Sūkta 38
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Viśvāmitra Gāthina Or Prajāpati Vaiśvāmitra Or Prajāpati Vācya
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles nicṛttriṣṭup (2-5, 8, 9); triṣṭup (1, 6, 10); bhurikpaṅkti (7)
2nd set of styles triṣṭubh
-
Ṛk 1
अ॒भि तष्टे॑व दीधया मनी॒षामत्यो॒ न वा॒जी सु॒धुरो॒ जिहा॑नः ।
अ॒भि प्रि॒याणि॒ मर्मृ॑श॒त्परा॑णि क॒वीँरि॑च्छामि सं॒दृशे॑ सुमे॒धाः ॥अभि तष्टेव दीधया मनीषाम् अत्यो न वाजी सुधुरो जिहानः |
अभि प्रियाणि मर्मृशत् पराणि कवींर् इच्छामि संदृशे सुमेधाः ||abhí táṣṭeva dīdhayā manīṣā́mátyo ná vājī́ sudhúro jíhānaḥ ǀ
abhí priyā́ṇi mármṛśatpárāṇi kavī́m̐ricchāmi saṃdṛ́śe sumedhā́ḥ ǁabhi taṣṭeva dīdhayā manīṣām atyo na vājī sudhuro jihānaḥ |
abhi priyāṇi marmṛśat parāṇi kavīṃr icchāmi saṃdṛśe sumedhāḥ ||अ॒भि । तष्टा॑ऽइव । दी॒ध॒य॒ । म॒नी॒षाम् । अत्यः॑ । न । वा॒जी । सु॒ऽधुरः॑ । जिहा॑नः ।
अ॒भि । प्रि॒याणि॑ । मर्मृ॑शत् । परा॑णि । क॒वीन् । इ॒च्छा॒मि॒ । स॒म्ऽदृशे॑ । सु॒ऽमे॒धाः ॥अभि । तष्टाऽइव । दीधय । मनीषाम् । अत्यः । न । वाजी । सुऽधुरः । जिहानः ।
अभि । प्रियाणि । मर्मृशत् । पराणि । कवीन् । इच्छामि । सम्ऽदृशे । सुऽमेधाः ॥abhí ǀ táṣṭā-iva ǀ dīdhaya ǀ manīṣā́m ǀ átyaḥ ǀ ná ǀ vājī́ ǀ su-dhúraḥ ǀ jíhānaḥ ǀ
abhí ǀ priyā́ṇi ǀ mármṛśat ǀ párāṇi ǀ kavī́n ǀ icchāmi ǀ sam-dṛ́śe ǀ su-medhā́ḥ ǁabhi ǀ taṣṭā-iva ǀ dīdhaya ǀ manīṣām ǀ atyaḥ ǀ na ǀ vājī ǀ su-dhuraḥ ǀ jihānaḥ ǀ
abhi ǀ priyāṇi ǀ marmṛśat ǀ parāṇi ǀ kavīn ǀ icchāmi ǀ sam-dṛśe ǀ su-medhāḥ ǁ3.38.1 Aṣṭaka 3.2.23.1Anuvāka 3.3.119
-
Ṛk 2
इ॒नोत पृ॑च्छ॒ जनि॑मा कवी॒नां म॑नो॒धृतः॑ सु॒कृत॑स्तक्षत॒ द्यां ।
इ॒मा उ॑ ते प्र॒ण्यो॒३॒॑ वर्ध॑माना॒ मनो॑वाता॒ अध॒ नु धर्म॑णि ग्मन् ॥इनोत पृच्छ जनिमा कवीनाम् मनोधृतः सुकृतस् तक्षत द्याम् |
इमा उ ते प्रण्यो वर्धमाना मनोवाता अध नु धर्मणि ग्मन् ||inótá pṛccha jánimā kavīnā́m manodhṛ́taḥ sukṛ́tastakṣata dyā́m ǀ
imā́ u te praṇyo várdhamānā mánovātā ádha nú dhármaṇi gman ǁinota pṛccha janimā kavīnām manodhṛtaḥ sukṛtas takṣata dyām |
imā u te praṇyo vardhamānā manovātā adha nu dharmaṇi gman ||इ॒ना । उ॒त । पृ॒च्छ॒ । जनि॑म । क॒वी॒नाम् । म॒नः॒ऽधृतः॑ । सु॒ऽकृतः॑ । त॒क्ष॒त॒ । द्याम् ।
इ॒माः । ऊं॒ इति॑ । ते॒ । प्र॒ऽन्यः॑ । वर्ध॑मानाः । मनः॑ऽवाताः । अध॑ । नु । धर्म॑णि । ग्म॒न् ॥इना । उत । पृच्छ । जनिम । कवीनाम् । मनःऽधृतः । सुऽकृतः । तक्षत । द्याम् ।
इमाः । ऊं इति । ते । प्रऽन्यः । वर्धमानाः । मनःऽवाताः । अध । नु । धर्मणि । ग्मन् ॥inā́ ǀ utá ǀ pṛccha ǀ jánima ǀ kavīnā́m ǀ manaḥ-dhṛ́taḥ ǀ su-kṛ́taḥ ǀ takṣata ǀ dyā́m ǀ
imā́ḥ ǀ ūṃ íti ǀ te ǀ pra-nyáḥ ǀ várdhamānāḥ ǀ mánaḥ-vātāḥ ǀ ádha ǀ nú ǀ dhármaṇi ǀ gman ǁinā ǀ uta ǀ pṛccha ǀ janima ǀ kavīnām ǀ manaḥ-dhṛtaḥ ǀ su-kṛtaḥ ǀ takṣata ǀ dyām ǀ
imāḥ ǀ ūṃ iti ǀ te ǀ pra-nyaḥ ǀ vardhamānāḥ ǀ manaḥ-vātāḥ ǀ adha ǀ nu ǀ dharmaṇi ǀ gman ǁ3.38.2 Aṣṭaka 3.2.23.2Anuvāka 3.3.120
-
Ṛk 3
नि षी॒मिदत्र॒ गुह्या॒ दधा॑ना उ॒त क्ष॒त्राय॒ रोद॑सी॒ समं॑जन् ।
सं मात्रा॑भिर्ममि॒रे ये॒मुरु॒र्वी अं॒तर्म॒ही समृ॑ते॒ धाय॑से धुः ॥नि षीम् इद् अत्र गुह्या दधाना उत क्षत्राय रोदसी सम् अञ्जन् |
सम् मात्राभिर् ममिरे येमुर् उर्वी अन्तर् मही समृते धायसे धुः ||ní ṣīmídátra gúhyā dádhānā utá kṣatrā́ya ródasī sámañjan ǀ
sám mā́trābhirmamiré yemúrurvī́ antármahī́ sámṛte dhā́yase dhuḥ ǁni ṣīm id atra guhyā dadhānā uta kṣatrāya rodasī sam añjan |
sam mātrābhir mamire yemur urvī antar mahī samṛte dhāyase dhuḥ ||नि । सी॒म् । इत् । अत्र॑ । गुह्या॑ । दधा॑नाः । उ॒त । क्ष॒त्राय॑ । रोद॑सी॒ इति॑ । सम् । अ॒ञ्ज॒न् ।
सम् । मात्रा॑भिः । म॒मि॒रे । ये॒मुः । उ॒र्वी इति॑ । अ॒न्तः । म॒ही इति॑ । समृ॑ते॒ इति॒ सम्ऽऋ॑ते । धाय॑से । धु॒रिति॑ धुः ॥नि । सीम् । इत् । अत्र । गुह्या । दधानाः । उत । क्षत्राय । रोदसी इति । सम् । अञ्जन् ।
सम् । मात्राभिः । ममिरे । येमुः । उर्वी इति । अन्तः । मही इति । समृते इति सम्ऽऋते । धायसे । धुरिति धुः ॥ní ǀ sīm ǀ ít ǀ átra ǀ gúhyā ǀ dádhānāḥ ǀ utá ǀ kṣatrā́ya ǀ ródasī íti ǀ sám ǀ añjan ǀ
sám ǀ mā́trābhiḥ ǀ mamiré ǀ yemúḥ ǀ urvī́ íti ǀ antáḥ ǀ mahī́ íti ǀ sámṛte íti sám-ṛte ǀ dhā́yase ǀ dhuríti dhuḥ ǁni ǀ sīm ǀ it ǀ atra ǀ guhyā ǀ dadhānāḥ ǀ uta ǀ kṣatrāya ǀ rodasī iti ǀ sam ǀ añjan ǀ
sam ǀ mātrābhiḥ ǀ mamire ǀ yemuḥ ǀ urvī iti ǀ antaḥ ǀ mahī iti ǀ samṛte iti sam-ṛte ǀ dhāyase ǀ dhuriti dhuḥ ǁ3.38.3 Aṣṭaka 3.2.23.3Anuvāka 3.3.121
-
Ṛk 4
आ॒तिष्ठं॑तं॒ परि॒ विश्वे॑ अभूषं॒छ्रियो॒ वसा॑नश्चरति॒ स्वरो॑चिः ।
म॒हत्तद्वृष्णो॒ असु॑रस्य॒ नामा वि॒श्वरू॑पो अ॒मृता॑नि तस्थौ ॥आतिष्ठन्तम् परि विश्वे अभूषञ् छ्रियो वसानश् चरति स्वरोचिः |
महत् तद् वृष्णो असुरस्य नामा विश्वरूपो अमृतानि तस्थौ ||ātíṣṭhantam pári víśve abhūṣañchríyo vásānaścarati svárociḥ ǀ
maháttádvṛ́ṣṇo ásurasya nā́mā́ viśvárūpo amṛ́tāni tasthau ǁātiṣṭhantam pari viśve abhūṣañ chriyo vasānaś carati svarociḥ |
mahat tad vṛṣṇo asurasya nāmā viśvarūpo amṛtāni tasthau ||आ॒ऽतिष्ठ॑न्तम् । परि॑ । विश्वे॑ । अ॒भू॒ष॒न् । श्रियः॑ । वसा॑नः । च॒र॒ति॒ । स्वऽरो॑चिः ।
म॒हत् । तत् । वृष्णः॑ । असु॑रस्य । नाम॑ । आ । वि॒श्वऽरू॑पः । अ॒मृता॑नि । त॒स्थौ॒ ॥आऽतिष्ठन्तम् । परि । विश्वे । अभूषन् । श्रियः । वसानः । चरति । स्वऽरोचिः ।
महत् । तत् । वृष्णः । असुरस्य । नाम । आ । विश्वऽरूपः । अमृतानि । तस्थौ ॥ā-tíṣṭhantam ǀ pári ǀ víśve ǀ abhūṣan ǀ śríyaḥ ǀ vásānaḥ ǀ carati ǀ svá-rociḥ ǀ
mahát ǀ tát ǀ vṛ́ṣṇaḥ ǀ ásurasya ǀ nā́ma ǀ ā́ ǀ viśvá-rūpaḥ ǀ amṛ́tāni ǀ tasthau ǁā-tiṣṭhantam ǀ pari ǀ viśve ǀ abhūṣan ǀ śriyaḥ ǀ vasānaḥ ǀ carati ǀ sva-rociḥ ǀ
mahat ǀ tat ǀ vṛṣṇaḥ ǀ asurasya ǀ nāma ǀ ā ǀ viśva-rūpaḥ ǀ amṛtāni ǀ tasthau ǁ3.38.4 Aṣṭaka 3.2.23.4Anuvāka 3.3.122
-
Ṛk 5
असू॑त॒ पूर्वो॑ वृष॒भो ज्याया॑नि॒मा अ॑स्य शु॒रुधः॑ संति पू॒र्वीः ।
दिवो॑ नपाता वि॒दथ॑स्य धी॒भिः क्ष॒त्रं रा॑जाना प्र॒दिवो॑ दधाथे ॥असूत पूर्वो वृषभो ज्यायान् इमा अस्य शुरुधः सन्ति पूर्वीः |
दिवो नपाता विदथस्य धीभिः क्षत्रं राजाना प्रदिवो दधाथे ||ásūta pū́rvo vṛṣabhó jyā́yānimā́ asya śurúdhaḥ santi pūrvī́ḥ ǀ
dívo napātā vidáthasya dhībhíḥ kṣatrám rājānā pradívo dadhāthe ǁasūta pūrvo vṛṣabho jyāyān imā asya śurudhaḥ santi pūrvīḥ |
divo napātā vidathasya dhībhiḥ kṣatraṃ rājānā pradivo dadhāthe ||असू॑त । पूर्वः॑ । वृ॒ष॒भः । ज्याया॑न् । इ॒माः । अ॒स्य॒ । शु॒रुधः॑ । स॒न्ति॒ । पू॒र्वीः ।
दिवः॑ । न॒पा॒ता॒ । वि॒दथ॑स्य । धी॒भिः । क्ष॒त्रम् । रा॒जा॒ना॒ । प्र॒ऽदिवः॑ । द॒धा॒थे॒ इति॑ ॥असूत । पूर्वः । वृषभः । ज्यायान् । इमाः । अस्य । शुरुधः । सन्ति । पूर्वीः ।
दिवः । नपाता । विदथस्य । धीभिः । क्षत्रम् । राजाना । प्रऽदिवः । दधाथे इति ॥ásūta ǀ pū́rvaḥ ǀ vṛṣabháḥ ǀ jyā́yān ǀ imā́ḥ ǀ asya ǀ śurúdhaḥ ǀ santi ǀ pūrvī́ḥ ǀ
dívaḥ ǀ napātā ǀ vidáthasya ǀ dhībhíḥ ǀ kṣatrám ǀ rājānā ǀ pra-dívaḥ ǀ dadhāthe íti ǁasūta ǀ pūrvaḥ ǀ vṛṣabhaḥ ǀ jyāyān ǀ imāḥ ǀ asya ǀ śurudhaḥ ǀ santi ǀ pūrvīḥ ǀ
divaḥ ǀ napātā ǀ vidathasya ǀ dhībhiḥ ǀ kṣatram ǀ rājānā ǀ pra-divaḥ ǀ dadhāthe iti ǁ3.38.5 Aṣṭaka 3.2.23.5Anuvāka 3.3.123
-
Ṛk 6
त्रीणि॑ राजाना वि॒दथे॑ पु॒रूणि॒ परि॒ विश्वा॑नि भूषथः॒ सदां॑सि ।
अप॑श्य॒मत्र॒ मन॑सा जग॒न्वान्व्र॒ते गं॑ध॒र्वाँ अपि॑ वा॒युके॑शान् ॥त्रीणि राजाना विदथे पुरूणि परि विश्वानि भूषथः सदांसि |
अपश्यम् अत्र मनसा जगन्वान् व्रते गन्धर्वां अपि वायुकेशान् ||trī́ṇi rājānā vidáthe purū́ṇi pári víśvāni bhūṣathaḥ sádāṃsi ǀ
ápaśyamátra mánasā jaganvā́nvraté gandharvā́m̐ ápi vāyúkeśān ǁtrīṇi rājānā vidathe purūṇi pari viśvāni bhūṣathaḥ sadāṃsi |
apaśyam atra manasā jaganvān vrate gandharvāṃ api vāyukeśān ||त्रीणि॑ । रा॒जा॒ना॒ । वि॒दथे॑ । पु॒रूणि॑ । परि॑ । विश्वा॑नि । भू॒ष॒थः॒ । सदां॑सि ।
अप॑श्यम् । अत्र॑ । मन॑सा । ज॒ग॒न्वान् । व्र॒ते । ग॒न्ध॒र्वान् । अपि॑ । वा॒युऽके॑शान् ॥त्रीणि । राजाना । विदथे । पुरूणि । परि । विश्वानि । भूषथः । सदांसि ।
अपश्यम् । अत्र । मनसा । जगन्वान् । व्रते । गन्धर्वान् । अपि । वायुऽकेशान् ॥trī́ṇi ǀ rājānā ǀ vidáthe ǀ purū́ṇi ǀ pári ǀ víśvāni ǀ bhūṣathaḥ ǀ sádāṃsi ǀ
ápaśyam ǀ átra ǀ mánasā ǀ jaganvā́n ǀ vraté ǀ gandharvā́n ǀ ápi ǀ vāyú-keśān ǁtrīṇi ǀ rājānā ǀ vidathe ǀ purūṇi ǀ pari ǀ viśvāni ǀ bhūṣathaḥ ǀ sadāṃsi ǀ
apaśyam ǀ atra ǀ manasā ǀ jaganvān ǀ vrate ǀ gandharvān ǀ api ǀ vāyu-keśān ǁ3.38.6 Aṣṭaka 3.2.24.1Anuvāka 3.3.124
-
Ṛk 7
तदिन्न्व॑स्य वृष॒भस्य॑ धे॒नोरा नाम॑भिर्ममिरे॒ सक्म्यं॒ गोः ।
अ॒न्यद॑न्यदसु॒र्यं१॒॑ वसा॑ना॒ नि मा॒यिनो॑ ममिरे रू॒पम॑स्मिन् ॥तद् इन् न्व् अस्य वृषभस्य धेनोर् आ नामभिर् ममिरे सक्म्यं गोः |
अन्यद्-अन्यद् असुर्यं वसाना नि मायिनो ममिरे रूपम् अस्मिन् ||tádínnvásya vṛṣabhásya dhenórā́ nā́mabhirmamire sákmyam góḥ ǀ
anyádanyadasuryám vásānā ní māyíno mamire rūpámasmin ǁtad in nv asya vṛṣabhasya dhenor ā nāmabhir mamire sakmyaṃ goḥ |
anyad-anyad asuryaṃ vasānā ni māyino mamire rūpam asmin ||तत् । इत् । नु । अ॒स्य॒ । वृ॒ष॒भस्य॑ । धे॒नोः । आ । नाम॑ऽभिः । म॒मि॒रे॒ । सक्म्य॑म् । गोः ।
अ॒न्यत्ऽअ॑न्यत् । अ॒सु॒र्य॑म् । वसा॑नाः । नि । मा॒यिनः॑ । म॒मि॒रे॒ । रू॒पम् । अ॒स्मि॒न् ॥तत् । इत् । नु । अस्य । वृषभस्य । धेनोः । आ । नामऽभिः । ममिरे । सक्म्यम् । गोः ।
अन्यत्ऽअन्यत् । असुर्यम् । वसानाः । नि । मायिनः । ममिरे । रूपम् । अस्मिन् ॥tát ǀ ít ǀ nú ǀ asya ǀ vṛṣabhásya ǀ dhenóḥ ǀ ā́ ǀ nā́ma-bhiḥ ǀ mamire ǀ sákmyam ǀ góḥ ǀ
anyát-anyat ǀ asuryám ǀ vásānāḥ ǀ ní ǀ māyínaḥ ǀ mamire ǀ rūpám ǀ asmin ǁtat ǀ it ǀ nu ǀ asya ǀ vṛṣabhasya ǀ dhenoḥ ǀ ā ǀ nāma-bhiḥ ǀ mamire ǀ sakmyam ǀ goḥ ǀ
anyat-anyat ǀ asuryam ǀ vasānāḥ ǀ ni ǀ māyinaḥ ǀ mamire ǀ rūpam ǀ asmin ǁ3.38.7 Aṣṭaka 3.2.24.2Anuvāka 3.3.125
-
Ṛk 8
तदिन्न्व॑स्य सवि॒तुर्नकि॑र्मे हिर॒ण्ययी॑म॒मतिं॒ यामशि॑श्रेत् ।
आ सु॑ष्टु॒ती रोद॑सी विश्वमि॒न्वे अपी॑व॒ योषा॒ जनि॑मानि वव्रे ॥तद् इन् न्व् अस्य सवितुर् नकिर् मे हिरण्ययीम् अमतिं याम् अशिश्रेत् |
आ सुष्टुती रोदसी विश्वमिन्वे अपीव योषा जनिमानि वव्रे ||tádínnvásya savitúrnákirme hiraṇyáyīmamátim yā́máśiśret ǀ
ā́ suṣṭutī́ ródasī viśvaminvé ápīva yóṣā jánimāni vavre ǁtad in nv asya savitur nakir me hiraṇyayīm amatiṃ yām aśiśret |
ā suṣṭutī rodasī viśvaminve apīva yoṣā janimāni vavre ||तत् । इत् । नु । अ॒स्य॒ । स॒वि॒तुः । नकिः॑ । मे॒ । हि॒र॒ण्ययी॑म् । अ॒मति॑म् । याम् । अशि॑श्रेत् ।
आ । सु॒ऽस्तु॒ती । रोद॑सी॒ इति॑ । वि॒श्व॒मि॒न्वे इति॑ वि॒श्व॒म्ऽइ॒न्वे । अपि॑ऽइव । योषा॑ । जनि॑मानि । व॒व्रे॒ ॥तत् । इत् । नु । अस्य । सवितुः । नकिः । मे । हिरण्ययीम् । अमतिम् । याम् । अशिश्रेत् ।
आ । सुऽस्तुती । रोदसी इति । विश्वमिन्वे इति विश्वम्ऽइन्वे । अपिऽइव । योषा । जनिमानि । वव्रे ॥tát ǀ ít ǀ nú ǀ asya ǀ savitúḥ ǀ nákiḥ ǀ me ǀ hiraṇyáyīm ǀ amátim ǀ yā́m ǀ áśiśret ǀ
ā́ ǀ su-stutī́ ǀ ródasī íti ǀ viśvaminvé íti viśvam-invé ǀ ápi-iva ǀ yóṣā ǀ jánimāni ǀ vavre ǁtat ǀ it ǀ nu ǀ asya ǀ savituḥ ǀ nakiḥ ǀ me ǀ hiraṇyayīm ǀ amatim ǀ yām ǀ aśiśret ǀ
ā ǀ su-stutī ǀ rodasī iti ǀ viśvaminve iti viśvam-inve ǀ api-iva ǀ yoṣā ǀ janimāni ǀ vavre ǁ3.38.8 Aṣṭaka 3.2.24.3Anuvāka 3.3.126
-
Ṛk 9
यु॒वं प्र॒त्नस्य॑ साधथो म॒हो यद्दैवी॑ स्व॒स्तिः परि॑ णः स्यातं ।
गो॒पाजि॑ह्वस्य त॒स्थुषो॒ विरू॑पा॒ विश्वे॑ पश्यंति मा॒यिनः॑ कृ॒तानि॑ ॥युवम् प्रत्नस्य साधथो महो यद् दैवी स्वस्तिः परि णः स्यातम् |
गोपाजिह्वस्य तस्थुषो विरूपा विश्वे पश्यन्ति मायिनः कृतानि ||yuvám pratnásya sādhatho mahó yáddáivī svastíḥ pári ṇaḥ syātam ǀ
gopā́jihvasya tasthúṣo vírūpā víśve paśyanti māyínaḥ kṛtā́ni ǁyuvam pratnasya sādhatho maho yad daivī svastiḥ pari ṇaḥ syātam |
gopājihvasya tasthuṣo virūpā viśve paśyanti māyinaḥ kṛtāni ||यु॒वम् । प्र॒त्नस्य॑ । सा॒ध॒थः॒ । म॒हः । यत् । दैवी॑ । स्व॒स्तिः । परि॑ । नः॒ । स्या॒त॒म् ।
गो॒पाजि॑ह्वस्य । त॒स्थुषः॑ । विऽरू॑पा । विश्वे॑ । प॒श्य॒न्ति॒ । मा॒यिनः॑ । कृ॒तानि॑ ॥युवम् । प्रत्नस्य । साधथः । महः । यत् । दैवी । स्वस्तिः । परि । नः । स्यातम् ।
गोपाजिह्वस्य । तस्थुषः । विऽरूपा । विश्वे । पश्यन्ति । मायिनः । कृतानि ॥yuvám ǀ pratnásya ǀ sādhathaḥ ǀ maháḥ ǀ yát ǀ dáivī ǀ svastíḥ ǀ pári ǀ naḥ ǀ syātam ǀ
gopā́jihvasya ǀ tasthúṣaḥ ǀ ví-rūpā ǀ víśve ǀ paśyanti ǀ māyínaḥ ǀ kṛtā́ni ǁyuvam ǀ pratnasya ǀ sādhathaḥ ǀ mahaḥ ǀ yat ǀ daivī ǀ svastiḥ ǀ pari ǀ naḥ ǀ syātam ǀ
gopājihvasya ǀ tasthuṣaḥ ǀ vi-rūpā ǀ viśve ǀ paśyanti ǀ māyinaḥ ǀ kṛtāni ǁ3.38.9 Aṣṭaka 3.2.24.4Anuvāka 3.3.127
-
Ṛk 10
शु॒नं हु॑वेम म॒घवा॑न॒मिंद्र॑म॒स्मिन्भरे॒ नृत॑मं॒ वाज॑सातौ ।
शृ॒ण्वंत॑मु॒ग्रमू॒तये॑ स॒मत्सु॒ घ्नंतं॑ वृ॒त्राणि॑ सं॒जितं॒ धना॑नां ॥शुनं हुवेम मघवानम् इन्द्रम् अस्मिन् भरे नृतमं वाजसातौ |
शृण्वन्तम् उग्रम् ऊतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ||śunám huvema maghávānamíndramasmínbháre nṛ́tamam vā́jasātau ǀ
śṛṇvántamugrámūtáye samátsu ghnántam vṛtrā́ṇi saṃjítam dhánānām ǁśunaṃ huvema maghavānam indram asmin bhare nṛtamaṃ vājasātau |
śṛṇvantam ugram ūtaye samatsu ghnantaṃ vṛtrāṇi saṃjitaṃ dhanānām ||शु॒नम् । हु॒वे॒म॒ । म॒घऽवा॑नम् । इन्द्र॑म् । अ॒स्मिन् । भरे॑ । नृऽत॑मम् । वाज॑ऽसातौ ।
शृ॒ण्वन्त॑म् । उ॒ग्रम् । ऊ॒तये॑ । स॒मत्ऽसु॑ । घ्नन्त॑म् । वृ॒त्राणि॑ । स॒म्ऽजित॑म् । धना॑नाम् ॥शुनम् । हुवेम । मघऽवानम् । इन्द्रम् । अस्मिन् । भरे । नृऽतमम् । वाजऽसातौ ।
शृण्वन्तम् । उग्रम् । ऊतये । समत्ऽसु । घ्नन्तम् । वृत्राणि । सम्ऽजितम् । धनानाम् ॥śunám ǀ huvema ǀ maghá-vānam ǀ índram ǀ asmín ǀ bháre ǀ nṛ́-tamam ǀ vā́ja-sātau ǀ
śṛṇvántam ǀ ugrám ǀ ūtáye ǀ samát-su ǀ ghnántam ǀ vṛtrā́ṇi ǀ sam-jítam ǀ dhánānām ǁśunam ǀ huvema ǀ magha-vānam ǀ indram ǀ asmin ǀ bhare ǀ nṛ-tamam ǀ vāja-sātau ǀ
śṛṇvantam ǀ ugram ǀ ūtaye ǀ samat-su ǀ ghnantam ǀ vṛtrāṇi ǀ sam-jitam ǀ dhanānām ǁ3.38.10 Aṣṭaka 3.2.24.5Anuvāka 3.3.128
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.