀ matíḥ ǀ hṛdáḥ ǀ ā́ ǀ vacyámānā ǀ áccha ǀ pátim ǀ stóma-taṣṭā ǀ jigāti ǀ
yā́ ǀ jā́gṛviḥ ǀ vidáthe ǀ śasyámānā ǀ índra ǀ yát ǀ te ǀ jā́yate ǀ viddhí ǀ tásya ǁindram ǀ matiḥ ǀ hṛdaḥ ǀ ā ǀ vacyamānā ǀ accha ǀ patim ǀ stoma-taṣṭā ǀ jigāti ǀ
yā ǀ jāgṛviḥ ǀ vidathe ǀ śasyamānā ǀ indra ǀ yat ǀ te ǀ jāyate ǀ viddhi ǀ tasya ǁ3.39.1 Aṣṭaka 3.2.25.1Anuvāka 3.4.1
-
Ṛk 2
दि॒वश्चि॒दा पू॒र्व्या जाय॑माना॒ वि जागृ॑विर्वि॒दथे॑ श॒स्यमा॑ना ।
भ॒द्रा वस्त्रा॒ण्यर्जु॑ना॒ वसा॑ना॒ सेयम॒स्मे स॑न॒जा पित्र्या॒ धीः ॥दिवश् चिद् आ पूर्व्या जायमाना वि जागृविर् विदथे शस्यमाना |
भद्रा वस्त्राण्य् अर्जुना वसाना सेयम् अस्मे सनजा पित्र्या धीः ||diváścidā́ pūrvyā́ jā́yamānā ví jā́gṛvirvidáthe śasyámānā ǀ
bhadrā́ vástrāṇyárjunā vásānā séyámasmé sanajā́ pítryā dhī́ḥ ǁdivaś cid ā pūrvyā jāyamānā vi jāgṛvir vidathe śasyamānā |
bhadrā vastrāṇy arjunā vasānā seyam asme sanajā pitryā dhīḥ ||दि॒वः । चि॒त् । आ । पू॒र्व्या । जाय॑माना । वि । जागृ॑विः । वि॒दथे॑ । श॒स्यमा॑ना ।
भ॒द्रा । वस्त्रा॑णि । अर्जु॑ना । वसा॑ना । सा । इ॒यम् । अ॒स्मे इति॑ । स॒न॒ऽजा । पित्र्या॑ । धीः ॥दिवः । चित् । आ । पूर्व्या । जायमाना । वि । जागृविः । विदथे । शस्यमाना ।
भद्रा । वस्त्राणि । अर्जुना । वसाना । सा । इयम् । अस्मे इति । सनऽजा । पित्र्या । धीः ॥diváḥ ǀ cit ǀ ā́ ǀ pūrvyā́ ǀ jā́yamānā ǀ ví ǀ jā́gṛviḥ ǀ vidáthe ǀ śasyámānā ǀ
bhadrā́ ǀ vástrāṇi ǀ árjunā ǀ vásānā ǀ sā́ ǀ iyám ǀ asmé íti ǀ sana-jā́ ǀ pítryā ǀ dhī́ḥ ǁdivaḥ ǀ cit ǀ ā ǀ pūrvyā ǀ jāyamānā ǀ vi ǀ jāgṛviḥ ǀ vidathe ǀ śasyamānā ǀ
bhadrā ǀ vastrāṇi ǀ arjunā ǀ vasānā ǀ sā ǀ iyam ǀ asme iti ǀ sana-jā ǀ pitryā ǀ dhīḥ ǁ3.39.2 Aṣṭaka 3.2.25.2Anuvāka 3.4.2
-
Ṛk 3
य॒मा चि॒दत्र॑ यम॒सूर॑सूत जि॒ह्वाया॒ अग्रं॒ पत॒दा ह्यस्था॑त् ।
वपूं॑षि जा॒ता मि॑थु॒ना स॑चेते तमो॒हना॒ तपु॑षो बु॒ध्न एता॑ ॥यमा चिद् अत्र यमसूर् असूत जिह्वाया अग्रम् पतद् आ ह्य् अस्थात् |
वपूंषि जाता मिथुना सचेते तमोहना तपुषो बुध्न एता ||yamā́ cidátra yamasū́rasūta jihvā́yā ágram pátadā́ hyásthāt ǀ
vápūṃṣi jātā́ mithunā́ sacete tamohánā tápuṣo budhná étā ǁyamā cid atra yamasūr asūta jihvāyā agram patad ā hy asthāt |
vapūṃṣi jātā mithunā sacete tamohanā tapuṣo budhna etā ||य॒मा । चि॒त् । अत्र॑ । य॒म॒ऽसूः । अ॒सू॒त॒ । जि॒ह्वायाः॑ । अग्र॑म् । पत॑त् । आ । हि । अस्था॑त् ।
वपूं॑षि । जा॒ता । मि॒थु॒ना । स॒चे॒ते॒ इति॑ । त॒मः॒ऽहना॑ । तपु॑षः । बु॒ध्ने । आऽइ॑ता ॥यमा । चित् । अत्र । यमऽसूः । असूत । जिह्वायाः । अग्रम् । पतत् । आ । हि । अस्थात् ।
वपूंषि । जाता । मिथुना । सचेते इति । तमःऽहना । तपुषः । बुध्ने । आऽइता ॥yamā́ ǀ cit ǀ átra ǀ yama-sū́ḥ ǀ asūta ǀ jihvā́yāḥ ǀ ágram ǀ pátat ǀ ā́ ǀ hí ǀ ásthāt ǀ
vápūṃṣi ǀ jātā́ ǀ mithunā́ ǀ sacete íti ǀ tamaḥ-hánā ǀ tápuṣaḥ ǀ budhné ǀ ā́-itā ǁyamā ǀ cit ǀ atra ǀ yama-sūḥ ǀ asūta ǀ jihvāyāḥ ǀ agram ǀ patat ǀ ā ǀ hi ǀ asthāt ǀ
vapūṃṣi ǀ jātā ǀ mithunā ǀ sacete iti ǀ tamaḥ-hanā ǀ tapuṣaḥ ǀ budhne ǀ ā-itā ǁ3.39.3 Aṣṭaka 3.2.25.3Anuvāka 3.4.3
-
Ṛk 4
नकि॑रेषां निंदि॒ता मर्त्ये॑षु॒ ये अ॒स्माकं॑ पि॒तरो॒ गोषु॑ यो॒धाः ।
इंद्र॑ एषां दृंहि॒ता माहि॑नावा॒नुद्गो॒त्राणि॑ ससृजे दं॒सना॑वान् ॥नकिर् एषां निन्दिता मर्त्येषु ये अस्माकम् पितरो गोषु योधाः |
इन्द्र एषां दृंहिता माहिनावान् उद् गोत्राणि ससृजे दंसनावान् ||nákireṣām ninditā́ mártyeṣu yé asmā́kam pitáro góṣu yodhā́ḥ ǀ
índra eṣām dṛṃhitā́ mā́hināvānúdgotrā́ṇi sasṛje daṃsánāvān ǁnakir eṣāṃ ninditā martyeṣu ye asmākam pitaro goṣu yodhāḥ |
indra eṣāṃ dṛṃhitā māhināvān ud gotrāṇi sasṛje daṃsanāvān ||नकिः॑ । ए॒षा॒म् । नि॒न्दि॒ता । मर्त्ये॑षु । ये । अ॒स्माक॑म् । पि॒तरः॑ । गोषु॑ । यो॒धाः ।
इन्द्रः॑ । ए॒षा॒म् । दृं॒हि॒ता । माहि॑नऽवान् । उत् । गो॒त्राणि॑ । स॒सृ॒जे॒ । दं॒सना॑ऽवान् ॥नकिः । एषाम् । निन्दिता । मर्त्येषु । ये । अस्माकम् । पितरः । गोषु । योधाः ।
इन्द्रः । एषाम् । दृंहिता । माहिनऽवान् । उत् । गोत्राणि । ससृजे । दंसनाऽवान् ॥nákiḥ ǀ eṣām ǀ ninditā́ ǀ mártyeṣu ǀ yé ǀ asmā́kam ǀ pitáraḥ ǀ góṣu ǀ yodhā́ḥ ǀ
índraḥ ǀ eṣām ǀ dṛṃhitā́ ǀ mā́hina-vān ǀ út ǀ gotrā́ṇi ǀ sasṛje ǀ daṃsánā-vān ǁnakiḥ ǀ eṣām ǀ ninditā ǀ martyeṣu ǀ ye ǀ asmākam ǀ pitaraḥ ǀ goṣu ǀ yodhāḥ ǀ
indraḥ ǀ eṣām ǀ dṛṃhitā ǀ māhina-vān ǀ ut ǀ gotrāṇi ǀ sasṛje ǀ daṃsanā-vān ǁ3.39.4 Aṣṭaka 3.2.25.4Anuvāka 3.4.4
-
Ṛk 5
सखा॑ ह॒ यत्र॒ सखि॑भि॒र्नव॑ग्वैरभि॒ज्ञ्वा सत्व॑भि॒र्गा अ॑नु॒ग्मन् ।
स॒त्यं तदिंद्रो॑ द॒शभि॒र्दश॑ग्वैः॒ सूर्यं॑ विवेद॒ तम॑सि क्षि॒यंतं॑ ॥सखा ह यत्र सखिभिर् नवग्वैर् अभिज्ञ्व् आ सत्वभिर् गा अनुग्मन् |
सत्यं तद् इन्द्रो दशभिर् दशग्वैः सूर्यं विवेद तमसि क्षियन्तम् ||sákhā ha yátra sákhibhirnávagvairabhijñvā́ sátvabhirgā́ anugmán ǀ
satyám tádíndro daśábhirdáśagvaiḥ sū́ryam viveda támasi kṣiyántam ǁsakhā ha yatra sakhibhir navagvair abhijñv ā satvabhir gā anugman |
satyaṃ tad indro daśabhir daśagvaiḥ sūryaṃ viveda tamasi kṣiyantam ||सखा॑ । ह॒ । यत्र॑ । सखि॑ऽभिः । नव॑ऽग्वैः । अ॒भि॒ऽज्ञु । आ । सत्व॑ऽभिः । गाः । अ॒नु॒ऽग्मन् ।
स॒त्यम् । तत् । इन्द्रः॑ । द॒शऽभिः॑ । दश॑ऽग्वैः । सूर्य॑म् । वि॒वे॒द॒ । तम॑सि । क्षि॒यन्त॑म् ॥सखा । ह । यत्र । सखिऽभिः । नवऽग्वैः । अभिऽज्ञु । आ । सत्वऽभिः । गाः । अनुऽग्मन् ।
सत्यम् । तत् । इन्द्रः । दशऽभिः । दशऽग्वैः । सूर्यम् । विवेद । तमसि । क्षियन्तम् ॥sákhā ǀ ha ǀ yátra ǀ sákhi-bhiḥ ǀ náva-gvaiḥ ǀ abhi-jñú ǀ ā́ ǀ sátva-bhiḥ ǀ gā́ḥ ǀ anu-gmán ǀ
satyám ǀ tát ǀ índraḥ ǀ daśá-bhiḥ ǀ dáśa-gvaiḥ ǀ sū́ryam ǀ viveda ǀ támasi ǀ kṣiyántam ǁsakhā ǀ ha ǀ yatra ǀ sakhi-bhiḥ ǀ nava-gvaiḥ ǀ abhi-jñu ǀ ā ǀ satva-bhiḥ ǀ gāḥ ǀ anu-gman ǀ
satyam ǀ tat ǀ indraḥ ǀ daśa-bhiḥ ǀ daśa-gvaiḥ ǀ sūryam ǀ viveda ǀ tamasi ǀ kṣiyantam ǁ3.39.5 Aṣṭaka 3.2.25.5Anuvāka 3.4.5
-
Ṛk 6
इंद्रो॒ मधु॒ संभृ॑तमु॒स्रिया॑यां प॒द्वद्वि॑वेद श॒फव॒न्नमे॒ गोः ।
गुहा॑ हि॒तं गुह्यं॑ गू॒ळ्हम॒प्सु हस्ते॑ दधे॒ दक्षि॑णे॒ दक्षि॑णावान् ॥इन्द्रो मधु सम्भृतम् उस्रियायाम् पद्वद् विवेद शफवन् नमे गोः |
गुहा हितं गुह्यं गूऌहम् अप्सु हस्ते दधे दक्षिणे दक्षिणावान् ||índro mádhu sámbhṛtamusríyāyām padvádviveda śaphávannáme góḥ ǀ
gúhā hitám gúhyam gūḷhámapsú háste dadhe dákṣiṇe dákṣiṇāvān ǁindro madhu sambhṛtam usriyāyām padvad viveda śaphavan name goḥ |
guhā hitaṃ guhyaṃ gūḷham apsu haste dadhe dakṣiṇe dakṣiṇāvān ||इन्द्रः॑ । मधु॑ । सम्ऽभृ॑तम् । उ॒स्रिया॑याम् । प॒त्ऽवत् । वि॒वे॒द॒ । श॒फऽव॑त् । नमे॑ । गोः ।
गुहा॑ । हि॒तम् । गुह्य॑म् । गू॒ळ्हम् । अ॒प्ऽसु । हस्ते॑ । द॒धे॒ । दक्षि॑णे । दक्षि॑णऽवान् ॥इन्द्रः । मधु । सम्ऽभृतम् । उस्रियायाम् । पत्ऽवत् । विवेद । शफऽवत् । नमे । गोः ।
गुहा । हितम् । गुह्यम् । गूळ्हम् । अप्ऽसु । हस्ते । दधे । दक्षिणे । दक्षिणऽवान् ॥índraḥ ǀ mádhu ǀ sám-bhṛtam ǀ usríyāyām ǀ pat-vát ǀ viveda ǀ śaphá-vat ǀ náme ǀ góḥ ǀ
gúhā ǀ hitám ǀ gúhyam ǀ gūḷhám ǀ ap-sú ǀ háste ǀ dadhe ǀ dákṣiṇe ǀ dákṣiṇa-vān ǁindraḥ ǀ madhu ǀ sam-bhṛtam ǀ usriyāyām ǀ pat-vat ǀ viveda ǀ śapha-vat ǀ name ǀ goḥ ǀ
guhā ǀ hitam ǀ guhyam ǀ gūḷham ǀ ap-su ǀ haste ǀ dadhe ǀ dakṣiṇe ǀ dakṣiṇa-vān ǁ3.39.6 Aṣṭaka 3.2.26.1Anuvāka 3.4.6
-
Ṛk 7
ज्योति॑र्वृणीत॒ तम॑सो विजा॒नन्ना॒रे स्या॑म दुरि॒ताद॒भीके॑ ।
इ॒मा गिरः॑ सोमपाः सोमवृद्ध जु॒षस्वें॑द्र पुरु॒तम॑स्य का॒रोः ॥ज्योतिर् वृणीत तमसो विजानन्न् आरे स्याम दुरिताद् अभीके |
इमा गिरः सोमपाः सोमवृद्ध जुषस्वेन्द्र पुरुतमस्य कारोः ||jyótirvṛṇīta támaso vijānánnāré syāma duritā́dabhī́ke ǀ
imā́ gíraḥ somapāḥ somavṛddha juṣásvendra purutámasya kāróḥ ǁjyotir vṛṇīta tamaso vijānann āre syāma duritād abhīke |
imā giraḥ somapāḥ somavṛddha juṣasvendra purutamasya kāroḥ ||ज्योतिः॑ । वृ॒णी॒त॒ । तम॑सः । वि॒ऽजा॒नन् । आ॒रे । स्या॒म॒ । दुः॒ऽइ॒तात् । अ॒भीके॑ ।
इ॒माः । गिरः॑ । सो॒म॒ऽपाः॒ । सो॒म॒ऽवृ॒द्ध॒ । जु॒षस्व॑ । इ॒न्द्र॒ । पु॒रु॒ऽतम॑स्य । का॒रोः ॥ज्योतिः । वृणीत । तमसः । विऽजानन् । आरे । स्याम । दुःऽइतात् । अभीके ।
इमाः । गिरः । सोमऽपाः । सोमऽवृद्ध । जुषस्व । इन्द्र । पुरुऽतमस्य । कारोः ॥jyótiḥ ǀ vṛṇīta ǀ támasaḥ ǀ vi-jānán ǀ āré ǀ syāma ǀ duḥ-itā́t ǀ abhī́ke ǀ
imā́ḥ ǀ gíraḥ ǀ soma-pāḥ ǀ soma-vṛddha ǀ juṣásva ǀ indra ǀ puru-támasya ǀ kāróḥ ǁjyotiḥ ǀ vṛṇīta ǀ tamasaḥ ǀ vi-jānan ǀ āre ǀ syāma ǀ duḥ-itāt ǀ abhīke ǀ
imāḥ ǀ giraḥ ǀ soma-pāḥ ǀ soma-vṛddha ǀ juṣasva ǀ indra ǀ puru-tamasya ǀ kāroḥ ǁ3.39.7 Aṣṭaka 3.2.26.2Anuvāka 3.4.7
-
Ṛk 8
ज्योति॑र्य॒ज्ञाय॒ रोद॑सी॒ अनु॑ ष्यादा॒रे स्या॑म दुरि॒तस्य॒ भूरेः॑ ।
भूरि॑ चि॒द्धि तु॑ज॒तो मर्त्य॑स्य सुपा॒रासो॑ वसवो ब॒र्हणा॑वत् ॥ज्योतिर् यज्ञाय रोदसी अनु ष्याद् आरे स्याम दुरितस्य भूरेः |
भूरि चिद् धि तुजतो मर्त्यस्य सुपारासो वसवो बर्हणावत् ||jyótiryajñā́ya ródasī ánu ṣyādāré syāma duritásya bhū́reḥ ǀ
bhū́ri ciddhí tujató mártyasya supārā́so vasavo barháṇāvat ǁjyotir yajñāya rodasī anu ṣyād āre syāma duritasya bhūreḥ |
bhūri cid dhi tujato martyasya supārāso vasavo barhaṇāvat ||ज्योतिः॑ । य॒ज्ञाय॑ । रोद॑सी॒ इति॑ । अनु॑ । स्या॒त् । आ॒रे । स्या॒म॒ । दुः॒ऽइ॒तस्य॑ । भूरेः॑ ।
भूरि॑ । चि॒त् । हि । तु॒ज॒तः । मर्त्य॑स्य । सु॒ऽपा॒रासः॑ । व॒स॒वः॒ । ब॒र्हणा॑ऽवत् ॥ज्योतिः । यज्ञाय । रोदसी इति । अनु । स्यात् । आरे । स्याम । दुःऽइतस्य । भूरेः ।
भूरि । चित् । हि । तुजतः । मर्त्यस्य । सुऽपारासः । वसवः । बर्हणाऽवत् ॥jyótiḥ ǀ yajñā́ya ǀ ródasī íti ǀ ánu ǀ syāt ǀ āré ǀ syāma ǀ duḥ-itásya ǀ bhū́reḥ ǀ
bhū́ri ǀ cit ǀ hí ǀ tujatáḥ ǀ mártyasya ǀ su-pārā́saḥ ǀ vasavaḥ ǀ barháṇā-vat ǁjyotiḥ ǀ yajñāya ǀ rodasī iti ǀ anu ǀ syāt ǀ āre ǀ syāma ǀ duḥ-itasya ǀ bhūreḥ ǀ
bhūri ǀ cit ǀ hi ǀ tujataḥ ǀ martyasya ǀ su-pārāsaḥ ǀ vasavaḥ ǀ barhaṇā-vat ǁ3.39.8 Aṣṭaka 3.2.26.3Anuvāka 3.4.8
-
Ṛk 9
शु॒नं हु॑वेम म॒घवा॑न॒मिंद्र॑म॒स्मिन्भरे॒ नृत॑मं॒ वाज॑सातौ ।
शृ॒ण्वंत॑मु॒ग्रमू॒तये॑ स॒मत्सु॒ घ्नंतं॑ वृ॒त्राणि॑ सं॒जितं॒ धना॑नां ॥शुनं हुवेम मघवानम् इन्द्रम् अस्मिन् भरे नृतमं वाजसातौ |
शृण्वन्तम् उग्रम् ऊतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ||śunám huvema maghávānamíndramasmínbháre nṛ́tamam vā́jasātau ǀ
śṛṇvántamugrámūtáye samátsu ghnántam vṛtrā́ṇi saṃjítam dhánānām ǁśunaṃ huvema maghavānam indram asmin bhare nṛtamaṃ vājasātau |
śṛṇvantam ugram ūtaye samatsu ghnantaṃ vṛtrāṇi saṃjitaṃ dhanānām ||शु॒नम् । हु॒वे॒म॒ । म॒घऽवा॑नम् । इन्द्र॑म् । अ॒स्मिन् । भरे॑ । नृऽत॑मम् । वाज॑ऽसातौ ।
शृ॒ण्वन्त॑म् । उ॒ग्रम् । ऊ॒तये॑ । स॒मत्ऽसु॑ । घ्नन्त॑म् । वृ॒त्राणि॑ । स॒म्ऽजित॑म् । धना॑नाम् ॥शुनम् । हुवेम । मघऽवानम् । इन्द्रम् । अस्मिन् । भरे । नृऽतमम् । वाजऽसातौ ।
शृण्वन्तम् । उग्रम् । ऊतये । समत्ऽसु । घ्नन्तम् । वृत्राणि । सम्ऽजितम् । धनानाम् ॥śunám ǀ huvema ǀ maghá-vānam ǀ índram ǀ asmín ǀ bháre ǀ nṛ́-tamam ǀ vā́ja-sātau ǀ
śṛṇvántam ǀ ugrám ǀ ūtáye ǀ samát-su ǀ ghnántam ǀ vṛtrā́ṇi ǀ sam-jítam ǀ dhánānām ǁśunam ǀ huvema ǀ magha-vānam ǀ indram ǀ asmin ǀ bhare ǀ nṛ-tamam ǀ vāja-sātau ǀ
śṛṇvantam ǀ ugram ǀ ūtaye ǀ samat-su ǀ ghnantam ǀ vṛtrāṇi ǀ sam-jitam ǀ dhanānām ǁ3.39.9 Aṣṭaka 3.2.26.4Anuvāka 3.4.9
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.