Ṛgveda · Maṇḍala 3

Sūkta 26

Agni Vaiśvānara · Agni, Maruts · Agni Or Ātmastuti Or Parabrahma · Viśvāmitra Himself And The Preceptor · Viśvāmitra Gāthina · 9 ṛks

Link
Devatā देवता
1-3: Agni Vaiśvānara; 4-6: Agni, Maruts; 7, 8: Agni Or Ātmastuti Or Parabrahma; 9: Viśvāmitra Himself And The Preceptor
Ṛṣi ऋषि
Viśvāmitra Gāthina
Chandas छन्दस्
Jagatī, Triṣṭubh
Metres by ṛk

1st set of styles jagatī (1-6); triṣṭup (7-9)

2nd set of styles jagatī (1-6); triṣṭubh (7-9)

  1. Ṛk 1

    वै॒श्वा॒न॒रं मन॑सा॒ग्निं नि॒चाय्या॑ ह॒विष्मं॑तो अनुष॒त्यं स्व॒र्विदं॑ ।
    सु॒दानुं॑ दे॒वं र॑थि॒रं व॑सू॒यवो॑ गी॒र्भी र॒ण्वं कु॑शि॒कासो॑ हवामहे ॥

    वैश्वानरम् मनसाग्निं निचाय्या हविष्मन्तो अनुषत्यं स्वर्विदम् |
    सुदानुं देवं रथिरं वसूयवो गीर्भी रण्वं कुशिकासो हवामहे ||

    vaiśvānarám mánasāgním nicā́yyā havíṣmanto anuṣatyám svarvídam ǀ
    sudā́num devám rathirám vasūyávo gīrbhī́ raṇvám kuśikā́so havāmahe ǁ

    vaiśvānaram manasāgniṃ nicāyyā haviṣmanto anuṣatyaṃ svarvidam |
    sudānuṃ devaṃ rathiraṃ vasūyavo gīrbhī raṇvaṃ kuśikāso havāmahe ||

    वै॒श्वा॒न॒रम् । मन॑सा । अ॒ग्निम् । नि॒ऽचाय्य॑ । ह॒विष्म॑न्तः । अ॒नु॒ऽस॒त्यम् । स्वः॒ऽविद॑म् ।
    सु॒ऽदानु॑म् । दे॒वम् । र॒थि॒रम् । व॒सु॒ऽयवः॑ । गीः॒ऽभिः । र॒ण्वम् । कु॒शि॒कासः॑ । ह॒वा॒म॒हे॒ ॥

    वैश्वानरम् । मनसा । अग्निम् । निऽचाय्य । हविष्मन्तः । अनुऽसत्यम् । स्वःऽविदम् ।
    सुऽदानुम् । देवम् । रथिरम् । वसुऽयवः । गीःऽभिः । रण्वम् । कुशिकासः । हवामहे ॥

    vaiśvānarám ǀ mánasā ǀ agním ǀ ni-cā́yya ǀ havíṣmantaḥ ǀ anu-satyám ǀ svaḥ-vídam ǀ
    su-dā́num ǀ devám ǀ rathirám ǀ vasu-yávaḥ ǀ gīḥ-bhíḥ ǀ raṇvám ǀ kuśikā́saḥ ǀ havāmahe ǁ

    vaiśvānaram ǀ manasā ǀ agnim ǀ ni-cāyya ǀ haviṣmantaḥ ǀ anu-satyam ǀ svaḥ-vidam ǀ
    su-dānum ǀ devam ǀ rathiram ǀ vasu-yavaḥ ǀ gīḥ-bhiḥ ǀ raṇvam ǀ kuśikāsaḥ ǀ havāmahe ǁ

    3.26.1 Aṣṭaka 3.1.26.1Anuvāka 3.2.73

  2. Ṛk 2

    तं शु॒भ्रम॒ग्निमव॑से हवामहे वैश्वान॒रं मा॑त॒रिश्वा॑नमु॒क्थ्यं॑ ।
    बृह॒स्पतिं॒ मनु॑षो दे॒वता॑तये॒ विप्रं॒ श्रोता॑र॒मति॑थिं रघु॒ष्यदं॑ ॥

    तं शुभ्रम् अग्निम् अवसे हवामहे वैश्वानरम् मातरिश्वानम् उक्थ्यम् |
    बृहस्पतिम् मनुषो देवतातये विप्रं श्रोतारम् अतिथिं रघुष्यदम् ||

    tám śubhrámagnímávase havāmahe vaiśvānarám mātaríśvānamukthyám ǀ
    bṛ́haspátim mánuṣo devátātaye vípram śrótāramátithim raghuṣyádam ǁ

    taṃ śubhram agnim avase havāmahe vaiśvānaram mātariśvānam ukthyam |
    bṛhaspatim manuṣo devatātaye vipraṃ śrotāram atithiṃ raghuṣyadam ||

    तम् । शु॒भ्रम् । अ॒ग्निम् । अव॑से । ह॒वा॒म॒हे॒ । वै॒श्वा॒न॒रम् । मा॒त॒रिश्वा॑नम् । उ॒क्थ्य॑म् ।
    बृह॒स्पति॑म् । मनु॑षः । दे॒वऽता॑तये । विप्र॑म् । श्रोता॑रम् । अति॑थिम् । र॒घु॒ऽस्यद॑म् ॥

    तम् । शुभ्रम् । अग्निम् । अवसे । हवामहे । वैश्वानरम् । मातरिश्वानम् । उक्थ्यम् ।
    बृहस्पतिम् । मनुषः । देवऽतातये । विप्रम् । श्रोतारम् । अतिथिम् । रघुऽस्यदम् ॥

    tám ǀ śubhrám ǀ agním ǀ ávase ǀ havāmahe ǀ vaiśvānarám ǀ mātaríśvānam ǀ ukthyám ǀ
    bṛ́haspátim ǀ mánuṣaḥ ǀ devá-tātaye ǀ vípram ǀ śrótāram ǀ átithim ǀ raghu-syádam ǁ

    tam ǀ śubhram ǀ agnim ǀ avase ǀ havāmahe ǀ vaiśvānaram ǀ mātariśvānam ǀ ukthyam ǀ
    bṛhaspatim ǀ manuṣaḥ ǀ deva-tātaye ǀ vipram ǀ śrotāram ǀ atithim ǀ raghu-syadam ǁ

    3.26.2 Aṣṭaka 3.1.26.2Anuvāka 3.2.74

  3. Ṛk 3

    अश्वो॒ न क्रंदं॒जनि॑भिः॒ समि॑ध्यते वैश्वान॒रः कु॑शि॒केभि॑र्यु॒गेयु॑गे ।
    स नो॑ अ॒ग्निः सु॒वीर्यं॒ स्वश्व्यं॒ दधा॑तु॒ रत्न॑म॒मृते॑षु॒ जागृ॑विः ॥

    अश्वो न क्रन्दञ् जनिभिः सम् इध्यते वैश्वानरः कुशिकेभिर् युगे-युगे |
    स नो अग्निः सुवीर्यं स्वश्व्यं दधातु रत्नम् अमृतेषु जागृविः ||

    áśvo ná krándañjánibhiḥ sámidhyate vaiśvānaráḥ kuśikébhiryugéyuge ǀ
    sá no agníḥ suvī́ryam sváśvyam dádhātu rátnamamṛ́teṣu jā́gṛviḥ ǁ

    aśvo na krandañ janibhiḥ sam idhyate vaiśvānaraḥ kuśikebhir yuge-yuge |
    sa no agniḥ suvīryaṃ svaśvyaṃ dadhātu ratnam amṛteṣu jāgṛviḥ ||

    अश्वः॑ । न । क्रन्द॑न् । जनि॑ऽभिः । सम् । इ॒ध्य॒ते॒ । वै॒श्वा॒न॒रः । कु॒शि॒केभिः॑ । यु॒गेऽयु॑गे ।
    सः । नः॒ । अ॒ग्निः । सु॒ऽवीर्य॑म् । सु॒ऽअश्व्य॑म् । दधा॑तु । रत्न॑म् । अ॒मृते॑षु । जागृ॑विः ॥

    अश्वः । न । क्रन्दन् । जनिऽभिः । सम् । इध्यते । वैश्वानरः । कुशिकेभिः । युगेऽयुगे ।
    सः । नः । अग्निः । सुऽवीर्यम् । सुऽअश्व्यम् । दधातु । रत्नम् । अमृतेषु । जागृविः ॥

    áśvaḥ ǀ ná ǀ krándan ǀ jáni-bhiḥ ǀ sám ǀ idhyate ǀ vaiśvānaráḥ ǀ kuśikébhiḥ ǀ yugé-yuge ǀ
    sáḥ ǀ naḥ ǀ agníḥ ǀ su-vī́ryam ǀ su-áśvyam ǀ dádhātu ǀ rátnam ǀ amṛ́teṣu ǀ jā́gṛviḥ ǁ

    aśvaḥ ǀ na ǀ krandan ǀ jani-bhiḥ ǀ sam ǀ idhyate ǀ vaiśvānaraḥ ǀ kuśikebhiḥ ǀ yuge-yuge ǀ
    saḥ ǀ naḥ ǀ agniḥ ǀ su-vīryam ǀ su-aśvyam ǀ dadhātu ǀ ratnam ǀ amṛteṣu ǀ jāgṛviḥ ǁ

    3.26.3 Aṣṭaka 3.1.26.3Anuvāka 3.2.75

  4. Ṛk 4

    प्र यं॑तु॒ वाजा॒स्तवि॑षीभिर॒ग्नयः॑ शु॒भे सम्मि॑श्लाः॒ पृष॑तीरयुक्षत ।
    बृ॒ह॒दुक्षो॑ म॒रुतो॑ वि॒श्ववे॑दसः॒ प्र वे॑पयंति॒ पर्व॑ताँ॒ अदा॑भ्याः ॥

    प्र यन्तु वाजास् तविषीभिर् अग्नयः शुभे सम्मिश्लाः पृषतीर् अयुक्षत |
    बृहदुक्षो मरुतो विश्ववेदसः प्र वेपयन्ति पर्वतां अदाभ्याः ||

    prá yantu vā́jāstáviṣībhiragnáyaḥ śubhé sámmiślāḥ pṛ́ṣatīrayukṣata ǀ
    bṛhadúkṣo marúto viśvávedasaḥ prá vepayanti párvatām̐ ádābhyāḥ ǁ

    pra yantu vājās taviṣībhir agnayaḥ śubhe sammiślāḥ pṛṣatīr ayukṣata |
    bṛhadukṣo maruto viśvavedasaḥ pra vepayanti parvatāṃ adābhyāḥ ||

    प्र । य॒न्तु॒ । वाजाः॑ । तवि॑षीभिः । अ॒ग्नयः॑ । शु॒भे । सम्ऽमि॑श्लाः । पृष॑तीः । अ॒यु॒क्ष॒त॒ ।
    बृ॒ह॒त्ऽउक्षः॑ । म॒रुतः॑ । वि॒श्वऽवे॑दसः । प्र । वे॒प॒य॒न्ति॒ । पर्व॑तान् । अदा॑भ्याः ॥

    प्र । यन्तु । वाजाः । तविषीभिः । अग्नयः । शुभे । सम्ऽमिश्लाः । पृषतीः । अयुक्षत ।
    बृहत्ऽउक्षः । मरुतः । विश्वऽवेदसः । प्र । वेपयन्ति । पर्वतान् । अदाभ्याः ॥

    prá ǀ yantu ǀ vā́jāḥ ǀ táviṣībhiḥ ǀ agnáyaḥ ǀ śubhé ǀ sám-miślāḥ ǀ pṛ́ṣatīḥ ǀ ayukṣata ǀ
    bṛhat-úkṣaḥ ǀ marútaḥ ǀ viśvá-vedasaḥ ǀ prá ǀ vepayanti ǀ párvatān ǀ ádābhyāḥ ǁ

    pra ǀ yantu ǀ vājāḥ ǀ taviṣībhiḥ ǀ agnayaḥ ǀ śubhe ǀ sam-miślāḥ ǀ pṛṣatīḥ ǀ ayukṣata ǀ
    bṛhat-ukṣaḥ ǀ marutaḥ ǀ viśva-vedasaḥ ǀ pra ǀ vepayanti ǀ parvatān ǀ adābhyāḥ ǁ

    3.26.4 Aṣṭaka 3.1.26.4Anuvāka 3.2.76

  5. Ṛk 5

    अ॒ग्नि॒श्रियो॑ म॒रुतो॑ वि॒श्वकृ॑ष्टय॒ आ त्वे॒षमु॒ग्रमव॑ ईमहे व॒यं ।
    ते स्वा॒निनो॑ रु॒द्रिया॑ व॒र्षनि॑र्णिजः सिं॒हा न हे॒षक्र॑तवः सु॒दान॑वः ॥

    अग्निश्रियो मरुतो विश्वकृष्टय आ त्वेषम् उग्रम् अव ईमहे वयम् |
    ते स्वानिनो रुद्रिया वर्षनिर्णिजः सिंहा न हेषक्रतवः सुदानवः ||

    agniśríyo marúto viśvákṛṣṭaya ā́ tveṣámugrámáva īmahe vayám ǀ
    té svāníno rudríyā varṣánirṇijaḥ siṃhā́ ná heṣákratavaḥ sudā́navaḥ ǁ

    agniśriyo maruto viśvakṛṣṭaya ā tveṣam ugram ava īmahe vayam |
    te svānino rudriyā varṣanirṇijaḥ siṃhā na heṣakratavaḥ sudānavaḥ ||

    अ॒ग्नि॒ऽश्रियः॑ । म॒रुतः॑ । वि॒श्वऽकृ॑ष्टयः । आ । त्वे॒षम् । उ॒ग्रम् । अवः॑ । ई॒म॒हे॒ । व॒यम् ।
    ते । स्वा॒निनः॑ । रु॒द्रियाः॑ । व॒र्षऽनि॑र्निजः । सिं॒हाः । न । हे॒षऽक्र॑तवः । सु॒ऽदान॑वः ॥

    अग्निऽश्रियः । मरुतः । विश्वऽकृष्टयः । आ । त्वेषम् । उग्रम् । अवः । ईमहे । वयम् ।
    ते । स्वानिनः । रुद्रियाः । वर्षऽनिर्निजः । सिंहाः । न । हेषऽक्रतवः । सुऽदानवः ॥

    agni-śríyaḥ ǀ marútaḥ ǀ viśvá-kṛṣṭayaḥ ǀ ā́ ǀ tveṣám ǀ ugrám ǀ ávaḥ ǀ īmahe ǀ vayám ǀ
    té ǀ svānínaḥ ǀ rudríyāḥ ǀ varṣá-nirnijaḥ ǀ siṃhā́ḥ ǀ ná ǀ heṣá-kratavaḥ ǀ su-dā́navaḥ ǁ

    agni-śriyaḥ ǀ marutaḥ ǀ viśva-kṛṣṭayaḥ ǀ ā ǀ tveṣam ǀ ugram ǀ avaḥ ǀ īmahe ǀ vayam ǀ
    te ǀ svāninaḥ ǀ rudriyāḥ ǀ varṣa-nirnijaḥ ǀ siṃhāḥ ǀ na ǀ heṣa-kratavaḥ ǀ su-dānavaḥ ǁ

    3.26.5 Aṣṭaka 3.1.26.5Anuvāka 3.2.77

  6. Ṛk 6

    व्रातं॑व्रातं ग॒णंग॑णं सुश॒स्तिभि॑र॒ग्नेर्भामं॑ म॒रुता॒मोज॑ ईमहे ।
    पृष॑दश्वासो अनव॒भ्ररा॑धसो॒ गंता॑रो य॒ज्ञं वि॒दथे॑षु॒ धीराः॑ ॥

    व्रातं-व्रातं गणं-गणं सुशस्तिभिर् अग्नेर् भामम् मरुताम् ओज ईमहे |
    पृषदश्वासो अनवभ्रराधसो गन्तारो यज्ञं विदथेषु धीराः ||

    vrā́taṃvrātam gaṇáṃgaṇam suśastíbhiragnérbhā́mam marútāmója īmahe ǀ
    pṛ́ṣadaśvāso anavabhrárādhaso gántāro yajñám vidátheṣu dhī́rāḥ ǁ

    vrātaṃ-vrātaṃ gaṇaṃ-gaṇaṃ suśastibhir agner bhāmam marutām oja īmahe |
    pṛṣadaśvāso anavabhrarādhaso gantāro yajñaṃ vidatheṣu dhīrāḥ ||

    व्रात॑म्ऽव्रातम् । ग॒णम्ऽग॑णम् । सु॒श॒स्तिऽभिः॑ । अ॒ग्नेः । भाम॑म् । म॒रुता॑म् । ओजः॑ । ई॒म॒हे॒ ।
    पृष॑त्ऽअश्वासः । अ॒न॒व॒भ्रऽरा॑धसः । गन्ता॑रः । य॒ज्ञम् । वि॒दथे॑षु । धीराः॑ ॥

    व्रातम्ऽव्रातम् । गणम्ऽगणम् । सुशस्तिऽभिः । अग्नेः । भामम् । मरुताम् । ओजः । ईमहे ।
    पृषत्ऽअश्वासः । अनवभ्रऽराधसः । गन्तारः । यज्ञम् । विदथेषु । धीराः ॥

    vrā́tam-vrātam ǀ gaṇám-gaṇam ǀ suśastí-bhiḥ ǀ agnéḥ ǀ bhā́mam ǀ marútām ǀ ójaḥ ǀ īmahe ǀ
    pṛ́ṣat-aśvāsaḥ ǀ anavabhrá-rādhasaḥ ǀ gántāraḥ ǀ yajñám ǀ vidátheṣu ǀ dhī́rāḥ ǁ

    vrātam-vrātam ǀ gaṇam-gaṇam ǀ suśasti-bhiḥ ǀ agneḥ ǀ bhāmam ǀ marutām ǀ ojaḥ ǀ īmahe ǀ
    pṛṣat-aśvāsaḥ ǀ anavabhra-rādhasaḥ ǀ gantāraḥ ǀ yajñam ǀ vidatheṣu ǀ dhīrāḥ ǁ

    3.26.6 Aṣṭaka 3.1.27.1Anuvāka 3.2.78

  7. Ṛk 7

    अ॒ग्निर॑स्मि॒ जन्म॑ना जा॒तवे॑दा घृ॒तं मे॒ चक्षु॑र॒मृतं॑ म आ॒सन् ।
    अ॒र्कस्त्रि॒धातू॒ रज॑सो वि॒मानोऽज॑स्रो घ॒र्मो ह॒विर॑स्मि॒ नाम॑ ॥

    अग्निर् अस्मि जन्मना जातवेदा घृतम् मे चक्षुर् अमृतम् म आसन् |
    अर्कस् त्रिधातू रजसो विमानो ऽजस्रो घर्मो हविर् अस्मि नाम ||

    agnírasmi jánmanā jātávedā ghṛtám me cákṣuramṛ́tam ma āsán ǀ
    arkástridhā́tū rájaso vimā́nó’jasro gharmó havírasmi nā́ma ǁ

    agnir asmi janmanā jātavedā ghṛtam me cakṣur amṛtam ma āsan |
    arkas tridhātū rajaso vimāno 'jasro gharmo havir asmi nāma ||

    अ॒ग्निः । अ॒स्मि॒ । जन्म॑ना । जा॒तऽवे॑दाः । घृ॒तम् । मे॒ । चक्षुः॑ । अ॒मृत॑म् । मे॒ । आ॒सन् ।
    अ॒र्कः । त्रि॒ऽधातुः॑ । रज॑सः । वि॒ऽमानः॑ । अज॑स्रः । घ॒र्मः । ह॒विः । अ॒स्मि॒ । नाम॑ ॥

    अग्निः । अस्मि । जन्मना । जातऽवेदाः । घृतम् । मे । चक्षुः । अमृतम् । मे । आसन् ।
    अर्कः । त्रिऽधातुः । रजसः । विऽमानः । अजस्रः । घर्मः । हविः । अस्मि । नाम ॥

    agníḥ ǀ asmi ǀ jánmanā ǀ jātá-vedāḥ ǀ ghṛtám ǀ me ǀ cákṣuḥ ǀ amṛ́tam ǀ me ǀ āsán ǀ
    arkáḥ ǀ tri-dhā́tuḥ ǀ rájasaḥ ǀ vi-mā́naḥ ǀ ájasraḥ ǀ gharmáḥ ǀ havíḥ ǀ asmi ǀ nā́ma ǁ

    agniḥ ǀ asmi ǀ janmanā ǀ jāta-vedāḥ ǀ ghṛtam ǀ me ǀ cakṣuḥ ǀ amṛtam ǀ me ǀ āsan ǀ
    arkaḥ ǀ tri-dhātuḥ ǀ rajasaḥ ǀ vi-mānaḥ ǀ ajasraḥ ǀ gharmaḥ ǀ haviḥ ǀ asmi ǀ nāma ǁ

    3.26.7 Aṣṭaka 3.1.27.2Anuvāka 3.2.79

  8. Ṛk 8

    त्रि॒भिः प॒वित्रै॒रपु॑पो॒द्ध्य१॒॑र्कं हृ॒दा म॒तिं ज्योति॒रनु॑ प्रजा॒नन् ।
    वर्षि॑ष्ठं॒ रत्न॑मकृत स्व॒धाभि॒रादिद्द्यावा॑पृथि॒वी पर्य॑पश्यत् ॥

    त्रिभिः पवित्रैर् अपुपोद् ध्य् अर्कं हृदा मतिं ज्योतिर् अनु प्रजानन् |
    वर्षिष्ठं रत्नम् अकृत स्वधाभिर् आद् इद् द्यावापृथिवी पर्य् अपश्यत् ||

    tribhíḥ pavítrairápupoddhyárkám hṛdā́ matím jyótiránu prajānán ǀ
    várṣiṣṭham rátnamakṛta svadhā́bhirā́díddyā́vāpṛthivī́ páryapaśyat ǁ

    tribhiḥ pavitrair apupod dhy arkaṃ hṛdā matiṃ jyotir anu prajānan |
    varṣiṣṭhaṃ ratnam akṛta svadhābhir ād id dyāvāpṛthivī pary apaśyat ||

    त्रि॒ऽभिः । प॒वित्रैः॑ । अपु॑पोत् । हि । अ॒र्कम् । हृ॒दा । म॒तिम् । ज्योतिः॑ । अनु॑ । प्र॒ऽजा॒नन् ।
    वर्षि॑ष्ठम् । रत्न॑म् । अ॒कृ॒त॒ । स्व॒धाभिः॑ । आत् । इत् । द्यावा॑पृथि॒वी इति॑ । परि॑ । अ॒प॒श्य॒त् ॥

    त्रिऽभिः । पवित्रैः । अपुपोत् । हि । अर्कम् । हृदा । मतिम् । ज्योतिः । अनु । प्रऽजानन् ।
    वर्षिष्ठम् । रत्नम् । अकृत । स्वधाभिः । आत् । इत् । द्यावापृथिवी इति । परि । अपश्यत् ॥

    tri-bhíḥ ǀ pavítraiḥ ǀ ápupot ǀ hí ǀ arkám ǀ hṛdā́ ǀ matím ǀ jyótiḥ ǀ ánu ǀ pra-jānán ǀ
    várṣiṣṭham ǀ rátnam ǀ akṛta ǀ svadhā́bhiḥ ǀ ā́t ǀ ít ǀ dyā́vāpṛthivī́ íti ǀ pári ǀ apaśyat ǁ

    tri-bhiḥ ǀ pavitraiḥ ǀ apupot ǀ hi ǀ arkam ǀ hṛdā ǀ matim ǀ jyotiḥ ǀ anu ǀ pra-jānan ǀ
    varṣiṣṭham ǀ ratnam ǀ akṛta ǀ svadhābhiḥ ǀ āt ǀ it ǀ dyāvāpṛthivī iti ǀ pari ǀ apaśyat ǁ

    3.26.8 Aṣṭaka 3.1.27.3Anuvāka 3.2.80

  9. Ṛk 9

    श॒तधा॑र॒मुत्स॒मक्षी॑यमाणं विप॒श्चितं॑ पि॒तरं॒ वक्त्वा॑नां ।
    मे॒ळिं मदं॑तं पि॒त्रोरु॒पस्थे॒ तं रो॑दसी पिपृतं सत्य॒वाचं॑ ॥

    शतधारम् उत्सम् अक्षीयमाणं विपश्चितम् पितरं वक्त्वानाम् |
    मेऌइम् मदन्तम् पित्रोर् उपस्थे तं रोदसी पिपृतं सत्यवाचम् ||

    śatádhāramútsamákṣīyamāṇam vipaścítam pitáram váktvānām ǀ
    meḷím mádantam pitrórupásthe tám rodasī pipṛtam satyavā́cam ǁ

    śatadhāram utsam akṣīyamāṇaṃ vipaścitam pitaraṃ vaktvānām |
    meḷim madantam pitror upasthe taṃ rodasī pipṛtaṃ satyavācam ||

    श॒तऽधा॑रम् । उत्स॑म् । अक्षी॑यमाणम् । वि॒पः॒ऽचित॑म् । पि॒तर॑म् । वक्त्वा॑नाम् ।
    मे॒ळिम् । मद॑न्तम् । पि॒त्रोः । उ॒पऽस्थे॑ । तम् । रो॒द॒सी॒ इति॑ । पि॒पृ॒त॒म् । स॒त्य॒ऽवाच॑म् ॥

    शतऽधारम् । उत्सम् । अक्षीयमाणम् । विपःऽचितम् । पितरम् । वक्त्वानाम् ।
    मेळिम् । मदन्तम् । पित्रोः । उपऽस्थे । तम् । रोदसी इति । पिपृतम् । सत्यऽवाचम् ॥

    śatá-dhāram ǀ útsam ǀ ákṣīyamāṇam ǀ vipaḥ-cítam ǀ pitáram ǀ váktvānām ǀ
    meḷím ǀ mádantam ǀ pitróḥ ǀ upá-sthe ǀ tám ǀ rodasī íti ǀ pipṛtam ǀ satya-vā́cam ǁ

    śata-dhāram ǀ utsam ǀ akṣīyamāṇam ǀ vipaḥ-citam ǀ pitaram ǀ vaktvānām ǀ
    meḷim ǀ madantam ǀ pitroḥ ǀ upa-sthe ǀ tam ǀ rodasī iti ǀ pipṛtam ǀ satya-vācam ǁ

    3.26.9 Aṣṭaka 3.1.27.4Anuvāka 3.2.81

Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 3.26 · Agni Vaiśvānara · Agni, Maruts · Agni Or Ātmastuti Or Parabrahma · Viśvāmitra Himself And The Preceptor

Interpretations

Sri Aurobindo

Ṛk 1

We the Kushikas, bringing the offering, desiring the Treasure, call by our words Fire, the universal godhead, discerning him by the mind, as the follower of the truth, who finds the world of the sun, the great giver, the divine and rapturous charioteer. (203)

Ṛk 2

We call to guard us that brilliant Fire, the universal godhead, who grows in the mother, the master of the word, the speaker and the hearer, for the human being’s forming of the godhead, the illumined Seer, the guest, the swift Traveller. (203)

Ṛk 3

As if the neighing Horse by the mothers, the universal godhead is kindled high by the Kushikas from generation to generation; may that Fire wakeful in the Immortals give to us the hero-strength and good power of the Horse and the ecstasy. (203)

Ṛk 4

Let them go forward, the plenitudes with the strengths, thy Fires; they have yoked the dappled mares mingled together to reach bliss and make the mountains tremble, before them the life-gods, omniscient, pouring the Vast, inviolable. (203)

Ṛk 5

The life-gods with their glory of fire, universal in the peoples,57 we desire as our brilliant and forceful guard; great givers are they, thunderous and terrible, clothed as if in raiment of rain, they are like roaring lions. (204)

Ṛk 6

Host upon host, troop upon troop with their proclaimings of the Fire we desire the luminous energy of the life-gods; they come to the sacrifice driving their dappled horses, their achievement cannot be taken from them, they are wise thinkers in the discoveries of knowledge. (204)

Ṛk 7

I am the Fire, I am from my birth the knower of all things born; light is my eye, in my mouth is immortality; I am the triple Ray, I am the measurer of the mid-world, I am the unceasing illumination, I am the offering. (204)

Ṛk 8

He has purified through the three filters the Ray, following the thought with the heart he has reached knowledge of the light; he has created by the self-laws of his nature the supreme ecstasy and his sight has embraced earth and heaven. (204)

Ṛk 9

He is a fountain with a hundred streams that is never exhausted, with his illumined consciousness he is the father and accorder of all that must be spoken; he takes his rapture in the lap of the Father and Mother and earth and heaven fill him full, the speaker of truth. (205)