Ṛk 3.39.4
Saṃhitā
नकि॑रेषां निंदि॒ता मर्त्ये॑षु॒ ये अ॒स्माकं॑ पि॒तरो॒ गोषु॑ यो॒धाः ।
इंद्र॑ एषां दृंहि॒ता माहि॑नावा॒नुद्गो॒त्राणि॑ ससृजे दं॒सना॑वान् ॥
नकिर् एषां निन्दिता मर्त्येषु ये अस्माकम् पितरो गोषु योधाः |
इन्द्र एषां दृंहिता माहिनावान् उद् गोत्राणि ससृजे दंसनावान् ||
nákireṣām ninditā́ mártyeṣu yé asmā́kam pitáro góṣu yodhā́ḥ ǀ
índra eṣām dṛṃhitā́ mā́hināvānúdgotrā́ṇi sasṛje daṃsánāvān ǁ
nakir eṣāṃ ninditā martyeṣu ye asmākam pitaro goṣu yodhāḥ |
indra eṣāṃ dṛṃhitā māhināvān ud gotrāṇi sasṛje daṃsanāvān ||
Padapāṭha
नकिः॑ । ए॒षा॒म् । नि॒न्दि॒ता । मर्त्ये॑षु । ये । अ॒स्माक॑म् । पि॒तरः॑ । गोषु॑ । यो॒धाः ।
इन्द्रः॑ । ए॒षा॒म् । दृं॒हि॒ता । माहि॑नऽवान् । उत् । गो॒त्राणि॑ । स॒सृ॒जे॒ । दं॒सना॑ऽवान् ॥
नकिः । एषाम् । निन्दिता । मर्त्येषु । ये । अस्माकम् । पितरः । गोषु । योधाः ।
इन्द्रः । एषाम् । दृंहिता । माहिनऽवान् । उत् । गोत्राणि । ससृजे । दंसनाऽवान् ॥
nákiḥ ǀ eṣām ǀ ninditā́ ǀ mártyeṣu ǀ yé ǀ asmā́kam ǀ pitáraḥ ǀ góṣu ǀ yodhā́ḥ ǀ
índraḥ ǀ eṣām ǀ dṛṃhitā́ ǀ mā́hina-vān ǀ út ǀ gotrā́ṇi ǀ sasṛje ǀ daṃsánā-vān ǁ
nakiḥ ǀ eṣām ǀ ninditā ǀ martyeṣu ǀ ye ǀ asmākam ǀ pitaraḥ ǀ goṣu ǀ yodhāḥ ǀ
indraḥ ǀ eṣām ǀ dṛṃhitā ǀ māhina-vān ǀ ut ǀ gotrāṇi ǀ sasṛje ǀ daṃsanā-vān ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 03.039.04
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.2.25.04
- Maṇḍala · Anuvāka · Ṛk
- 03.04.004
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Viśvāmitra Gāthina
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.