Ṛgveda · Maṇḍala 3 · Sūkta 38

Ṛk 3.38.10

Indra · Viśvāmitra Gāthina Or Prajāpati Vaiśvāmitra Or Prajāpati Vācya

The whole sūkta Link

Saṃhitā

शु॒नं हु॑वेम म॒घवा॑न॒मिंद्र॑म॒स्मिन्भरे॒ नृत॑मं॒ वाज॑सातौ ।
शृ॒ण्वंत॑मु॒ग्रमू॒तये॑ स॒मत्सु॒ घ्नंतं॑ वृ॒त्राणि॑ सं॒जितं॒ धना॑नां ॥

शुनं हुवेम मघवानम् इन्द्रम् अस्मिन् भरे नृतमं वाजसातौ |
शृण्वन्तम् उग्रम् ऊतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ||

śunám huvema maghávānamíndramasmínbháre nṛ́tamam vā́jasātau ǀ
śṛṇvántamugrámūtáye samátsu ghnántam vṛtrā́ṇi saṃjítam dhánānām ǁ

śunaṃ huvema maghavānam indram asmin bhare nṛtamaṃ vājasātau |
śṛṇvantam ugram ūtaye samatsu ghnantaṃ vṛtrāṇi saṃjitaṃ dhanānām ||

Padapāṭha

शु॒नम् । हु॒वे॒म॒ । म॒घऽवा॑नम् । इन्द्र॑म् । अ॒स्मिन् । भरे॑ । नृऽत॑मम् । वाज॑ऽसातौ ।
शृ॒ण्वन्त॑म् । उ॒ग्रम् । ऊ॒तये॑ । स॒मत्ऽसु॑ । घ्नन्त॑म् । वृ॒त्राणि॑ । स॒म्ऽजित॑म् । धना॑नाम् ॥

शुनम् । हुवेम । मघऽवानम् । इन्द्रम् । अस्मिन् । भरे । नृऽतमम् । वाजऽसातौ ।
शृण्वन्तम् । उग्रम् । ऊतये । समत्ऽसु । घ्नन्तम् । वृत्राणि । सम्ऽजितम् । धनानाम् ॥

śunám ǀ huvema ǀ maghá-vānam ǀ índram ǀ asmín ǀ bháre ǀ nṛ́-tamam ǀ vā́ja-sātau ǀ
śṛṇvántam ǀ ugrám ǀ ūtáye ǀ samát-su ǀ ghnántam ǀ vṛtrā́ṇi ǀ sam-jítam ǀ dhánānām ǁ

śunam ǀ huvema ǀ magha-vānam ǀ indram ǀ asmin ǀ bhare ǀ nṛ-tamam ǀ vāja-sātau ǀ
śṛṇvantam ǀ ugram ǀ ūtaye ǀ samat-su ǀ ghnantam ǀ vṛtrāṇi ǀ sam-jitam ǀ dhanānām ǁ

References

Maṇḍala · Sūkta · Ṛk
03.038.10
Aṣṭaka · Adhyāya · Varga · Ṛk
3.2.24.05
Maṇḍala · Anuvāka · Ṛk
03.03.128
Devatā देवता
Indra
Ṛṣi ऋषि
Viśvāmitra Gāthina Or Prajāpati Vaiśvāmitra Or Prajāpati Vācya
Chandas छन्दस्
Triṣṭubh
Svara स्वरः
धैवतः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 3.38.10

Interpretations

Sāyaṇa

हे इन्द्र वाजसातौ । वाजस्यान्नस्य सातिर्लाभो यस्मिन् सोऽयं वाजसातिः । अस्मिन्भरे । बिभ्रति जयलक्ष्मीमनेन योद्धार इति भरः सङ्ग्रामः । तस्मिन्सङ्ग्रामे शुनं शूनमुत्साहेन प्रवृद्धं । यद्वा शुनमिति सुखनाम । सुखकरं मघवानं धनवन्तं अत एवेन्द्रं निरतिशयैश्वर्यसम्पन्नं नृतमं सर्वस्य जगतोऽतिशयेन नेतारं त्वां हुवेम । कुशिका वयं यज्ञार्थमाह्वयेम । तथा शृण्वन्तमस्माभिः क्रियमाणां स्तुतिं शृण्वन्तमुग्रं शत्रूणां भयङ्करं समत्सु सङ्ग्रामेषु वृत्राणि वृत्रो पलक्शितानि सर्वाणि रक्षांसि घ्नन्तं हिम्सन्तं धनानां शत्रुसम्बन्धिनां सञ्जितं समग्जेतारं त्वामुतये रक्षणाय वयमाह्वयेम ॥ शुनं ॥ टुओश्वि गतिव्रुद्ध्योरित्यस्य निष्थायां यस्य विभाषेतीट् प्रतिषेधः । यजादित्वात्संप्रसारनं । दीर्घाभावश्छान्दसः । प्रत्ययस्वरः । हुवेम । ह्वयतेर्बहुलं छन्दसीति सम्प्रसारणे क्रुते शपो लुकि कृते च लिङि रूपं । निघातः । भरे । भृञ् भरणे । घः । वृषादित्वादाद्युदात्तः । वाजसातौ । षणु दाने । भावे क्तिन् । जनसनेत्यादिनानुनासिकत्यात्वं । बहुव्रीहौ पुर्वपदस्वरः । समत्सु । अद भक्षणे । सम्पूर्वात् क्विप् । सम्भक्षयन्ति योद्धॄणामायूषीति समदः सङ्ग्रामाः । कृदुत्तरपदस्वरः । घन्तं । हन हिंसागत्योरित्यस्य शतरि गमहनेत्यादिनोपधालोपः । हो हन्तेरिति घत्वं । सञ्जितं । जि जये । क्विप् ॥ १० ॥