Ṛk 3.38.7
Saṃhitā
तदिन्न्व॑स्य वृष॒भस्य॑ धे॒नोरा नाम॑भिर्ममिरे॒ सक्म्यं॒ गोः ।
अ॒न्यद॑न्यदसु॒र्यं१॒॑ वसा॑ना॒ नि मा॒यिनो॑ ममिरे रू॒पम॑स्मिन् ॥
तद् इन् न्व् अस्य वृषभस्य धेनोर् आ नामभिर् ममिरे सक्म्यं गोः |
अन्यद्-अन्यद् असुर्यं वसाना नि मायिनो ममिरे रूपम् अस्मिन् ||
tádínnvásya vṛṣabhásya dhenórā́ nā́mabhirmamire sákmyam góḥ ǀ
anyádanyadasuryám vásānā ní māyíno mamire rūpámasmin ǁ
tad in nv asya vṛṣabhasya dhenor ā nāmabhir mamire sakmyaṃ goḥ |
anyad-anyad asuryaṃ vasānā ni māyino mamire rūpam asmin ||
Padapāṭha
तत् । इत् । नु । अ॒स्य॒ । वृ॒ष॒भस्य॑ । धे॒नोः । आ । नाम॑ऽभिः । म॒मि॒रे॒ । सक्म्य॑म् । गोः ।
अ॒न्यत्ऽअ॑न्यत् । अ॒सु॒र्य॑म् । वसा॑नाः । नि । मा॒यिनः॑ । म॒मि॒रे॒ । रू॒पम् । अ॒स्मि॒न् ॥
तत् । इत् । नु । अस्य । वृषभस्य । धेनोः । आ । नामऽभिः । ममिरे । सक्म्यम् । गोः ।
अन्यत्ऽअन्यत् । असुर्यम् । वसानाः । नि । मायिनः । ममिरे । रूपम् । अस्मिन् ॥
tát ǀ ít ǀ nú ǀ asya ǀ vṛṣabhásya ǀ dhenóḥ ǀ ā́ ǀ nā́ma-bhiḥ ǀ mamire ǀ sákmyam ǀ góḥ ǀ
anyát-anyat ǀ asuryám ǀ vásānāḥ ǀ ní ǀ māyínaḥ ǀ mamire ǀ rūpám ǀ asmin ǁ
tat ǀ it ǀ nu ǀ asya ǀ vṛṣabhasya ǀ dhenoḥ ǀ ā ǀ nāma-bhiḥ ǀ mamire ǀ sakmyam ǀ goḥ ǀ
anyat-anyat ǀ asuryam ǀ vasānāḥ ǀ ni ǀ māyinaḥ ǀ mamire ǀ rūpam ǀ asmin ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 03.038.07
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.2.24.02
- Maṇḍala · Anuvāka · Ṛk
- 03.03.125
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Viśvāmitra Gāthina Or Prajāpati Vaiśvāmitra Or Prajāpati Vācya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.